SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विशेषण विभक्त्यर्थवि० ] व्युत्पत्तिवादः । ( २९ ) इदं तु बोध्यम् - विशेषणविभक्तेरभेदार्थकत्वे 'घटो न नीलः' इत्यादौ नत्रा नीलाद्यभेदाभाव एव मत्याययिष्यते न तु नीलादिभेदः, यादृशसमभिव्याहारस्थले येन संबन्धेन यत्र धर्मिणि येन रूपेण यद्वत्त्वं नञऽसत्त्वे प्रतीयते तादृशस्थले नत्रा तद्धर्मिणि तादृशसंबन्धावच्छिन्नतादृशधर्मावच्छिन्नप्रतियोगिताकतदभावबोधस्य व्युत्पत्तिसिद्धत्वात् । “प्रतियोग्यभावान्वयौ च" इत्यादेरप्ययमेवार्थः । एवं च नञो भेदबोधकत्वं न कुत्रापि संभवति - 'अनीलं घटमानय' इत्यादी घटपदसामानाधिकरण्यानुरोधेनाऽनीलपदस्य नीलभिन्नपरतया नञो भेदवत्येव लक्षणाया उपगन्तव्यत्वात् । इदं त्वावधेयम् - अभेदस्य प्रकारतामतेपि 'घटो न नीलः इत्यादिवाक्यस्य नीलाभेदाभावबोधकत्वेपि तृतीयाऽभावस्य प्रतियोगिस्वरूपतया नजो 'भेदबोधकत्वं नानुपपन्नं परं तु भेदत्वप्रकारेण भेदबोधो भवति न वेत्यन्यदेतत् । इदं तु तत्रम्- ' नीलो वटः ' इत्याद्यसमासस्थलेऽभेदस्य संसर्ग तोपगमेपि trafarera तत्र विशेषण विभक्तेर्वृत्तिकल्पनमनुचितम् । नञऽसत्त्वे यस्य प्रतीतिर्भवति नञ्सत्त्वे तदभावस्य प्रतीतिर्भवतीति नियमोस्ति प्रकृते च यदि 'नीलो घट:' इत्यत्र विशेषणविभक्तेरमेद एवार्थस्तदा 'घटो न नील:' इत्यत्र नत्रा नीला मेदाभावस्यैव प्रतीतिर्भविष्यति न तु नीलभेदस्येत्याह- इदमित्यादिना । व्याख्यात्तप्रायोयं ग्रन्थः । उपसंहरति- एवं चेति । ननु 'अनील घटम्' इत्यत्र तु नञो भेदबोधकत्वं भाव नीत्याशङ्देवाह- अनीलमिति, अत्रापि नत्रो भेदवति लक्षणैव न तु शक्त्या भेदबोधकत्वमित्यर्थः । इदं त्वत्रेति- यद्यप्यऽभेदस्य प्रकारतामते उक्तरीत्या 'घटो न नीलः" इत्यत्र नजो नीलामे - दाभावबोधकत्वमेत्र तथापि तृतीयाभावस्य प्रतियोगिस्वरूपत्वाद् यथा घटाभावाभावो घट पैमेव तथात्राप्यमेदो नाम भेदाभाव इति नीलाभेदाभाव इत्यनेन नीलभेदाभावाभाव इति प्राप्त तत्र नीलभेदाभावाभावो हि नीलभेदस्वरूपमेवेति नञो नीलाभेदाभावबोधकवे प्राप्ते नीलभेदaland प्राप्तमेवेति भेदबोधकत्वं नानुपन्नं किं त्वेवं नञो भेदत्वप्रकारेण भेदत्वेन रूपेण भेदबोधत्वं न संभवति विभेदाभावत्वेनैव रूपेण भेदबोधकत्वं संभवति यथा कचिद् घटादिपदानां द्रव्यत्वादिना घटादिबोधकत्वं भवति तथेत्यर्थः । इदं तु तत्त्वमिति - 'नीलघटम्' इत्यादिसमासस्थले त्वऽभेदोपस्थापिकाया नीलादिविशेषपदोत्तरं विभक्तेरभावेन तदनुसंधानस्याप्यनङ्गीकाराच्च विभक्त्याऽभेदस्योपस्थित्यसंभवेन प्रकारत्वं नैव संभवति केनचित्पदेन वृत्त्योपस्थितस्यैव प्रकारत्वनियमादित्युक्तसमस्तस्थले त्वभेदस्य संसर्गतयैव भानं भवतीति निर्विवादम् । 'नीलो घटः' इत्यत्र त्वभेदोपस्थापकविशेषणविभक्तेः सत्त्वेन तया वृत्त्याऽभेदस्योपस्थितिः संभवतीत्यभेदस्यात्र यद्यपि प्रकारत्वमपि संभवति तथापि संसर्गतामतेपि = अभेदस्य संसर्गत्वस्वकारेपि किमपि गौरवं नास्तीति तत्र = अभेदे विशेषणविभक्तेः वृत्तिकल्पनम् = शक्तिकल्पनमनुचितमेव । प्रत्युत प्रकारतामते एवाभेदे विशेषणविभक्तेः शक्तिकल्पन रूपं गौरवमस्तीत्यर्थः । "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy