________________
विशेषगविभक्त्यर्थविचारः] व्युत्पत्तिवादः ।
(२१) __एतेन-विशेषणतावच्छेदकीभूतनीलत्वप्रमेयत्वादिकमेव · विशेषणविभक्त्यर्थः, नीलत्वादेनीलत्वावच्छिन्नभेदाभावरूपतयाऽभेदार्थकत्वप्रवादोपपत्तिरित्यपि निरस्तम् । नीलत्यादौ नीलत्वादिमतः स्ववृत्तित्वसंबन्धेनान्वये आकाङ्क्षाविरहाच । यथा हि तद्विशिष्टेऽधिकरणे तदधिकरणतया तदन्वयोऽनुभवविरुद्धस्तथा तद्धर्मे आधेयतया बद्धर्मवदन्वयोपि, अत एव 'कर्म गच्छति' इतिवाक्यस्य निराकाश्ता ।
केनापि- न भेदाभावो विशेषणविभक्तरर्थो येनोक्तदोषाणां प्रसक्तिः स्यात् किं तु विशेषणतावच्छेदकीभूतं यद् नीलत्वप्रमेयत्वादिकं तदेव विशेषणविभक्तेरर्थस्तस्य चाश्रयतासंबन्धेन विशेष्ये घटादावन्ययो भवतीति 'नीलो घटः' इत्यत्र नीलत्वाश्रयो घटः 'प्रमेयो घटः' इत्यत्र प्रमेयत्वाश्रयः (प्र-- मेयत्ववान् बट इतियोधे न काप्यनुपपत्तिः, जले नीलत्वाऽभावाच 'नीलं जलम्' इति प्रयोगापत्तिरपि नास्ति, विशेषगविभक्तरभेदार्थकत्वं यदुच्यते तदपि नीलत्वादेरतद्व्यावृत्तिरीत्या नीलत्वावच्छिन्नभेदाभावरूपत्वेनैवेत्यऽभेदार्थकत्वप्रवादस्याप्यनुपपत्तिर्नास्तीति यदुक्तं तत् पराचष्टे-एतेनेति, एतेन नाम नीलपटादिपरनीलादिपदघटितस्य 'नीलो घटः' इत्यादिवाक्यस्यापि प्रामाण्यप्रसङ्गेन । अयं भावः- विशेषणविभक्तेर्यदि विशेषणतावच्छेदकीभूतनीलत्यादिकमेवार्थस्तदा नीलत्वं स्वेकमेव सर्वत्र घटपटादिष्वस्तीति पटवृत्तिनीलत्वस्य घटेपि सत्त्वात् पूर्ववद् नीलपटादिपरनीलपदछटितात् 'नीलो घटः' इत्यादिवाक्यादपि नीलाभेदप्रकारकघटविशेष्यको बोधः स्यादेव न च भवतीति विशेषणविभक्तर्विशेषणतावच्छेदकीभूतनीलत्वाद्यर्यकत्वमपि नोपपद्यते । विशेषणविभक्तेविशेषणतावच्छेदकीभूतनीलत्वायर्थकत्वे दोषान्तरमाह- नीलत्वादाविति, "प्रकृतिप्रत्ययार्थी सहाथ ब्रूतस्तयोः प्रत्ययार्थस्य प्राधान्यम्" इतिन्यायेन 'नीलो घटः' इत्यत्रत्ये 'नील;' इतिपदार्थेपि विभक्त्यर्थस्य नीलत्वस्यैव प्राधान्येन तत्र प्रकृत्यर्थस्य नीलत्ववतो नीलस्यान्वयः स्व( नील वृत्तित्वसंबन्धेन कर्तव्यः स च न संभवत्याकाङ्क्षाविरहात् । स्त्रम्-नीलत्यवान् नीलस्तत्र वृत्तित्वं नीलत्वेस्त्येव । अत्र कृष्णभट्टो यथा- "आकाङ्क्षाविरहमेवोपपादयति- यथा ही. त्यादिना । तद्विशिष्टे भूतले अधिकरणतया तदन्वयः घटान्वयो विरुद्धो घटवान् घटवान् इतिबोधाभावात्, तया तद्धर्मे घटे आधेयतया तद्धर्मवतो घटवतोऽन्वयोपि न-- घटवति वट इतिः बोधाभावादित्यर्थः । तथा तत्प्रत्ययार्थनीलत्वे आधेयतासंबन्धेन प्रकृत्यर्थस्य नीलत्वादिमतोप्यन्वयो न संभवत्याकाङ्क्षाविरहादिति भावः । अत एव तद्धर्मे तद्धर्मवत आधेयतयान्वयविरहादेव, कर्मत्ये द्वितीयार्थे कर्मत्ववतः प्रकृत्यर्थस्य कर्मण आधेयतयाऽन्वये निराकाङ्क्षतेत्यर्थः” इति । यथा घटत्ववति स्वाधिकरणसंबन्धेन घटत्वान्वयो न भवत्यनुभवविरोधाद् एकघटस्य घटत्वद्वयवत्तप्रसङ्गाच्च तथा घटत्वेपि स्वाधेयत्वसंबन्धेन घटस्ववदन्वयो न भवत्यनुभवविरोधात् तथैव प्रकृतेपि विभक्त्यर्थे नीलत्वे नीलत्वयतो नीलस्यान्वयोऽनुभवविरुद्ध एवेत्यर्थः । तद्धर्मवदन्क्योपीत्यत्र “अनुभवविरुद्धः” इत्यनुवर्तनीयम् । कर्मेति- 'कर्म गच्छति' इत्यत्रापि द्वितीया
"Aho Shrutgyanam