________________
( २६ )
सादर्श:
[ प्रथमाकारके
सत्यम् - अभेदस्तादात्म्यम्, तच्च स्ववृत्त्य साधारणो धर्मः । असाधारण्यं च एकमात्रवृत्तित्वम्, तच स्वसामानाधिकरण्यस्वमतियोगिवृत्तित्वोभयसंबन्धेन भेदसंबन्धेन वैशिष्ट्यम्=अन्वयो भासते तस्माद् घटविशेषणीभूतस्य घटत्वस्याप्यभावे स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेनान्वयो भवत्येव भासते च सः, तस्मात्संबन्धकोटिप्रविष्टा प्रतियोगिता विशेषणतावच्छेदकीभूतवटत्वाद्यवच्छिन्ना भवत्येव । अभावज्ञाने चाभावस्यैव विशेष्यत्वेन तत्र प्रतियोगिनो घटादेर्विशेषणत्वाद् घटत्वादीनां विशेषणतावच्छेदकत्वं प्राप्तमिति ।
ननु ' वटो नास्ति इत्यभावज्ञाने घटत्वस्य केवलं वटविशेषणत्वमेत्र भविष्यति नाभावविशेषणत्वम् अर्थात् घटत्वस्य स्वावच्छिन्नप्रतियोगिताकत्व संबन्धेनाभावेऽन्वयं नाङ्गीकरिष्याम इति नोक्तदोपपत्तिरित्याशङ्कयाह- केवलमिति, ' घटो नास्ति ' इत्यादी प्रतियोगिविशेषिता भावज्ञाने त्वदुक्तां विशेष्ये विशेषणमितिरीतिं न कश्चित्स्वीकरोति किं तु घटत्वस्य स्वावच्छि नप्रतियोगिताकत्वसंबन्धेनाभावेऽन्ययो भवत्येव भासते चेत्येव सर्वो जनः स्वीकरोतीत्यर्थः ।
भावज्ञाने उपलक्षणत्वेन घटत्वमानं स्यात्तदोपलक्षणत्वाविशेषाद् द्रव्यत्वादीनामपि मानं स्यान्नचैत्रमस्ति तस्माद् द्रव्यलाद्यपेक्षया घटले विशेषणत्वमेव विशेष इतिप्राप्तम् । यदि च प्रतिगिता विशेषणतावच्छेदकेन घटलेनावच्छिन्ना न स्यात्तदा ' घटो नारित ' इत्यत्र घटत्वावच्छिन्नप्रतियोगिताका भावस्याऽसिद्धया किंचिद्यटव्यक्तिसत्त्वदशायामनि किंचिद्घटव्यक्त्यभावतात्पर्येण 'वटो नास्ति ' इतिप्रयोगस्य प्रामाण्यं स्यात् न च किंचिद्घटव्यक्तिसत्त्वे ' घटो नास्ति ' इतिप्रयोगो भवति, तस्मात् प्रतियोगिता विशेषणतावच्छेदकघटत्वादिनावच्छिन्ना भवति तथा सति च किंचिवट वटत्वावच्छिन्नप्रतियोगिताकाभावस्य बाधात् 'जाति ? ति प्रयोगो न भवति । प्रकृते च ' नीलो घट: ' इत्यत्र विभक्त्यर्थाभात्रसंबन्धभूतायाः अतितास विशेषणतावच्छेदकनोलवेनावच्छिनत्वात् नीलत्वस्य च सर्वत्र नीलघटपटेष्वेकत्वनाभावाभावाद् नीलपटादिपर नीलादिपदघटितस्थापि ' नीलो घटः इति वाक्यस्य प्रामाण्यं स्यादितिदोषः ।
7
इत्येवं प्रकारतावादे प्राप्तं दोषं स्वीकुर्वन् प्रकारतावाद्याह-- सत्यमिति । विशेषणविभक्त्यर्थभूतामेदं निर्वक्ति - अभेद इति । तादात्म्यमेवाभेदस्तथा च 'नीलो घटः ' इत्यत्र घटे नीलतादात्म्यं भासते नीलतादात्म्यवान् घट इति नीलपदोत्तरविभक्तेस्तदेवार्थ: । तादात्म्यस्वरूपमाहस्ववृत्तीति । तत् = तादात्म्यम् । स्वं वटः । वटवृत्ति यन्नीलतादात्म्यं तद् घटस्यासाधारणो धर्मस्तस्य नीलतादात्म्यस्य तद्घटव्यक्तिमात्रवृत्तित्वात् । असाधारण्यस्वरूपमाह - असाधारण्य - मिति, एकव्यक्तिमात्रवृत्तिधर्मोऽसाधारणो धर्म इति फलितम् । एकमात्रवृत्तित्वस्वरूपमप्याहस्वसामानेति । तत् = एकमात्रवृत्तित्वम् । अत्र कृष्णभट्टो यथा - स्वं नीलवटव्यक्तिभेदस्तत्सामानाधिकरण्यं द्रव्याचे अथ च स्वं नीलघटव्यक्तिभेदस्तत्प्रतियोगिनी नीलवदव्यक्तिस्तद्वृत्तित्वमपि द्रव्यत्वे इत्युभयसंबन्धेन भेदविशिष्टं द्रव्यत्वमेव तदन्यत्वं तद्व्यक्तित्वे (तन्नीलघटव्यक्तिवृत्तितद्
" Aho Shrutgyanam"