________________
विशेषणविभक्त्यर्थवि ० ]
व्युत्पत्तिवादः ।
भेदलाभ इति न किंचिदनुपपन्नमिति वाच्यम्, विशेषणतावच्छेदकावच्छिन्नाया एव प्रतियोगिताया अभावे प्रतियोगिनः संबन्धतया भानात्, अन्यथा - विशिष्टवैशिष्ट्यबुद्धित्वानुपपत्तेः । “प्रतियोगिविशेषिताभावज्ञानं च विशिष्टवैशिष्टयबोधमर्यादां नातिशेते" इतिदर्शनात् केवलं विशेष्ये विशेषणमितिरीत्या न कश्चिदभ्युपैतीति चेत् ?,
( २५ )
त्त्वस्य भेदेन संबद्धत्वात् तत्तदूव्यक्तित्वावच्छिन्नाभेदस्य=तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकमेदामावरूपस्याभेदस्य लाभः=मानं संभवत्येवेति न 'नीलो घटो भविष्यति' इत्यत्रापूर्वतत्तन्नीलव्यक्तीनामभेदान्वयबोधानुपपत्तिः, न वा नीलपटादिपरनीलादिपदघटितस्य 'नीलो घटः' इतिवाक्यस्य प्रामाण्यापत्तिः- तद्व्यक्तित्वस्य निवेशात् पटगततन्नीलव्यक्तेर्घटादिष्वसत्त्वादित्यर्थस्तदाह - न किंचिदनुपपन्नमिति । इत्याशङ्क्याह-न चेति ।
परिहरति- विशेषणतेति, वया तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकत्वसंबन्धेन भेदे तत्तन्नीलव्यक्तीनामन्वय उपपादितः प्रतियोगिता चात्र संबन्धे प्रविष्टास्ति तस्याः प्रतियोगितायाश्चाभावे प्रतियोगिविशेषणतावच्छेदकावच्छिन्नाया एव संबन्धत्वेन भानं भवति विशेषणतावच्छेदक चात्र नीलत्वमेव न तु तन्नीलव्यक्तित्वं तथा च नीलत्वावच्छिन्न प्रतियोगितायाः संबन्धत्वे : नीलत्वस्य सर्वत्र घटपटादिष्वेकत्वेन पुनर्नीलपटादिपरनीलादिपदघटितस्य 'नीलो घटः " इतिवाक्यस्य प्रामाण्यापत्तिदोषः प्राप्तः । विपक्ष बाधकमाह- अन्यथेति, यदि प्रतियोगिताया विशेषणतावच्छेदकावच्छिन्नायाः संवन्वत्वं न स्यात्तदाऽभावज्ञानस्य विशिष्टवैशिष्ट्यबुद्धित्वं न स्याद् नाम - अभावज्ञानेन विशिष्ट - वैशिष्टयस्यावगाहनं न स्यात् ' वटो नास्ति ' इत्यत्र हि विशिष्टस्य = घटत्वविशिष्टस्यैव घटस्य स्वप्रतियोगिताकत्व संबन्धेनाभावे वैशिष्ट्यं भासते ( स्वं वट: ) अर्थात् - यथा घटस्य स्वपतियोगिताकत्वसंबन्धेनाभावेऽन्ययो भवति तथा घटत्वस्यापि स्वावच्छिन्नप्रतियोगिताकत्व संबन्धना Hasrat भवत्येव भासते च । स्वं घटत्वम् तन्न स्याद् यदि विशेषणतावच्छेदकावच्छिन प्रतियोगिता संबन्धो न स्थात्, अर्थात् यदि प्रतियोगितावच्छेदकं घटत्वं विशेषणं न स्यात् किं तूपलक्षणं स्यात्तदोपलक्षणीभूतघटत्वस्याभावे स्वावच्छिन्नप्रतियोगिताकत्व संबन्धेनाऽन्वयोपिन स्यात्तदा ' विशेषणतावच्छेदकावच्छिन्नाया एव प्रतियोगितायाः संबन्धत्वेनाभावे भानं भवति । इतिनियमोपि न स्यात्तदोक्तस्थलेपि नीलत्वस्य प्रतियोगितावच्छेदकत्वाभावेन प्रामाण्यापत्तिर्न स्यादपि न चैत्रमस्ति विशेषणतावच्छेदकावच्छिन्नाया एव प्रतियोगितायाः संबन्धत्वस्वीकारा - दित्यर्थः ।
भावे विशेषणतावच्छेदकावच्छिन्नाया एव प्रतियोगितायाः संबन्धत्वं भवतीत्यत्र त्रिनिगमनामाह प्रतियोगिविशेषितेति, प्रतियोगिता विशेषितं प्रतियोगिविशेषितमभावज्ञानं यथा 'घट सि' इत्यत्र घटप्रवेशात् एतादृशमभावज्ञानं विशिष्टवैशिष्टयस्य मर्यादाम् = तत्रगाहनं नातिटो नास्ति ' इत्यभावज्ञानेऽमाचे घटत्वविशिष्टस्यैव घटस्य स्वप्रतियोगिताकत्व
"Aho Shrutgyanam"