________________
( १८ )
सादर्श:
[ प्रथमाकार के
द्वित्वादिना नीलभेदाद्यभावस्य सत्त्वात् । नीलभेदत्वावच्छिन्नाभावस्य विभक्तयवे नीलादिपदार्थानन्वयप्रसङ्गः ।
न च--भेदप्रतियोगि काभाव एव विभक्त्यर्थः- नीलपदसमभिव्याहारान्नीलभेदत्वावच्छिन्नाभावः प्रतीयते इति वाच्यम्, पदार्थद्रय संसर्गभानस्यैवाकाङ्क्षानिये - म्यत्वान्नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वान्तर्भावेण वृत्ति विना भेदरूपपदार्थतावच्छेदकस्याभावे तादृशसंबन्धेन भानाऽसंभवात् ।
चस्याऽसत्त्वेपि द्वित्वादिना नाम द्वित्वावच्छिन्नप्रतियोगिताकस्य अर्थाद् घटत्वनीलभेदैतदुभयप्रतियोगिका भावस्य सत्त्वात् ' नीलं जलम् ' इत्यादिवाक्यस्यापि प्रामाण्यमापद्येतैव न चैतदिष्टमित्यर्थः । ननु विश्वावच्छिन्नप्रतियोगिताकाभावस्य ग्रहणेनोक्तदोषः प्रदर्शितो न च हित्वावच्छि प्रतियोगिताकाभावं ग्रहीष्यामस्तथा च जले नीलभेदरूपप्रतियोगिन एव सत्त्वेन तदभावहासत्त्वान्न ' नीलं जलम् ' इत्यादिवाक्यस्य प्रामाण्यापत्तिरित्याशङ्कय दोषान्तरमाह- नीलमे दत्वेति, नीलो घट: ' इत्यत्र नीलभेदत्वावच्छिन्नस्यामावो यदि विभक्त्यर्थस्तदाऽभावविशेषणीभूतो नीलपदार्थोपि विभक्त्यर्थ एवेति प्राप्तं तथा च नीलपदेनोपस्थितस्य नीलपदार्थस्यानन्वयप्रसङ्गो यतो विभक्त्यर्थभूत नीलविशिष्ट घटे पुनर्नीलपदोपस्थितनीलपदार्थस्यान्यो नैव संभवतीति ।
·
-
1
6
ननु न नीलभेदत्वावच्छिन्नाभावोऽभेदो येनोक्तदोषः स्यात् किं तु ' नीलो घट: ' इत्यादौ प्रतियोगि काभाव एव विभक्त्यर्थः नीलभेदत्वावच्छिन्नाभावस्तु नीलपदसमभिव्याहारादेव प्रती - यते तथा च नीलपदोपस्थितनीलपदार्थस्य घटे नाऽनन्वयप्रसङ्ग इत्याशङ्कयाह - न चेति । परिहारहेतुमाह- पदार्थेति, ' नीलो घटः इत्यत्र यो हि नीलभेदत्वावच्छिन्नाभावः प्रतीयते तत्र नीलभेदस्य तदभावस्य च यो नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वरूपः संबन्धस्तस्य कथं मानं स्यात् ?, न चाकाङ्क्षया संमप्रति- पदार्थद्वयसंसर्गस्यैवाकाङ्क्षाभास्यत्वात् । न चोट्संबन्धे विभक्तेः शक्तिमहोस्ति येनोक्तसंबन्धस्य शक्त्योपस्थितिः स्यादित्याक्षेपाभिप्रायः, तथा हिनीट : ' इत्यत्र नीलपदार्थस्य यो घटपदार्थेऽभेद संबन्धो भासते स नीलपदसमभिव्याहाररूपाकाङ्क्षया भासते तदुपस्थापकपदान्तरस्याभावात्, 'नीलो घट: ' इत्यत्र तु भेदाभावरूपोऽभेदो नीलपदोत्तरवर्तमानप्रथमा विभक्तेरेवार्थस्तत्राभेदे भेदः पदार्थतावच्छेदकः अभेदश्च पदार्थ : प्रथमाविभक्तिलक्षणपदजन्यप्रतीतिविशेष्यत्यात् तत्राभेदरूपभेदाभावे पदार्थतावच्छेदकरूपदस्य यो नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वरूपः संबन्धः स पदान्तरसमभिव्याहाररूपाकाङ्क्षाउभ्यो न भवति पदार्थद्वय संसर्गस्यैवाकाङ्क्षालभ्यत्वादत्र च न भेदाभेदौ द्वावेव पदार्थोंअमेदस्य पदार्थत्वेपि भेदस्य पदार्थतावच्छेदकत्वेन पदार्थत्वाभावात् किं तु यथा इत्यत्र घटघटत्वसमवायेषु त्रिषु घटपदशक्तिस्वीकारात् घटे घटत्वसमवायः शक्त्यैव भासते न तु पदान्तरसमभिव्याहाररूपाकाङ्क्षया तथा प्रकृतेपि प्रथमाविभक्त्यर्थे मेदाभावरूपामेदे शक्त्योपस्थिते
घट: 2
"Aho Shrutgyanam"
८