________________
विशेषगत्रिभक्त्यर्थ विचारः] व्युत्पत्तिवादः।
( १९) मैवम्-भेदोऽभावश्च विशेषणविभक्तरों विशिष्टलाभस्त्वाकाङ्क्षादिवशात् । एतेन भेदे नीलादिपदार्थान्वये एकदेशान्वयप्रसङ्ग इति निरस्तम् ।
न च विशेषणविभक्तरभेदार्थकत्वे 'नीलं घटः' इत्यादावप्यऽभेदान्वयबोधा. पत्ति:--'धान्येन धनवान्' इत्यादौ तृतीययाऽभेदबोधनात्. अभेदप्रकारकबोधे पदार्थतावच्छेदकीभूतभेदस्य नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वरूपः संबन्धः शक्त्यैव भासते इति वक्तव्यं न चैवमपि संभवति यतो विभक्तिशक्तिर्हि भेद प्रतियोगिकामावरूपाभेदे एवास्ति म तु नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन भेदविशिष्टे भेदपतियोगिकाभावे, अतो न शक्या भेदरूपपदार्थतावच्छेदकस्याभावे= विभक्त्यर्थाभावपदार्थे ताशसंबन्धेन नीलभेदत्वावच्छिनप्रतियोगिताकत्वरूपसंबन्धेन भानं संभवति, अतो नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन भेदविशिष्टे एवाभावे अर्थात् नीलभेदत्वावच्छिनप्रतियोगिताकाभावे एव प्रथमाविभक्तेः शक्तिर्वक्तव्या तथा सत्युक्तरीत्या स एव नीलस्यापि विभक्त्यर्थत्वेन विभवत्युपस्थितनीलविशिष्ट घटे नीलपदोपस्थितनीलपदार्थस्यानन्ययप्रसङ्ग इत्यवधेयम् ।
परिहरति- मैवमित्यादिना । उक्ता दोषाः स्युर्यदि विशेषणविभक्तेविशिष्टे भेदत्वावच्छिन्नाभावे वा भेदप्रतियोगिकामावे वा एका शक्तिः स्त्री क्रियेत नैवमस्ति किं तु भेदे अभाचे च खण्डशः शक्तिः स्वीक्रियते, तत्र भेदोपि प्रसिद्ध एवाभावोपि प्रसिद्ध एव पदार्थ इति नोक्ताऽप्रसिद्धयादिदोषप्रसक्तिः । भेदस्याभावस्य च विशेषणविभक्त्या मुख्यत्वेन पृथक् पृथगुपस्थितिर्भवति विशिष्टस्य भेदाभावस्य च नीलादिपदसममिव्याहाररूपाकाङ्क्षाबलात् प्रतीतिर्भवतीति न कोपि दोषः । “नीलं जलम् ' इत्यत्र च जले नीलभेदस्यैव सत्त्वेन नीलभेदाभावस्याऽसत्त्वान्न प्रामाण्यापत्तिः । ' नीलो घटः ' इत्यत्र नीलपदार्थस्य स्वनिष्ठप्रतियोगितानिरूपकत्व. संबन्धेन नीलपदोत्तरविभक्त्यर्थभेदेऽन्वयो भवति तस्य भेदस्य च स्वनिष्टप्रतियोगितानिरूपकत्वसंबन्धेन नीलपदो तरविभत्त्यर्थाभावेऽन्वयो भवति तस्याभावस्य च विशेष्यतासंबन्धेन घटेऽन्वयों भवलीति सिद्धान्तः । अत्र विशेषणविभक्तर्यदि विशिष्ट भेदाभावे एकैव शक्तिः स्यात्तदा भेदस्य पदार्थकदेशत्वेन तत्रोक्तरीत्या नीलपदार्थस्यान्वयो न स्यात् “पदार्थः पदार्थेनान्वेति न तु पदार्थकदेशेन " इति नियमादिति यः केनापि दोषः प्रदर्शित इदानीं सोपि नास्ति- विशेषपविभक्ते दे अभावे च पृथगेव खण्डशः शक्तिस्वीकारेण भेदस्यापि विभक्त्या मुख्यत्वेनोपस्थित्या पदार्थत्वेन तत्र नीलपदार्थस्यान्वये विरोधाभावादित्याह- एतेनेति । एतेन=भेदे अभाचे च खण्डशः शक्तिस्वीकारेण ।
ननु खण्डशः शक्तिस्वीकारेपि विशेषणविभक्तेरभेदार्थकत्वमस्त्येव तथा च यथा 'नीलो घटः ' इत्यत्राऽभेदान्वयबोधो भवति तथा ' नीलं घटः ' इत्यत्रापि :नीलपदस्य विशेषणवाचकत्येन तदुत्तरविभक्तेरप्यभेदार्थकत्व प्राप्तावऽभेदान्वयवोधः स्यादेव नीलस्य भेदे भेदस्याऽभावे अभावस्य च घटे उक्तरीत्याऽन्वयसंभवात् । ययुच्येताऽभेदान्वयवोधे विरुद्धविभक्तिराहित्यं कारण तदत्र नास्तीति नाऽभेदान्वयबोधापत्तिरिति, तदपि न युक्तम्- ' धान्येन धनवान् ' इत्यत्र
"Aho Shrutgyanam"