________________
( २८ )
सादर्श:
[ प्रथमा कारके -
जन्यबोधे “प्रतियोग्य भावान्वयौ तुल्ययोगक्षेमौ” इतिन्यायेन तादृशाननुगतसंबन्धावच्छिन्नप्रतियोगिताकाऽननुगताऽभावा एव भासेरन् न तु नीलवृत्तिरेकीभावः, तथा सति यत् किंचित्तादृशाभावतात्पर्येण प्रयुक्तस्य नीलेपि 'न नीलः' इत्यादिवाक्यस्य प्रामाण्यं स्यात् ।
तद्व्यक्तित्वस्यैकमात्रनीलव्यक्तिस्थत्वेन प्रतियोगितायास्तदवच्छिन्नत्वे हि सकलनीलव्यक्तीनामेकोSerat घटेन प्रत्येतुं शक्यते किं तु प्रतियोगितावच्छेदकस्य तद्द्व्यक्तित्वस्यानेकत्वेनाने एव नीलाभावा घटेऽत्र प्राप्तास्ते पृथक् पृथगेव भासेरन् । अत्र प्रमाणमाह- प्रतियोगीति, प्रतियोग्यन्त्रयस्तदभावान्त्रयश्च तुल्ययोगक्षेमौ-संबन्धादिषु तुल्यसापेक्षौ भवतः, अन्ययः शाब्दबोधः, अर्थात् नञःसत्त्वे येन संबन्धेन यत्र यस्य येन रूपेण सत्त्वं प्रतीयते नञ्सत्त्वेपि तेनैव संबन्धेन तत्रैव तस्यैव तेनैव रूपेणासत्त्वं प्रतीयते तथा च नञसमभिव्याहारस्थले यत्संबन्धावच्छिन्नयद्धर्मावच्छिन्नप्रकारता यद्विशेष्यकः शाब्दबोधो भवति न समभिव्याहारस्थलेपि तत्संबन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकतदभावविशेष्यकः शाब्दबोधो भवति यथा- 'भूतले घटोस्ति' इत्यत्र संयोगसंबन्धावच्छिन्नघटत्वावच्छिन्न विशेष्यताकः शाब्दबोधो भवतीति घटो नास्तीत्यत्रापि संयोगसंबन्धावच्छिन्नत्वावच्छिन्न प्रतियोगिताकघटाभावविशेष्यकः शाब्दबोधो भवति तथा व 'घटो नील:' इत्यत्र घटे नीलसत्त्वं अननुगततद्द्व्यक्तित्वाव, च्छन्नप्रतियोगिताकमेदाभावरूपामेदसंबन्धेन प्रतीयते इति 'घटो न नील:' इत्यत्रापि घटे नीलासत्त्वं तेनैवाननुगततद्व्यक्तित्वाव च्छिन्नप्रतियोगिताकमेदाभावरूपाऽ मेद संबन्धेन प्रतीयेतेति प्राप्तं तत्र संबन्धभूतस्याननुगतस्य तद्-वस्य ततन्नीलव्यक्ती नामानन्त्येनानन्त्यात् तदवच्छिन्नप्रतियोगिताकानां नीलाभावानाम सग्राहकरूपाभावेनानन्त्यादऽनन्ता एव नीलाभावा भासेरन् न तु नीलवृत्तिः =नीलघटवृत्तिरेको नीलाभाव: प्रत्येतुं शक्यते इत्यर्थः । उपसंहरति-- तथा सतीति, यदि 'घटो न नील:' इत्यत्र तन्नीलव्यक्तित्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावरूपैक संबन्धा वच्छिन्न प्रतियोगिताक एक एव नीलाभावः प्रतीयेस तदा नीले घटे किंचिनीलरूपव्यक्तिस त्त्वेपि किंचिन्नीलरूपव्यक्तेरसत्त्वेन तदभावाभिप्रायेण नीलेपि घटे 'घटो न नीलः' इति प्रयोगः स्यात्तस्य च प्रामाण्यमपि स्यात् न चैव भवति तस्मात् 'घटो न नील:' इत्यत्रोक्तदिशा नीलाभावा अनन्ता एव भासन्ते इति वक्तव्यम्, अनन्ताभावानां च ज्ञानासंभव इति संसर्गतामतेप्येकमात्रवृत्तिधर्मत्वेन रूपेणानुगतस्यैव तद्व्यक्तित्वस्योक्ततादात्म्यरूपस्य संसर्गत्वं वक्तव्यमिति प्राप्तमित्यर्थः । एवं च प्रतियोगिताया एकमात्रवृत्तिधर्मत्वेन रूपेण तद्व्यक्तित्वेनावच्छिन्नत्वेन पटगततन्नीलव्यक्तेश्व वटादौ बाधादुक्तदिशा नीलपटादिपरनीलादिपदघटितस्य 'नीलो घटः इतिवाक्यस्यापि प्रामाण्यापत्तिर्नास्त्येव ।
T
"Aho Shrutgyanam"