________________
(३०)
सादर्श:
[ प्रथमाकारकेन चाऽभेदे यत्र विशेषणविभक्तेः शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र सर्वमते एवाऽभेदप्रकारकबोधस्य 'नीलो घटः' इत्यादिवाक्यादुत्पत्त्या तादृशसमभिव्याहारज्ञानस्य द्विविधबोधे हेतुताद्वयं कल्पनीयमभेदस्य संसर्गतावादिनेति गौरवम् । एवं तादृशसमभिव्याहारज्ञानघटितसामथ्या भिन्नयोग्यताज्ञानघटि. तत्वेन दैविध्यमिति भिन्नविषयकप्रत्यक्षादिकं प्रति तादृशशाब्दसामग्रीप्रतिबन्धकताया अप्याधिक्यमिति वाच्यम्, संसर्गतावादिनोक्तस्थलेपि तत्संसर्गकबोधस्यैवोपगमादिति दिक् ।
ननु यदि कस्यचित् पुरुषस्याभेदे एकत्वादिसंख्यात्राचिकाया विशेषणविभक्तेः शक्तिश्रमो जातः किं वा विशेषणविभक्तेरेकत्वे शक्तिरस्तीत्यभेदे स्वारसिकलक्षणाग्रहः स्यात्तदा तु 'नीलों घट: । इतिवाक्येनाभेदप्रकारक एव बोधो भवतीति सर्वसंमतम्, तथा च- तादृशसमभिव्याहारज्ञानस्य= नीलो घटः ' इत्यादिप्रथमान्तनीलपदप्रथमान्तघटपदसमभिव्याहारज्ञानस्य द्विवि. धबोधे अभेदप्रकारकबोधे अमेदसंसर्गकबोधे च हेतुताद्वयं संसर्गतावादिना कल्पनीयमिति गौरवं तथा हि — नीलो घटः । इति वाक्यस्य स्वसिद्धान्तेनाभेदसंसर्गकबोधे एका हेतुता. विशेषणविभक्तेरभेदे शक्तिश्रमे लक्षगाग्रहै चोक्तरीत्या वृत्त्योपस्थिताभेदस्य प्रकारत्वसंभवेनाभेदप्रकारकबोधे द्वितीया हेतुतेत्यर्थः। प्रकारतामते तु शक्तिभ्रमे लक्षणाग्रहे तथा सिद्धान्ते चाऽभेदप्रकारक एव बोधो भवतीति दोक्तवाक्यस्य हेतुताद्वयं कल्पनीयमिति न गौरवम् । एवम् - यत्र प्रत्यक्षसामग्री शादसा'मग्री च समानविषया भवति तत्र प्रत्यक्षसामाग्याः प्राबल्येन शाब्दबोधं प्रति प्रत्यक्षसामग्री प्रतिब! विका भवति यत्र भिन्नविषया भवति तत्र तु शाब्दसामग्र्या एव प्राबल्यं भवतीति तादृशसमभिव्याहा. रज्ञानघटितसामग्र्याः= 'नीलो घटः' इत्यादिप्रथमान्तनीलपदप्रथमान्तघटपदसमभिव्याहारज्ञानघटितसामग्या भिन्नयोग्यताज्ञानघटितत्वेन सिद्धान्ते संसर्गविषयकयोग्यताज्ञानघटितत्वेन तथाऽभेदे शक्तिभ्रमे लक्षणाग्रहे वाऽभेदप्रकारताविषयकयोग्यताज्ञानघटितत्वेन द्वैविध्यं जात मिति भिन्नविषयकप्रत्यक्ष प्रति तादृशद्विविधशाब्दबोधसामग्र्याः प्रतिबन्धकत्वं कल्पनीयमित्यपि संसर्गतामते गौरवम् । प्रकारतामते तु सर्वत्राभेदप्रकारक एव बोधो भवतीति एकविधयोग्यताज्ञानवटितत्वेनोक्तशाब्दसामया द्वैविध्यमेव नास्ति येन द्विविधं प्रतिबन्धकत्वं स्यादिति न गौरवमित्याशङ्कय परिहरति- न चेति । परिहारहेतुमाह- संसर्गतेति, उक्तस्थले शक्तिभ्रमस्थले लक्षगाग्रहस्थलेपि चोपस्थितस्याभेदस्य संसर्गतयैव भानं भवतीति स्वीकाराद् हेतुताद्वयस्य प्रतिबन्धकताद्वयस्य च न कल्पनापत्तिरिति न गौरवम् । अयं भावः यथाऽननुभूतस्य स्मरण न भवतीति नियमसत्त्वेप्यनुभूतस्य स्मरणं भवत्येवेति नियमो नास्ति तथा केनचित्पदेन वृत्त्याऽनु. पस्थितस्य प्रकारत्वं न भवतीति नियमसत्त्वेप्युपस्थितस्य प्रकारत्वं भवत्येवेति नियमो नास्ति तया च शक्तिभ्रमे लक्षणाग्रहे च विशेषणविभक्या वृत्त्योपस्थितस्याप्य भेदस्य संसर्गत्वमेव स्वीक्रियते न प्रकारत्वं येन गौरवं स्यात् ।
"Aho Shrutgyanam"