________________
(२३८)
सादर्शः- [ द्वितीयाकारकप्रथमखण्डेयत्तु अधःसंयोगावच्छिन्नस्पदो न पतत्यर्थः, अपि. तु गुरुत्वजन्यतावच्छेद कजातिविशेषावच्छिन्न एव, अत एव फलावच्छिन्नव्यापाराऽबोधकत्वान्न सकर्मकत्वमिति, तन्न-फलस्य धात्वर्थाघटकत्वे स्पन्दे एव सप्तम्यर्थान्वयस्योपगन्त. व्यतया पर्णादिनिष्ठस्य तस्य भूतलाघवृत्तितया 'भूतले पतति ' इति प्रयोगा। नुपपत्तेः । पर्णादिगतस्पन्दस्य परम्परया भूतलादिवृत्तित्वमितिचेत् १ ताह
वृक्षात् पतति ' इतिवत् 'वृक्षे पतति ' इत्यपि स्यात् । अस्मन्मते चान्यत्र व्यापारे सप्तम्यर्थान्वयेप्यत्र व्युत्पत्तिवैचित्र्यादधःसंयोगरूपधात्वर्थतावच्छेदके
एव तदन्वय इत्यदोषः। ___ ननु यद्यऽधस्संयोगावच्छिन्नस्पन्दः पतत्यर्थः स्यात्तदा फलावच्छिन्नव्यापारबोधकत्वसंभवात् सफर्मकत्वापत्तिशङ्का स्यादपि न चैवमस्ति किं तु गुरुत्वजन्यतावच्छेदिका या पतनत्वजातिस्तादृशजातिविशेषावच्छिन्नस्पन्दः ( पतनानुकूलस्पन्दः ) एव पतधात्वर्थोस्तीति फलावच्छिन्नव्यापाराऽबोधकत्वान सकर्मकत्वापत्तिः-धात्वर्थन्यापारावच्छेदिकाया गुरुत्वजन्यतावच्छेदकजातेः कलरूपत्वाभावादित्याशङ्कते-यत्त्विति । भाद्यपतनं गुरुत्वजन्यमेव भवतीति पतनत्वजातिगुंरुत्वजन्यतावच्छेदिका । परिहरति-तन्नेति, यद्यऽधस्संयोगावच्छिन्नस्पन्दः पतत्यर्थो न स्यात्तदा फलस्य अधः-संयोगरूपफलस्य धात्वर्थाऽघटकरवे धात्वर्थे प्रवेशाभावात् सप्तम्यर्थाधेयत्वस्याऽधःसंयोगेऽन्वयाऽसंभवात् स्पन्दे एव धात्वर्थेऽन्वयः स्वीकर्तव्यः, पतधात्वर्थस्पन्दश्च स पर्णनिष्ठ एव न भूतलनिष्ठो येन सप्तम्यर्थाधेयत्वान्वयिस्पन्दाश्रयत्वात् तादृशभूतलवाचकभूतलपदात् सतमी स्यात् यस्मिन् विभक्त्यर्थान्वयस्तदाश्रयीभूतपदार्थवाचकपदादेव तादृशविभक्तेर्जायमानस्वादिति ' भूतले पतति । इतिप्रयोगो न स्यादित्यर्थः । ननु पर्णगतस्यापि स्पन्दस्य परम्परया=पर्णद्वारा भूतलवृत्तित्वमस्त्येवेति भूतलपदात् सप्तमीप्राप्तेः “भूतले पतति । इति प्रयोगानुपपत्तिर्नास्तीत्याशङ्कते-पर्णादिगतस्येति । उत्तरमाह-तहाँति, एवं हि पर्णगतस्य स्पन्दस्य परम्परया वृक्षेपि संभवात् वृक्षपदादपि सप्तम्यापत्त्या ' वृक्षे पतति । इत्यपि प्रयोगः स्यात्, न चैतदिष्टं तस्मादधःसंयोगावच्छिन्न एव स्पन्दो पतधात्वर्थो न तु गुरुत्वजन्यतावच्छेदकजातिविशेषावच्छिन्न इत्यर्थः । स्वमतेन समाधत्ते-भस्मदिति, अन्यत्र' गृहे पचति ' इत्यादौ सप्तम्यर्धाधेयत्वस्य व्यापारेऽन्वयो भवति तादृशव्यापाराश्रयीभूतवाचकगृहपदात् सप्तमी च भवति-गृहवृत्तिापार इति बोधोदयात्, अत्र= भूतले पतति । इत्यादौ पतधातुसममिन्याहारस्थले तु सप्तम्यर्थाधेयत्वस्य धात्वर्थतावच्छेदकेऽध:संयोगरूपफले-श्वान्वयो भवतीति तादृशाधस्संयोगरूप फलाश्रयीभूतभूतलवाचकभूतलपदात् सप्तमी भवति, वृक्षपदाच सप्तमी न संभवतिवृक्षस्य तादृशाधःसंयोगरूपफलाश्रयत्वाभावादिति न 'वृक्षे पतति । इति प्रयोगापत्तिः । किं च भूतलाश्रितीभूताधःसंयोगरूपफलस्याऽधोदेशरूपाश्रयेणावच्छिन्नत्वाद् भूतलपदाद् द्वितीयाऽऽपत्तिरपि नास्त्येव- आश्रयानवच्छिन्नफलाश्रयीभूतपदार्थवाचकपदादेव द्वितीयाप्राप्तरित्यदोषः
"Aho Shrutgyanam"