________________
(२२)
सादर्श:
[ प्रथमाकारके -
न चैवं संसर्गतामतेप्यनिस्तार:- 'नीलो घटः" इत्यादौ स्ववृत्तिनीलत्वादे: संसर्गतास्वीकारे उक्तस्थले प्रामाण्यापत्तेर्दुर्वारत्वादितिवाच्यम्, स्ववृत्तिनीलत्वादेः स्वस्मिन्नेव संबन्धतोपगमेन पटादिवृत्तिनीलत्वादेर्घटादौ पटादिसंबन्धताविरहेण तादृशातिप्रसङ्गाभावात् ।
वस्तुतस्तु - तत्तद्व्यक्तित्वावच्छिन्नभेदाभाव एव नीलत्वादिप्रकारेण भासमातार्थे कर्मपदार्थे द्वितीयार्थस्य कर्मत्वस्य प्राधान्येन तत्र स्त्रवृत्तित्वसंबन्धेन स्वाधेयत्व संबन्धेन वा प्रकृत्यर्थस्य कर्मपदार्थस्यान्त्रयो वक्तव्यः सोपि न संभवत्यनुभवविरोधात् । तस्मात् विशेषणत्रिभक्तेर्विशेषणतावच्छेदकीभूतनीलत्वादावपि शक्तिर्न संभवतीत्यर्थः । न च 'ग्रामं गच्छति इत्यत्र ग्रामवृत्तिसंयोगे आधेयतासंबन्धेन ग्रामान्वयस्य वक्ष्यमाणत्वाद्विरोध इतिवाच्यम्, तत्रापि संयोगे ग्रामस्य ग्रामत्वेनैवान्वयस्वीकारात् संयोगवत्त्वेनान्वयास्त्रीकाराच. अन्यथा संयोगवान् संयोगवान् इतिशाब्दबोधः स्यात् स च नेष्ट इत्यवधेयम् ।
ननु यथाsमेदस्य प्रकारतास्वीकारे लया दोषाः प्रदर्शितास्तथा स एव दोषा अभेदस्य संसर्गतास्वीकारेपि प्रसङ्क्षयन्ति - अभेदस्य भेदाभावस्वरूपत्वादेवेत्याशङ्कते न चैवमिति, अभेदस्य संसर्गतामतेप्युक्तस्थले नीलपटादिपरनीलादिपदघटिते 'नीलो घट:' इतिवाक्ये ग्रामाण्यं स्यादेव । भयं भावः अमेदस्य संसर्गत्वस्वीकारेपि नीलत्वेन परमेदाभावस्य नीलपदोत्तरविभक्त्यर्थस्य नीलघटे सत्त्वादेव पटतात्पर्येण प्रयुक्त नीलपदघटितात् 'नीलो घटः" इति वाक्यादपि नीलाभेदसंसर्गकघटविशेष्यको बोधः स्यादेवेत्यस्य वाक्यस्य प्रामाव्यापत्तिरनिष्टा दुर्बीरैष । स्ववृत्तीति- त्रिभक्त्यर्थभूतं नीलवृत्ति यन्नीलत्वं तस्य प्रकारत्वं वा संसर्गत्वं वा स्वीकार्यं तत्र संसर्गत्वस्वीकारे इत्यर्थः । परिहरति- स्ववृत्तीति, उक्तस्थळे नीलत्वस्यैकत्वादेव दोषः प्राप्तस्तत्र समवायस्यैकत्वेपि यथा वायौ स्पर्शसमवायसत्त्वेपि रूपसमवायो नास्तीति व्यवहारस्तत्कस्य हेतोः ? वायौ रूपाभावाद् रूपसमवायप्रतियोगिकत्ववाञ्चनुयोगिकत्वयोरवच्छेयावच्छेदकभावाभावादित्युच्यते तथा नीलत्वस्यैकत्वेपि पटवृत्तिनीलत्वस्य पढ़ें एवं संबन्धता न तु घटादाविति पटादिवृत्तिनीलत्वादेर्या पटादिसंबन्धता तस्या घटादौ विरहेण तादृशातिप्रसङ्गस्य नीलपटादिपरनीलादिपदघटितस्य 'नीलो घट:' इत्यादिवाक्यस्य प्रामाण्यप्रसङ्गस्याभावात् । स्त्रवृत्ति=नोलपटवृत्ति | स्वस्मिन्नेव पटे एव संबन्धता न घटे । विशेषणवि भक्तेरर्थोऽमेदः स एव संबन्धः स चाभेदो नीलवरूप एवेति नीलत्वस्य संबन्ध तोक्तेत्यवधेयम् 1. तदुक्तं कृष्णभट्टेन – “नीलपटपरनीलपदघटितात् 'नीलो घटः' इतिवाक्याद् घटे नीलत्वविशिष्टबुद्धयनुदयेन स्ववृत्ति ( पटवृत्ति ) नीलत्वादेघंटे पटसंबन्धता न स्वीक्रियते किंतु पटे एव स्वीक्रियते ‘नीलपट:' इतिविशिष्टबुद्धयुदयात्” इति ।
3
वास्तविक परिहारमाह- वस्तुतस्त्विति विशेषणविभक्तेर्भेदाभाव एवार्थः स च मेदाभावस्तत्तव्यक्तित्वावच्छिन्नभेदाभाव एव ज्ञेयस्तथा च 'नीलो घटः' इत्यत्र नीलवटव्यक्तिगततन्नीलव्यक्तिनाभावो नीलवादिप्रकारेण भासमानानां तत्तद्व्यक्तीनाम् = नीलरूपाश्रयी भूतघटा
"Aho Shrutgyanam"