________________
सादर्श:
[ प्रथमाकारके -
विरुद्धविभक्तिराहित्यस्याऽनपेक्षणादिति वाच्यम्, द्वितीयादिनाऽभेदबोधने द्वितीयाद्यन्तविशेष्यवाचकपदसमभिव्याहारस्य प्रयोजकत्वमित्युपगमात् । अथ 'प्रमेयो घटः' इत्यादौ प्रमेयत्वावच्छिन्नभेदाऽप्रसिद्ध्या लघुधर्मसमनियतगुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वेन 'कम्बुग्रीवादिमान् घटः' इत्यादावपि कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगिताकभेदाऽप्रसिद्ध्या विशेषणविभक्तेरभेदार्थकत्वाऽसंभवः । एवं नीलपटादिपरनीलादिपदघटितस्य 'नीलो घट:' इत्यादिवाक्यस्यापि प्रामाण्यापत्तिः- नीलत्वादिनां पटादेर्भेदाभावस्य नीलघटादौ सत्त्वात् ।
( २० )
धान्याभिन्नवनवानित्येवमभेदान्वयबोधो
विरुद्धविभक्तिराहित्याभावेपि भवत्येवेत्यऽभेदान्वयबोधं प्रति किं वा अभेदस्य संसर्गतया बोधे विरुद्रविभक्तिराहित्यस्य कारणत्वेप्यऽभेदस्य प्रकारतया बोधं प्रति तु विरुद्धविभक्तिराहित्यस्य कारणत्वं नास्त्येव येन ' नीलं घटः ' इत्यत्राऽभेदान्वयबांधो न स्यादित्याशङ्कयाह - न चेति । परिहरति- द्वितीयादिनेति, 'धान्येन धनवान् ' इत्याद्युपपदविभक्तिस्थले तु विरुद्धविभक्तिराहित्याभावेप्यऽभेदान्वयबोध स्वीकारेप्यऽन्यत्र त्वभेदान्वयबोधं प्रति विरुद्धविभक्तिराहित्यस्य कारणत्वमस्त्येवेति न ' नीलं घटः' इत्यत्राभेदान्वयबोधप्रसङ्गो विरुद्धविभक्तिराहित्यस्याभावादित्यर्थः ।
दोषान्तरमाह- अथेति, यदि भेदाभाव एव विशेषण विभक्तेरर्थस्तदा सर्वस्यैव पदार्थजातस्य प्रमेयत्वेन प्रमेयत्वावच्छिन्नभेदस्यैवाऽप्रसिद्धया ' प्रमेयो घट: ' इत्यत्राऽभेदान्वयबोधो न स्यादेवेत्येको दोषः, तथा घटे घटत्वमप्यस्ति कम्बुग्रीवादिमत्त्वमप्यस्तीति तत्र लघुधर्मस्य घटत्वस्याभावीयप्रतियोगितावच्छेदकत्वसंभवे घटत्वसम नियतस्य = घटत्वसमानाधिकरणस्य गुरुधर्मस्य कम्बुग्रीवादिमत्त्वस्याभावीय प्रतियोगितावच्छेदकत्वं न भवतीति कम्बुग्रीवादिमान् घटः ' इत्यवाप्यभेदान्वयबोधो न स्यादेव यतो विशेषणविभक्तेमैदाभाव एवार्थः अत्रापि कम्बुग्रीवादिमत्त्वच्छिन्नप्रतियोगिताकभेदाभाव एव विशेषणविभक्तेरर्थो वक्तव्यस्तन्न संभवति - अत्र भेदप्रतियोगितावच्छेदकत्वं कम्बुग्रीवादिमत्त्वस्य प्राप्तं तच्च न युक्तं घटत्वांपेक्षया कम्बुग्रीवादिमत्त्वस्य गुरुधर्मत्वादिति द्वितीयो दोष इति विशेषणविभक्तेरभेदार्थकत्वं नैव संभवतीत्यर्थः । दोषान्तरमाह-एवमिति, अयं भावः- यत्र घटे नीलत्वप्रतिपादनाय ' नीलो घटः इत्युच्यते तत्र तु नीलाभेदप्रकारको बोध इष्ट एवं यत्र चं नील: ' इति पटतात्पर्येणोच्यते ' वटः' इत्यत्युच्यते तत्र नीलाभेदप्रकारकघटविशेष्यकबोधो नेष्टः, विशेषणविभक्तेरभेदार्थकत्वे च नोलयोर्घटपटयोर्घत्वपटत्वरूपाभ्यां भेदेपि नीलत्वेन रूपेण तु भेदो नास्त्येवेति नीलत्वेन पटभेदाभावस्य नीलपदोत्तरविभक्त्यर्थस्य घटे सत्त्वादेव पटतात्पर्येण प्रयुक्तनीलपदघटितात् 'नीलो घटः ' इतिवाक्यादपि नीलाभेदप्रकारकघटविशेष्यको बोधः स्यादेवेति नीलपटादिपरनीलादिपदघटितस्य ' नीलो चट ' इत्यादिवाक्यस्यापि प्रामाण्यापत्तिः ।
"
"Aho Shrutgyanam"
4