________________
(२२६)
सादर्श:- [ द्वितीयाकारकप्रथमखण्डेत्वेन तत्स्वरूपत्वात् तस्य चोभयवादिसिद्धत्वात् । अतिरिक्तप्रतियोगिताकल्पने गौरवमितिचत् ?, . अस्त्वेतद् गौरवम्- उपदर्शितबहुविधलाघवेनेशगौरवस्या. ऽकिंचित्करत्वात् । ___ अथ: फलस्य द्वितीयार्थत्वे वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वपि द्रव्यं गच्छति न गुणम् ' इत्यादौ गुणादिनिष्ठस्य संयोगादिरूपफलस्याप्रसिद्धया नजर्यान्वयबोधानुपपत्तिरितिचेत् ?, न, तत्राधेयतासंबन्धावच्छि. अप्रतियोगिताकप्रकृत्यर्थाभावस्यैव द्वितीयार्थे फले नञा बोधनोपगमात् । 'गुणो तायाः कल्पने स्वीकारेण गौरवं स्यात् प्राचीनमते इत्याशङ्कते- अतिरिक्तति । यथा संयोगेन घटाभावस्य घटसंयोगाभावस्य चैकरूपत्वेपि संबन्धभेदात्तयोः प्रतियोगिता मिन्नव भवतिसंयोगेन धटाभावीयप्रतियोगितायाः संयोगसंबन्धस्यावच्छेदकत्वाद् घटसंयोगामावीयप्रतियोगितायाः समवायस्यावच्छेदकत्वात्तथात्राप्युक्ताभावयोः प्रतियोगितयोरवच्छेदकीभूतसंबन्धभेदेन भेदो झेपः- संयोगाभावीयप्रतियोगितावच्छेदकः, जनकत्वसंबन्धः, संयोगजनकत्वाभावीयप्रतियोगितावच्छेदकः स्वरूपसंबन्धः इति ध्येयम् । अभ्युपगम्याह- अस्त्वेतदिति। आधेयत्वस्य द्वितीयार्थत्वं फलावच्छिन्न व्यापारस्य च धात्वर्थस्वमिति नवीनमते ये दोषाः ( २२३ पृ.) प्रदर्शितास्ते प्राचीनमते न सन्तीति प्राचीनमते प्रदर्शितबहुविधलाघवेन तुलनायामादृशस्य= अतिरिक्तत्र तेगोगितास्वीकाररूपगौरवस्य तुच्छत्वादित्यर्थः । - ननु प्राचीनमतेन फलस्य संयोगादोर्द्वतीयार्थत्वे वृत्त्यनियामकस्य जनकत्वसंबन्धस्याभावीयप्रतियोगितावच्छेदकत्वे च स्वीकृतेपि तेन च ' भूमि गच्छति न महीरुहम् ' इत्यत्र 'जनकवसंबन्धावच्छिनप्रतियोगिताको यो महीरुहानुयोगिकसंयोगस्याभावस्तद्वव्यापारवजलम् । इत्याकारकान्वयबोधोपपादनेपि 'द्रव्यं गच्छति न गुणम् । इत्यादौ शाब्दबोधानुपपत्तिर्दोषोऽस्त्येव बतोऽत्र 'गुणम् । इतिद्वितीयार्थः फलरूपः संयोग एव प्राप्त इति 'जनकत्वसंबन्धावच्छिन्नप्रतियोगिताको यो गुणवृत्तिसंयोगस्याभावस्तद्वद्व्यापारवाश्चैत्रः' इत्येव शाब्दबोधो वक्तव्यः सच न संभवति गुणे संयोगरूपगुणस्य बाधाद् गुणवृत्तिसंयोगरूपफलाभावस्य नार्थत्वासंमवेन चान्वयबोधासंभवादित्याशङ्कते- अथेति । परिहरति- नेति, तत्र' द्रव्यं गच्छति न गुणम् ' इत्यत्र द्वितीयार्थे गुणपदोत्तरद्वितीयाथै फले-संयोगे आधेयत्वसंबन्धावच्छिन्नप्रतियोगिताकः प्रकृत्यर्थस्य-गुगस्याभावो नत्रा बोध्यते संयोगे चाधेयतासंबन्धेन गुणो नास्त्येव 'आधेयत्वसंबन्धावच्छिन्नप्रतियोगिताको यो गुणाभावस्तद्वान् यः संयोगस्तजनकगमनव्यापारबाश्चैत्रः । इति च शाब्दबोधः, आधेयत्वसंबन्धावच्छिनप्रतियोगिताकगुणाभाववत्संयोगजनकगमनन्यापारश्चात्र द्रव्यकर्मक एवं गमनव्यापारः संभवति न गुणकर्मक इति नात्रान्वयबोधानुपत्तिरियर्थः । गुगवृत्तिगुणत्वादौ गुणस्याधेयतासंबन्धेन वृत्तेः प्रसिद्धत्वादत्र संयोगे गुणस्याधेय. तासंबन्धनाभावो नानुपपन्नः, किं वा समवायेनेव गुणे गुणानङ्गीकारात् समवायातिरिक्ताधेयता.
"Aho Shrutgyanam"