________________
पततिकर्मविचारः] व्युत्पत्तिवादः।
(२३९) अन्ये तु भूम्यादेः कर्मत्वविवक्षायाम् ' भूमि पतति' इतिप्रयोग इष्ट एव, अत एव" द्वितीयाश्रित " इत्यादिसूत्रेण — नरकं पतितः ' इत्यादिस्थले द्वितीयासमासविधानमप्युपपद्यते । धात्वर्थतावच्छेदकतावच्छेदकफले द्वितीयान्वये एवाश्रयानवच्छिन्नफलोपस्थितेरपेक्षा 'अग्निं जुहोति ' इतिवारणाय स्वीक्रियते इति वदन्ति । तदपि न शोभनम्- तथा सति भूम्यादिपदोत्तरं कदाचित् सप्तमी कदाचिद् द्वितीयेत्यत्र नियामकाभावप्रसङ्गात् । व्यापारांशे आधेयत्वविवक्षार्या सप्तमी फलांशे तद्विवक्षायां द्वितीयेत्यस्योक्तयुक्त्या फलांश एव सप्तम्यर्थान्वयस्यावश्यं स्वीकरणीयतया वक्तुमशक्यत्वादिति । अस्मन्मते कोपि दोषो नास्ति= भूमि पतति , ' वृक्षे पतति । इतिप्रयोगयोरापतिरपि नास्ति — भूतले पतति , इतिप्रयोगस्यानुपपत्तिरपि नास्तीत्यर्थः । तदन्वयःसप्तम्यर्थाधेयत्वान्वयः । ___ मतान्तरमाह- अन्ये त्यिति । अत एव भूमेः कर्मत्वविवक्षायाम् ' भूमि पतति । इतिप्रयोगस्येष्टत्वादेव । यदि पतधातुसमभिव्याहारस्थले कर्मत्वविवक्षायामपि भूम्यादीनां कर्मत्वं न स्यातदा 'नरकं पतितो नरकपतितः । इति समासविधानमपि नोपपद्येत नरकस्य कर्मत्वानुपपत्तेः । 'नन्वेवं द्वितीयार्थान्वयं प्रति धातुजन्याश्रयानवच्छिन्नफलोपस्थितेः कारणत्वमस्तीति नियमव्याघातः स्यात् , अर्थात् धात्वर्थतावच्छेदकीभूतं यदाश्रयानवच्छिन्नं संयोगादिरूपं फलं तदाश्रयीभूतपदार्थवाचकपदादेव द्वितीया भवतीति नियमोस्ति 'भूमि पतति । इत्यत्र च भूम्याश्रितसंयोगस्याऽधोदेशरूपाश्रयेणावच्छिन्नत्वात् तदाश्रयीभूतभूमिवाचकभूमिप्रदाद् द्वितीया . कथं स्यादित्याशङ्ख्याह- धात्वर्थतेति, ' अनि जुहोति । इतिप्रयोगवारणाय धात्वर्थतावच्छेदकतापच्छेदकस्यैव फलस्याश्रयानवच्छिन्नत्वेनोपस्थितेरपेक्षास्ति न तु धात्वर्थतावच्छेदकस्यापि, अन्यथा हुधात्वर्थतावच्छेदिका या क्रिया तदवच्छेदको योमिनिष्ठः संयोगस्तस्याग्निरूपाश्रयेणावच्छिन्नत्वेप्यग्निपदाद् द्वितीया स्यादेव, धात्वर्थतावच्छेदकीभूतक्रियाया आश्रयानवाच्छिन्नत्वात् , धात्वर्थताच. च्छेदकतावच्छेदकफलस्याश्रयानवच्छिन्नत्वेनोपस्थितेर्द्वितीयार्थान्वयं प्रति कारणत्वे तु ' अमिं जुहोति ' इति प्रयोगस्यापत्तिर्नास्त्येव, धात्वर्थतावच्छेदकतावच्छेदकस्यामिसंयोगरूपफलस्यामिरूपाश्रयेणावच्छिन्नस्यैवोपस्थितेर्जायमानत्वात् 'भूमि पतति । इत्यत्र तु धास्वर्थतावच्छेदक मेवाधस्संयोगरूपफलमधोदेशरूपाश्रयेणावच्छिन्नमस्तीति न तद् द्वितीयाप्राप्तिप्रतिबन्धकमिति न 'भूमि पतति ' इतिप्रयोगे काचिदनुपपत्ति:-धात्वर्थतावच्छेदकतावच्छेदकफलस्यैवाश्रयावच्छिन्नत्वेनोपस्थितस्य द्वितीयाप्रतिबन्धकत्वादित्यर्थः । परिहरति- तदपि नेति । तव मतेन ' भूमि पतति ।
भूमौ पतति ' इत्युभयविधस्यैव प्रयोगस्येष्टत्वाद् भूम्यादिपदोत्तरं यत् कदाचिद् द्वितीय भवति कदाचिच्च सप्तमी भवति तत्र नियामकं न स्यादेव । यदि व्यापारांशे आधेयत्वविवक्षायां सप्तमी भवतीति ' भूमौ पतति । इतिप्रयोगः स्यात् फलांशे आधेयत्वविवक्षायां द्वितीया
"Aho Shrutgyanam"