________________
विशेषगविभक्त्यर्थविचारः ] व्युत्पत्तिवादः ।
(२३) नानां तत्तद्व्यक्तीनां स्वस्मिन् संवन्धतया भासते इति न काप्यनुपपत्तिः । संबन्धता च तस्य भेदप्रतियोगिताकाभावत्वेन तत्तद्व्यक्तिभेदप्रतियोगिताकाभावत्वेन वेत्यन्यदेतत् ।
न चैवं विशेषणविभक्तेरभेदार्थकत्वमतेपि तत्तद्व्याक्तित्वावच्छिन्नाऽभेद एव विभक्त्यर्थों वक्तव्य इतिवाच्यम्, तथासत्यपूर्वव्यक्तिनिष्ठतत्तव्यक्तित्वस्य कथंचिदपि भानासंभवेन तदवच्छिन्नभेदाभावे शक्तिग्रहासंभवेनाऽपूर्वव्यक्तीनामभेदादिव्यक्तीनां स्वस्मिन् तद्घटादिव्यक्तावेव संबन्धतया भासते नान्यपटादिव्यक्तिसंबन्धतयेति 'नीलो घटः' इत्यत्र नीलत्वावच्छिन्नभेदाभावसंसर्गकघटविशेष्यकबोध उपपद्यते, नीलपटादिपरनीलादिपदघटितात् 'नीलो घटः' इतिवाक्यात् नीलत्वावच्छिन्नभेदाभावसंसर्गकघटविशेष्यकबोधस्य चापत्तिर्नास्त्येव नीलपटपरनीलपदबोध्यतन्नील ( पटगतनील ) व्यक्तित्वावच्छिन्नभेदाभावस्य घटेऽभावान नीलपटादिपरनीलादिपदघटितस्य 'नीलो घटः' इतिवाक्यस्य प्रामाण्यापत्तिरित्यर्थः । यथा घट इत्यत्र घटत्वप्रकारेण बटस्य भासमानत्वं तथात्रापि नीलत्वप्रकारेण नीलघटादिव्यक्तेरेव भासमानत्वं ज्ञेयम् । ननूक्तभेदाभावस्य संबन्धता केन रूपेण ज्ञेयेत्यत्राह- संबन्धतेति । तस्यविशेषणविभक्त्यर्थभेदाभावस्य । यथा पर्वतो वन्हिमानित्यत्र पर्वते यो वन्हिप्रतियोगिकः संयोगस्तस्य संयोगत्वेन वा वह्निप्रतियोगिकसंयोगत्वेन वोभयथापि संबन्यत्वं संभवति विशिष्टबुद्धिनियामकत्वाक्षतेस्तथात्रापि भेदाभावस्य भेदप्रतियोगिताकाभावत्वेन वा तव्यक्तित्वावच्छिन्नभेदप्रतियोगिताकाभावत्वेन वोभयथापि संबन्धत्वं घटते 'नीलो घटः' इत्याकारकविशिष्टबुद्धिनियामकत्वाक्षतरित्याशयेनाह- इत्यन्यदेतदिति । । ननु यथा त्वयाऽभेदस्य संसर्गत्वमाश्रित्याऽभेदस्य तत्तव्यक्तित्वावच्छिन्नभेदाभावत्वेन ताहशनीलादितद्व्यक्त्यभेदस्य तत्तद्घटपटव्यक्तिध्वेव सत्त्वेनान्यत्र चासत्त्वेन नीलपटादिपरनीला. दिपदघटितस्य 'नीलो घटः । इतिवाक्यस्य प्रामाण्यप्रसङ्गो निवारितस्तथा मयाप्यभेदस्य प्रकारत्वमप्याश्रित्य प्रकारीभूतोष्यभेदस्तत्तद्व्यक्तित्वावच्छिन्नभेदाभाव एवेति तस्य पटादिगतस्य घटादिष्वभावेन उक्तस्य — नीलो घटः ' इतिवाक्यस्य प्रामाण्यप्रसङ्गो निवारितो भविष्यतीत्याशङ्कयाह-न चेति । अत्र चाभेदस्य विशेषणविभक्त्यर्थत्वकथनेन प्रकारत्वमेव विज्ञेयं प्रकारस्य किंचित्पदार्थत्वनियमात् शक्त्योपस्थिति नियमाच्च, संसर्गस्तु न कस्यचित्पदस्यार्थों भवति न वा शक्त्योपस्थितो भवतीति नियमः- आकाङ्क्षाबलेन तद्भानस्योक्तत्वादित्यवधेयम् । परिहारमाह- तया सतीति, तथासति अभेदस्य प्रकारतामतेऽभेदस्य तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदाभावरूपत्वाश्रयणे सति । प्रकारीभूतपदार्थस्यान्वयं प्रति तच्छक्तिज्ञानाधीनोपस्थितिः कारणमस्ति तथा च 'नीलो घटो भविष्यति' इत्यत्र माविनस्तद्रव्यक्तित्वस्योपस्थित्यसंभवेन तवच्छिन्नभेदाभावे च विभक्तिशक्तिमहासंभवाद् विभक्त्या प्रकारीभूताभेदस्योपस्थित्यसंभवादपूर्वव्यक्तीनां घटादीनामभेदान्वयबोधो न स्थादेवेति दोषः । तदुक्तं कृष्ठभेट्टन- " नीलो घटो
"Aho Shrutgyanam"