________________
सादर्श:
[ प्रथमाकारकेधासुनैव तत्र पाकादिप्रतिपादनादितिवाच्यम्, क्रियापदस्य तत्र सार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वात्। 'स्तोकं स्थीयते'इत्यादावाऽरख्यातस्यापि वर्तमानत्वार्थकतया सार्थकत्वात् । न च वर्तमानत्वाद्यविवक्षायां द्वितीयानुपपत्तिरितिवाच्यम्, वर्तमानत्वादिविवक्षास्थल इवार्थबोधप्रयोजकाकाङ्क्षाशालित्वेनैव तदविवक्षास्थलेपि भावाख्यातस्यार्थवत्वात्।।
केचित्तु- धातोरिव घजन्तस्यापि पाकादौ शक्तिरुपेयते, अन्यथा सुब्बिभत्यर्थसंख्याकर्मत्वादीनां तत्र पाकादावन्वयानुपपत्ते:- " प्रकृत्यान्वितस्वार्थधातोरेव पाकादिक्रियाबोधकत्वं युक्तं न प्रत्ययस्येति 'स्तोकः पाकः ' इत्यत्रापि स्तोकपदार्थ धात्वर्थे एवाभेदान्वयात् स्तोकपदाद् द्वित्तीयाः स्यादेवेत्याशङ्कयाह- न चैवमिति । परिहारहेतु. माह-क्रियापदस्येति । तत्र" क्रियाविशेषणानां क्लीबत्वं कर्मत्वं च " इत्यनुशासने क्रिया पदस्य सार्थकप्रत्ययान्तधातूपस्थाप्यक्रियापरत्वादत्र च घनः साधुत्वमात्रार्थकत्वेन सार्थकत्वाभाः वात् तदन्तधातूपस्थाप्यपाकक्रियायां स्तोकपदार्थस्य विशेषणत्वेपि न स्तोकपदाद् द्वितीया भवति 'स्तोकं पचति । इत्यादौ तु तिष्प्रत्ययस्य सार्थकत्वेन तदन्तधातूपस्थाप्यपाकक्रियायां स्तोकपदार्थस्य विशेषणत्वेन स्तोकपदाद् द्वितीया भवतीत्यर्थः । ननु यदि भावार्थकप्रत्ययानां न सार्थत्वं तदा स्तोकं स्थीयते' इत्यत्राऽऽख्यातप्रत्ययस्यापि भावार्थकत्वेन सार्थत्वं न स्यादिति स्तोकप: दात् कथं द्वितीया प्राप्तेत्याशङ्कयाह- स्तोकमिति, ' स्तोकं स्थीयते' इत्यादावण्याख्यातप्रत्या यस्य वर्तमानकालबोधकत्वेन सार्थकत्वमस्त्येवेति न द्वितीयाऽनुपपत्तिरित्यर्थः । ननु यत्र काल विवक्षा न भवति तत्रापि भावाख्यातप्रत्ययो भवतीति वर्तमानकालाविवक्षायाम् ' स्तोकं स्थीयते इत्यादी वाख्यातस्य सार्थकत्वं न संभवतीति द्वितीयापि न स्यादित्याशङ्कयाह-न चेलि. परिहारहेतुमाह- वर्तमानत्वादीति, तिङ्भावाख्यातप्रत्यये वर्तमानत्वबोधनस्य स्वरूपयोग्यता त्वत्येव- विवक्षायां सत्यां वर्तमानत्वविषयकबोधोदयादिति तादृशस्वरूपयोग्यतामादायैव सार्थ, कत्वोपपत्तरित्यर्थः । तत्-वर्तमानत्यादि । एवं च 'मर्थबोधानुकूलाकाङ्क्षापर्याप्यधिकरण भूतप्रत्ययप्रकृतिभूतधातुवाच्यक्रियामिष्ठविशेष्यतानिरूपिताऽभेदसंबन्धावच्छिन्नकर्मत्वप्रयोजकपदाद्र द्वितीया भवति 'इति नियमः प्रातस्तथा च ' स्तोकं पचति' स्तोकं स्थीयते' इत्यादौ तिम प्रत्ययस्य सार्थकत्वेनार्थबोधानुकूलाकाङ्क्षापर्यायधिकरणत्वात् तत्प्रकृतिभूतधातुवाच्यपाकक्रिया निष्ठविशेष्यतानिरूपिताभेदसंबन्धावच्छिन्नकर्मत्वस्य प्रयोजकं स्तोकपदमिति स्तोकपदादत्र द्वितीय प्राप्ता । स्तोकः पाकः' इत्यत्र च धप्रत्ययस्य सार्थकत्वाभावान स्तोकपदाद् द्वितीया संभवति
भावार्थकृत्प्रत्ययानां यत्प्रयोगसाधुत्वमात्रार्थकत्वमुपगम्यानर्थकत्वमुक्तं तत्र कस्यचिन्मुखेर प्रत्यवतिष्ठते- कैचिदित्यादिना, ( ३८) वदन्तीतिपर्यन्तम् । यथा धातो; पाकादौ स य 'काया र इत्यत्र घमन्तस्यापि पाके शक्तिः स्वीकार्यैव । विपक्षे बाधकमाह- अन्यथे घनन्तपाकपदस्य पाके शक्तिर्न स्यात्तदा तत्र- 'पाकः । इति धान्तप्रयोगे पाका
"Aho Shrutgyanam"