________________
विशेषण विभक्तयर्थवि० ]
व्युत्पत्तिवादः ।
(२७)
विशिष्टं यत् तदन्यत्वमित्येकमात्रवृत्तिधर्म एव विशेषणविभक्तेरर्थः । वृत्तिश्च तत्र प्रकृत्यर्थस्य संसर्गमर्यादया भासते, तादृशधर्मस्तत्तद्व्यक्तित्वादिरूप एव । अपूर्वव्यक्तिनिष्ठतादृशधर्मस्य विशिष्य ज्ञातुमशक्यत्वेप्येकमात्रवृत्तिधर्मत्वादिना सामान्यप्रत्यासत्तितः सुग्रहत्वमेव ।
अभेदस्य संसर्गतामतेप्येतादृशाऽनुगताऽभेदस्यैव तथात्वमुचितम् । तद्व्यक्तित्वावच्छिन्नभेदाभावकूटस्य विशिष्य तथात्वे 'घटो न नील:' इत्यादिवाक्य
व्यक्तित्वे ) इत्यर्थः । स्वप्रतियोगिवृत्तित्वस्यैव संबन्धत्वे- स्वं नीलव्यक्तिभेदस्तत्प्रतियोगिनी नीलघटव्यक्तिस्तद्वृत्तित्वं तद्व्यक्तित्वे इत्यनेन संबन्धेन भेदविशिष्टमेव तत्तद्व्यक्तित्वमतो द्वितीयसंबन्धनित्रेशः, तथा च स्वं नीलव्यक्तिभेदस्तत्सामानाधिकरण्यं तत्तद्व्यक्तित्वे नास्ति नील
व्यक्तिभेदवति पटे तत्तद्व्यक्तित्वस्याभावात् । स्वसामानाधिकरण्यस्यैव संबन्धत्वे च स्वपदेन फ्रुटादिभेदस्तत्सामानाधिकरण्यं तत्तद्व्यक्तित्व इति भेदविशिष्टमेव भवतीति स्वप्रतियोगिवृत्तित्वनिवेशः, तथा च स्वपटादिभेदस्तत्प्रतियोगी पटादिस्तद्वृत्तित्वं तद्व्यक्तित्वे नास्तीत्यर्थः । " इति । एवं चैतदुभयसंबन्धेन तद्व्यक्तित्वं विना भेदविशिष्टं सर्वं घटत्वादिकं धर्मजातं भविष्यति तदन्यत्वं तद्द्व्यक्तित्व प्राप्तम् । प्रकृतिप्रत्ययौ सहार्थं ब्रूतः " इतिन्यायेन विभक्त्यर्थप्रयोक्तकमात्रवृत्तिधर्मस्य प्राधान्येन तत्र प्रकृत्यर्थस्य नीलस्थान्वयः केन संबन्धेन कर्तव्य इत्यत्राह - वृत्तिश्चेति । तत्र = विभक्त्यर्थे तादात्म्ये, प्रकृत्यर्थस्य = नीलस्य, वृत्तिः = अन्वयः संसर्गमर्यादया भासते । स्ववृत्तित्व संबन्धेन नीलस्य तादात्म्येऽन्वयः । तादात्म्यस्य च नीलविशिष्टस्य घटे आश्रय
८८
संबन्धेन विज्ञेयः स चापि संबन्धः संसर्गमर्यादया भासते नीलघटयोर्यस्तादाम्य संबन्धस्तस्य प्रकारत्व स्वीकारेण विभक्त्यर्थत्वाद् विशेषण विभक्त्यैवोपस्थिति स्वीकाराच। तादृशधर्भः= एकमात्रवृत्तिधर्मः । 'नीलो घटो भविष्यति' इत्यत्रामेदान्वयबोधानुपपत्तिपरिहारमाह- अपूर्वेति । |दृशधर्मस्य तदूव्यक्तित्वरूपधर्मस्य, विशिष्य = तद्द्व्यक्तित्वत्वेन रूपेण ज्ञातुमशक्यत्वं हि तस्य सावित्वेन वर्तमानत्वाभावात् । तद्व्यक्तित्वस्य तद्व्यक्तित्वत्वेन रूपेण ज्ञातुमशक्यत्वेप्येकमात्रवृ|त्तिधर्मत्वेन रूपेण सामान्यप्रत्यासत्त्या ज्ञातुं शक्यत्वात् = एकमात्रवृत्तित्वधर्मस्य वर्तमाननीलादि • व्यक्तिस्यस्य ज्ञानसंभयेन तद्रूपेण भाविव्यक्तिस्थस्यापि ज्ञानसंभवादित्यर्थः ।
अभेदस्येति - अभेदसंसर्गतावादेप्येतादृशानुगताऽभेदस्यैव एकमात्रवृत्तिधर्मत्वेन रूपेणानुगतस्य= सकलतद्द्व्यक्तित्वरूपधर्मेष्वनुगतस्यैव तादात्म्यलक्षणस्याभेदस्य तथात्वम् == संसर्गत्वमुचि सम् । अननुगतामेदस्य संसर्ग बाधकमाह- तत्तद्व्यक्तित्वेति, तचद्व्यक्तित्वावच्छिन्न प्रतियोगि ताकमेदाभावसमूहस्य विशिष्य तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकभेदाभावत्वेन रूपेण तथा वे सर्ग 'टो न नील:' इतिवाक्यजन्यबोधे तादृशः तत्तद्व्यक्तित्वादिरूपो योऽननुगत विच्छिन्न प्रतियोगिताका अननुगता एवं नीलाभावा भासेरन् अर्थात् संबन्धभूतः
"Aho Shrutgyanam"