________________
जुहोतिकर्मविचारः व्युत्पत्तिवादः
(२३७) अथात्र ग्रामादेः प्रधानकर्मत्वं नास्त्येवाऽपि तु गौणकर्मत्वमेव, अत एव तादृशकर्मत्वमाख्यातेन नाभिधीयते "प्रधानकर्मण्याख्येये लादीना कर्मणाम्" इत्यनुशासनादिति 'अजां ग्रामो नीयते' इत्यादिको न प्रयोग इतिचेत् ?, तर्हि तत्र ग्रामादेरिवात्रापि हुधात्वर्थतावच्छेदकतावच्छेदकफलशालित्वेन गौणकर्मतापत्या 'वहिं घृतं जुहोति । इतिप्रयोगापत्तिर्दुारैवेति । अस्मन्मते चाश्रयानवच्छिन्नसंयोगविषयताशालिधातुजन्योपस्थितिघटितसामय्या एव संयोगे द्वितीयार्थान्वयबोधप्रयोजकतया नैतादृशप्रयोगापत्तिरिति । प्रधानकर्मत्वं नास्त्येव किं तु गौणकर्मत्वमेव, अत एष साक्षाद्धात्वर्थतावच्छेदकीभूतफलाश्रयत्वामावादेव तादृशकर्मत्वम् गौणकर्मत्वमाख्यातेन नाभिधीयते आख्यातस्य गौगवमित्वे शक्तिर्नास्तीत्याशङ्कते-अथेति । उक्ते प्रमाणमाह-प्रधानेति, अत्र घातूनामितिशेषः । द्विकर्मणां धातूनां द्वयोः कर्मणोर्मध्ये प्रधानकर्मण्याख्येये= बोध्ये लादीनाहुः= लादयः ( आख्यातादयः) प्रधानकर्मणि शक्ताः प्रधानकर्मबोधका एवेत्यर्थः । न चैवं ह्यत्र ग्रामपदाद् द्वितीयापिन स्यादित्याशङ्यम्-ग्रामस्यापि कर्मत्वं त्वस्त्येव तद् गौणं वा स्यात् प्रधानं वा स्यादित्यन्यदेतत् " कर्मणि द्वितीया " इत्यनेन कर्मत्वमात्रे द्वितीयाभिधानात् । नन्वेवम् ' मजा ग्रामो नीयते । इत्येवमपि प्रयोगः स्यात्-प्रधानकर्मत्वमजाया एवेति तद्राचकाजाशब्दाद् द्वितीयापत्त्या ग्रामस्य च गौणकर्मत्वात्तद्वाचकग्रामपदाद् द्वितीयाऽनापत्त्येत्याशङ्कयाह-अजामिति, - अजां ग्रामो नीयते ' इति प्रयोगो न भवति-अत्र प्रधानकर्मत्वस्याख्यातेनाभिहितत्वात् प्रधानकर्मवाचकाजापदाद् द्वितीयाया अप्राप्तः, गौणकर्मत्वस्याख्यातेनाऽनभिहितत्वाद् गौणकर्मवाचकत्रामपदाद् द्वितीयायाः प्राप्तरित्यर्थः । र,था च ' अजा ग्रामं नीयते । इत्येव प्रयोगो. भवति । किं वात्र ''अत एव ' इत्येवावतरणं ज्ञेयम् । परिहरति-तीति, यदि तत्र अजां प्रामं नयति ' इत्यत्र नीधात्वर्थतावच्छेदकतावच्छेदकफलशालित्वेन ( नीधात्वर्थतावच्छेदिकायाऽजावृत्तिः क्रिया तदवच्छेदकस्संयोगस्तदाश्रयत्वेन ) ग्रामस्य गौणकर्मत्वं तदा तादृशग्रामादेरिवात्र= वह्नौ धृतं नुहोति ' इत्यत्रापि वढे धात्वर्थतावच्छेदकतावच्छेदकफलशालित्वेन (दुधात्वर्थतावच्छेदिका या. घृतनिष्टा क्षरणक्रिया तदवच्छेदको यो वह्निसंयोगस्तदाश्रयत्वेन ) गौणकर्मतापत्त्या द्वितीयाप्राप्तेः ' वर्हि घृतं जुहोति । इत्येवं प्रयोगापत्तिः स्यादेव, न चैतदिष्टमिति न धात्वर्थता. वच्छेदकतावच्छेदकफलशालित्वेन गौणकर्मत्वं युक्तमित्यर्थः । स्वगतेन समाधत्ते- अस्मदिति, मम मते तु संयोगे द्वितीयार्थाऽऽधेयत्वान्वयं प्रति धातुजन्याया आश्रयानवच्छिन्नसंयोगविषयकाया उपस्थितेः कारणत्वमस्ति अत्र च वह्नयाश्रितसंयोगस्य वद्विरूपाश्रयेणाऽवच्छिन्नत्वमेवास्तीति न तत्र द्वितीयार्थाधेयत्वान्वयः संभवतीति न तादृशसंयोगाश्रयीभूतवह्निबाचकतिपदाद् द्वितीयापत्तिरिति नैतादृशप्रयोगापत्तिा='वहिं वृतं जुहोति , इतिप्रयोगा. पत्तिरित्यर्थः ।
"Aho Shrutgyanam"