________________
सादर्श:- [ द्वितीयाकारकप्रथमखण्डेनुपपत्तिः । घृतादेश्चाश्रयानवच्छिन्नधात्वर्थतावच्छेदकतावक्रियारूपालाश्रयत्वात् कर्मत्वोपपत्तिः।
यतु धात्वर्थतावच्छेदकत्वं धातुवृत्तिग्रहविशेष्यांशे साक्षात्प्रकारत्वं तच्च क्रियायामेव न संयोगांशेऽपीति नाग्नेर्जुहोतिकर्मतापत्तिरिते, तदसत्-. 'अजां ग्रामं नयाते ' इत्यादी संयोगावच्छिन्नक्रियानुकूलव्यापारादिरूपे धात्वर्थे संयोगादेः साक्षादप्रकारतया तदाश्रयीभूतग्रामादेः कर्मत्वानुपपत्या नीवहादाकर्मशत्वव्यावातात् । शाब्दबोधस्वीकारानानुपपत्तिरित्युक्तम् ( ४१ पृ.) तथात्राप्युद्देश्यतावच्छेदकः । दुधात्वर्थतावच्छेदकसंयोगावच्छेदकः ) अग्निरेव विधेयश्च संस्कृतोमिरिति विधेयांशे संस्कृतत्वस्याधिकस्यावगाहनान्नात्र शाब्दबोधानुपपत्तिरित्यर्थः । 'अग्नौ घृतं जुहोति । इत्यादौ घृतादेः कर्मत्वमुरादयति- वृतादेरिति, आश्रयविशेषेणाऽनवच्छिन्ना या हुवात्वर्थतावच्छेदकतावती धृतनिष्ठा क्षरगरूपा क्रिया तादृशक्रियारूपालस्याश्रयत्वाद् धृतादेः कर्मत्वम् । यद्यप्यत्रैषा क्रियापि धृतरूपाश्रो गावच्छिन्नेत्र तथापि यथा ' ग्रामं गच्छति' इत्यत्र धात्वर्यतावच्छेदकसंयोगस्योत्तरदेशेनावच्छिन्नत्वेपि नोत्तरदेशावच्छिन्नत्वेन प्रतीतिः किं तु शुद्धसंयोगस्यैव धात्वर्थतावच्छेदकत्वं तथाऽत्राप्पाश्रयानवच्छिन्नाया एन क्रियाया धात्वर्थतापच्छेदकत्वमितिभावः क्षरणानुकूलव्यापारस्य हधात्वर्थयात् क्षरणक्रियाया धात्वर्थताक्च्छेदकत्वं प्राप्तम् । . ननु धात्वर्थतावच्छेदकं तदेव भवति यद् धातुविषयकशक्तिज्ञाने विशेष्यतया भासमानधात्वयस्य साक्षात् प्रकार: स्यात्तथा च 'अनौ घृतं जुहोति' इत्यत्र अग्याश्रितः संयोगो न साक्षाद्धात्वर्यतावच्छेदको येन तदाश्रयस्यामे: कर्मत्वं स्यात्- अग्न्याश्रितसंयोगस्य धात्वर्थतावच्छेदकीभूतक्रियावच्छेदकत्वात, साक्षाद्धात्वर्थतारच्छेदकावं तु घृताश्रितक्रियाया एवेति घृतस्यैव कर्मत्वमित्याशङ्कते- यत्त्विति । परिहरति- तदसदिति, यदि धात्वर्थे साक्षात्कारत्वमेव धात्वर्थतावच्छेदकत्वं स्यात् तादशसाक्षाद्धात्वर्थतावच्छेदकीभूतकलाश्रयस्यैव च कर्मत्वं स्यात्तदा : अजां ग्रामं नयति ' इत्यत्र ग्रामवृत्तिसंयोगावच्छिन्ना (जनकीभूता ) याऽऽजानिष्ठा क्रिया तादृशक्रियानुकूल ( जनक) व्यापार एवं नीधात्वयोस्तीति नीधात्वर्थे ग्रामवृत्तिसंयोगस्य साक्षाप्रकारत्वं नास्तीति तादृशसंयोगाश्रयीभूतग्रामस्य कर्मत्वं न स्यादिति नीवहादेर्द्विकर्मकत्वं न स्थादित्यर्थः । अत्र ग्रामवृत्तिसंयोगस्य धात्वर्थतावच्छेदकीभूता याऽजानिष्ठा क्रिया तदवच्छेदकत्वम्, तादृशक्रियाया एव च धात्वर्थतावच्छेदकत्वम् । __ननु धात्वर्थे साक्षात्कारत्वमेव धात्वर्थतावच्छेदकत्वं तादृशधात्वर्थतावच्छेदकीभूतफलात्रयस्यैव च प्रधानकर्मत्वं भवति यथा ' ग्रामं गच्छति । इत्यत्र ग्रामस्य 'अजां ग्रामं नयति' इत्यत्र चाऽजाया इति, तथा चात्र साक्षाद्धात्वर्थतावच्छेदकीभूतफलाश्रयत्वाभावाद् ग्रामस्थ
"Aho Shrutgyanam"