________________
सादर्श:
( २४.)
[ प्रथमाकारके -
न्वयबोधानुपपत्तेः । संसर्गज्ञानस्य विशिष्टबुद्धावहेतुत्वेनाऽनुपस्थितस्यापि संसर्गतया भानसंभवेन संसर्गतामतेऽनुपपत्त्यभावात् ।
न च विभक्त्यर्थेपि भेदे तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्व संबन्धेन ffererfear तत्तद्व्यक्तीनामन्वयः, तादृशभेदानामपि तत्तद्व्यक्तिभेदत्वावच्छि अप्रतियोगिताकत्व संबन्धेनाऽभावेऽन्वय उपेयते तावतैव तत्तद्व्यक्तित्वावच्छिन्ना
भविष्यतीत्यत्र तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको यो भेदस्तादृशभेदत्वावच्छिन्न प्रतियोगिताको भावो नीलपदोत्तरप्रथमार्थस्तदेकदेशे तद्व्यक्तित्वे प्रकृत्यर्थस्य नीलरूपवतोऽन्वयः ( कर्तव्यः ) तथा चाsपूर्वा भविष्यति या नीलरूपाश्रयव्यक्तिस्तन्निष्टं यद् तद्द्व्यक्तित्वं तस्य कथंचिदपि मानासंभवेन सामान्यलक्षणारूपभासकविरहाद्भानासंभवेन ( घटादौ तु घटत्वं सकलवृत्ति तस्य सामान्यलक्षणारूपत्वं भवति तद्व्यक्तित्वं तु तद्द्व्यक्तिमात्रपर्याप्तमिति न तस्य सामान्यलक्षणारूपत्वम् ) तदवच्छिन्न मेदाभावे = अपूर्वव्यक्तित्वावच्छिन्नप्रतियोगिताकमेदस्याभावे शक्तिअहासंभवेनाऽपूर्वव्यक्तीनामभेदान्वयानुपपत्तेः । अभावज्ञाने हि प्रतियोगिज्ञानं कारणमिति प्रतियोगि(अपूर्व व्यक्ति) ज्ञानाभावाच्छक्तिग्रहासंभवादपूर्वव्यक्तीनामभेदान्वयबोधानुपपत्तिरित्यर्थः "इति ।
tasमेदस्य संसर्गतास्वीकारेपि ' नीलो घटो भविष्यति' इत्यत्रोक्त दिशाऽपूर्वव्यक्तीनामदान्यबोधानुपपत्तिः किं न स्यादित्याशङ्कय समाधत्ते- संसर्गज्ञानस्येति, विशिष्टबुद्धौ संसर्गस्यैवकारणत्वमस्ति न तु संसर्गज्ञानस्प्रेत्यऽनुपस्थितस्याप्य मेदस्य संसर्गतया मानसंभवेनापूर्वव्य-: क्तीनामभेदान्त्रयबोधेऽनुपपत्त्यभावात् उपस्थित्यर्थमेव शक्तिज्ञानस्यापेक्षणात् न चामेदोपस्थित्यपेक्षा संसर्गतामते अत एव न संसर्गज्ञानस्य विशिष्टबुद्धिहेतुत्वमित्यर्थः ।
'नीलो
ननु यदि तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकमेदाभावो विशिष्टो विशेषणविभक्तेरर्थः स्यात्तदा एतादृशविशिष्टाभेदकुक्षिप्रविष्टतद्व्यक्तित्वस्याऽपूर्वस्य कथंचिदपि मानासंभवेन तत्र विभक्तिशक्तिहासंभवाच्छक्तिप्रहाभावे वाऽपूर्वतद्व्यक्तित्वस्योपस्थित्यसंभवेन ' नीलो घटो भविष्यति ' इत्यत्रा पूर्वतन्नीलव्यक्तीनामभेदान्ययबोधानुपपत्तिः स्यादपि न चोक्तविशिष्टाभावस्य विशेषणविभक्तयत्वं वदामः किं तु खण्डशो विभक्तिशक्तिवीकारेण विशेष गविभक्ते मेदोऽभावश्चार्थः, तत्र विमक्त्यर्थे भेदे तत्तन्नीलव्यक्तीनां नीलत्वादिना तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्व संबन्धेनान्वयस्तादृशभेदानामपि तत्तद्द्व्यक्तित्वावच्छिन्नप्रतियोगिता कत्वसंबन्धेनाऽमादेऽन्वय इति घटो भविष्यति' इत्यत्र नाऽपूर्वतत्तन्नीलव्यक्तीनाममेदान्वयबोधानुपपत्तिः -- तद्द्व्यक्तित्वस्यात्र बन्धकुक्षौ प्रवेशेन विभक्त्यर्थे प्रवेशाभावेन च तत्र विभक्तिशक्तिग्रहस्यापेक्षेव नास्ति, उक्तसंबन्वस्य तद्द्व्यक्तित्वविशिष्टस्याकाङ्क्षाबलेन मानसंभषेन संबन्धकुक्षिप्रविष्टतद्रव्यक्तित्वस्याप्याकाङ्क्षाबलेन मानसंभवादित्यर्थः । तावतैव तत्तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकत्वसंबन्धेन तत्तनीलव्यक्तीनां भेदे तादृशभेदानां चाभावेऽन्वयाङ्गीकारेणैव । संबन्धप्रणालिकया हि तद्व्यक्ति
"Aho Shrutgyanam"