________________
विशेषण विभक्त्यर्थविचारः ]
व्युत्पत्तिवादः ।
( १७ )
अथ ' नीलं घटमानय ' इत्यादौ नीलादेर्घटादावन्वयोपगमे नीलादिपदोत्तरविभक्त्यर्थकर्मत्वादेः कुत्रान्वय इति चेत् ?, न कुत्रापि विभक्तिपदं साधुत्वार्थमेव प्रयुज्यते । अभेद एव वा विशेषणविभक्तेरर्थः, अभेदस्य संसर्गमर्यादया भानं तु समासस्थले एव तत्र लुप्तविभक्तेरनुसंधानं विनापि शाब्दबुद्धेरानुभविकत्वादित्यपि वदन्ति ।
अथैतन्मते - अभेदो यदि भेदत्वावच्छिन्नाभावस्तदाऽप्रसिद्धिः, यदि च भेदतियोगिको भावस्तदा 'नीलं जलम्' इत्यादिवाक्यस्यापि मामाण्यापत्तिः - जले. विशेष्यवाचकत्रटपदे निराकाङ्क्षपदानुत्तरत्वमस्त्येव तथा ' नीलघटरूपम् ' इत्यत्र यद्यपि नीलरूपपदयोर्मध्ये घटपदव्यवधानेन रूपपदे स्वोत्तरसुप्पदमिन्नपदानुत्तरत्वं नास्ति तथापि स्वोत्तरसुप्पदभिन्ननिराकाङ्क्षपदानुत्तरत्वं त्वस्त्येव घटपदस्य रूपद साकाङ्क्षत्वेन निराकाङ्क्षत्वाभावादित्येतादृश्या आकाङ्क्षाया अवश्यमभ्युपगन्तव्यत्वे त्वदुक्ताकाङ्क्षाऽभ्युपगमस्य निरर्थकत्वादित्यर्थः ।
ननु ' नीलं घटमानय ' इत्यत्र नीलस्य तु घटेऽन्वयो भवतीति प्रसिद्धं किं तु नीलपदोचरद्वितीयाविभक्त्यर्थस्य कर्मत्वस्य कुत्रान्यो भवतीतिजिज्ञासाथ शङ्कते अथेति । उत्तरगर्भं प्रतिषेधमाह - न कुत्रापीति । "संभवत्यर्थसाधुत्वे पदसाधुत्वम् (विभक्तेः पदसाधुत्वार्थकत्वोपपादनम् ) अन्याय्यम् ” इत्यभिप्रायेण पक्षान्तरमाह- अभेदेति, ' नीलो घटः 'नीलं घटम् ' 'नीलस्य वटस्य ' इत्यादी सर्वत्र विशेषण विभक्तेरमेद एवार्थ:- नीलाभिन्नो घट इतित्रोधादित्यर्थः । ननु ग्रन्थारम्भे एवाभेदस्य संसर्गमर्यादमा मासमानत्वमुक्तं संसर्गमर्यादया मानं च पदा - नुपस्थितस्यैव भवति यदि विशेषण विभक्तेरेवा मेदोर्थस्तदाऽभेदस्य विभक्तिलक्षणपदेनोपस्थितौ संसर्गमर्यादया भासमानत्वं न स्यादित्याशङ्कयाह- अभेदस्येति, अभेदस्य संसर्गमर्यादयां भानं समासस्थल एव भवति तत्र=समासस्थले विशेषणविभक्तेलोंपेन लुप्तविभक्तेश्च समासेऽनुसंधानाकारेण पदान्तरस्याभेदानुपस्थापकत्वादगत्याऽभेदस्य संसर्गमर्यादया भानं स्वीक्रियते, नीलं घटम्' इत्यादौ त्वभेदोपस्थापिकाया विशेषण विभक्तेः सत्त्वेनाभेदस्य न संसर्गमर्यादया मानं किं तु प्रकारतयेत्यर्थः ।
उक्त विभक्त्यर्थ रूपाभेदस्वरूपं पृच्छन्नाशङ्कते - अथेति । अप्रसिद्धिरिति - घटादौ पटादीनां भेदस्य सत्त्वादेव भेदत्वावच्छिन्नस्याभावोऽप्रसिद्ध एव सर्वत्र पदार्थेषु तद्भिन्नपदार्थभेदस्य सर्वप्रमाणसिद्धत्वादित्यर्थः । ननु न भेदत्वावच्छिन्नाभावोऽभेदो येनाऽप्रसिद्धिः स्यात् किं तु भेदप्रतियोगिको नाम किंचिद्भेदव्यक्तिप्रतियोगिको भावोऽभेद इत्युच्यते तथा च नीलघंटे नीलभेदो 'नास्तीति नीलभेदप्रतियोगिकामावरूपोऽमेदः सर्वप्रसिद्ध एवेत्याशङ्क्याह- यदि चेति । अत्र दोषमाह - तदेति, भेदप्रतियोगि काभावस्याभेदत्वे ' नीलं जलम्' इत्यादिवाक्यस्यापि प्रामामापद्येत तथा हि-- जलं नीलं न भवतीति तर्कसिद्धान्तेन जले नीलभेद एव वर्तते इति नीलं जलम् ' इति प्रयोगो न भवति भेदप्रतियोगि काभावस्या मेदत्वे तु जले नीलभेदाभा
२
" Aho Shrutgyanam"
"