________________
क्रियाविशेषणाभेदान्वयाकाङ्क्षा ] व्युत्पत्तिवादः ।
‘स्तोक पचति ' 'मृदु पचति ' इत्यादौ विरुद्धविभक्त्यऽवरुद्ध पदोपस्थापितस्थापि स्तोकमृदादेर्धात्वर्थपाकादावऽभेदान्वयो व्युत्पत्तिसिद्धः तदनुरोधेन च द्वितीयान्तपदधातुपदयोः समभिव्याहारस्याप्यभेदान्वयबोधौपयिकाऽऽकाङ्क्षात्वमुपगम्यते. क्रियाविशेषणस्थले च न द्वितीयातिरिक्तविभक्तिरुत्पद्यते "क्रियाविशेषणानां क्लीबत्वं कर्मत्वं च" इत्यनुशासनेन तत्र कर्मत्वातिदेशात् ।।
न चैवम्- ‘स्तोकः पाकः' इत्यादावपि द्वितीयाप्रसङ्गः- तत्रापि म्तोकादेः क्रियायामेव विशेषणत्वात्. भावकृतां प्रयोगसाधुत्वमात्रार्थकतया __ नीलो घटः ' इत्यादावऽभेदान्वयबोधौपयिकाकाङ्क्षास्वरूपमुक्त्वा संप्रति स्तोकं पचति' इत्यादावभेदान्वयदोधौपयिकाकाङ्क्षां निर्वक्ति- स्तोकमित्यादिना । यद्यपि 'नीलो घटः । इत्यादौ सुबन्तप्रयोगे तु विशेष्यविशेषणवाचकपदयोर्विरुद्धविभक्त्यन्तत्वे ह्यऽभेदान्वयबोधो न भवति तथापि ' स्तोकं पचति । इत्यादौ तिङन्तप्रयोगे तु विशेष्यविशेषणवाचकपदयोर्विरुद्धविभक्त्यन्तत्वेप्यभेदान्वयबोधो भक्तीति पचतीतितिविभक्त्यपेक्षया विरुद्धविभक्त्या द्वितीययाऽवरुद्धेन स्तोकमितिपदेनोपस्थापितस्यापि स्तोकपदार्थस्य धात्वर्थीभूतपाकादावऽभेदेनान्वयो भवति-स्तोकाभिन्नः पाक इति, अभेदसंबन्धावच्छिन्नस्तोकत्वावच्छिन्नप्रकारतानिरूपितपाकत्वावच्छिन्नविशेष्यताकः शाब्दबोधः । तथा च यथा 'नीलो घटः । इत्यत्राभेदान्वये प्रथमान्तघ
पदप्रथमान्तनीलपदयोः समभिव्याहारस्याकाङ्क्षात्वं तथा 'स्तोकं पचति' इत्यत्र द्वितीयान्तविशेषणवाचकस्तोकादिपदधातुपदयोःसमभिव्याहारस्याकाङ्क्षात्वं ज्ञेयम् । ननु क्रियाजन्यफलाश्रयत्वमेव कर्मत्वम्, एतादृशकर्मवाचकपदादेव द्वितीया भवति. अत्र च स्तोकपदार्थस्य पाकक्रियाजन्यफलाश्रयत्वमेव नास्ति धात्वर्थपाकेऽभेदेनान्वयस्वीकारादिति स्तोकपदाद् द्वितीया कथमत्र प्रावत्याशङ्कमाह-नियाविशेषणेति तत्र' स्तोकं पचति' इत्यादिवाक्यघटकस्तोकपैदस्यार्थे कर्मत्वातिदेशात्-कर्मत्वोपचारात, औपचारिकं यत कर्मत्वं तदाश्रित्य द्वितीया जायते इत्यर्थः ।
नन्वेवम् स्तोकः पाकः .. ..... नात स्तोकपदार्थ-त्रापि पाकेन धात्वर्थेनाभेदान्वयस्वीकारात् । ननु प्रत्ययार्थस्यात्र प्राधान्येन तत्रैव स्तोकदार्थान्ययो भविष्यति न धात्वर्थे, क्रियाविशेषणवाचकपदाद् द्वितीया तु तत्र भवति मत्र क्रियाविशेषणस्य धात्वर्थेऽभेदान्वयः स्यादित्याशङ्कयाह- भावेति, भाववाचककृदन्तप्रत्ययानां साधुत्वमात्रार्थकत्वेन तत्र' स्तोकः पाकः' इत्यादावपि धातुनैव पाकाद्यर्थः प्रतिपाद्यते न तु प्रत्ययेन येन प्रत्ययार्थपाकादौ विशेषणस्यान्वयः स्यात् । अयं भावः
पाकः' इत्यत्र धातुनापि पाकक्रियैव प्रतिपाद्यते भावार्थकघञापि पाकक्रियेव प्रतिपादनीया " उक्तार्थानामप्रयोगः " इतिन्यायेनैकस्यैव पाकस्य द्विरभिधानं तु न संभवतीति धातुनैव पाकः प्रतिपाद्यते प्रत्ययस्य साधुस्वार्थकावमेव स्त्रीक्रियते, न च विनिगमनाविरहात् प्रत्ययेनैव पाकः प्रतिपाद्यते न धातुनेति वाच्यम् , अनेकभावार्थकप्रत्ययानां प्रकृतिभूतधात्वर्थक्रिमायां शक्तिकल्पने गौरवात. धातोस्त्वगत्या क्रियायां शक्तिः स्वीकार्यवेति भावार्थप्रत्ययस्थलेपि
"Aho Shrutgyanam"