________________
विभक्त्यर्थान्वयवि० ]
व्युत्पत्तिवादः ।
( ३३ )
बोधकत्वं प्रत्ययानाम् ” इतिव्युत्पत्तेः, धातूनां च सुब्विभक्त्यप्रकृतित्वात् । प्रकृत्येक देशार्थेपि प्रत्ययार्थान्वयोपगमे ? ' पचन्तं पश्यति ' इत्यादित: 'पचमानं पश्यति' इत्यादितश्च पाकादौ द्वितीयाद्यर्थकर्मत्वाद्यन्वयबोधप्रसङ्गात् ।
एकविशेषणत्वेनोपस्थितस्यान्यत्रविशेषणत्वेनान्वयस्याव्युत्पन्नतया तत्र प्रत्थयार्थविशेषणपाकादेर्न कर्मत्वे विशेषणतयाऽन्वय इति चत् ?, तथापि पाकादिविशेपणतया सुबर्थ संख्याया अन्वयसंभवात् यत्र पाककर्त्रादर्द्वित्वादिकं बाधितं पाका
कृत्यर्थभूत संख्या कर्मत्वादीनामन्वयो न स्यात् । अत्र हेतुमाह- प्रकृत्यर्थेति - प्रत्ययानां स्वप्रकृयर्थविशिष्टस्वार्थबोधकत्वमस्ति " प्रकृतिप्रत्ययौ सहार्थ ब्रूतः " इतियायद् यथा f घटं कुरु इत्यत्र द्वितीयायाः स्वप्रकृत्यर्थ घट विशिष्टकर्मत्वबोधकत्वमस्ति न तु घटाऽनन्वित कर्मत्वबोध करवामिअर्थः तथा च यदि घञन्तपाकपदस्य पाके शक्तिर्न स्यात् किंतु घञः साधुत्वमात्रार्थकत्वं स्यात् विलस्य धातोरेव पाके शक्तिः स्यात्तदा सुन्निभक्त्यर्थसंख्याकर्मत्वादीनां पाकेनान्वयो न स्याद् यतः प्रत्ययानां स्वप्रकृत्यर्थान्वितस्त्रार्थबोधकत्व नियमोस्तीति सुप्रप्रत्ययेनापि स्वप्रकृत्यर्थान्वितानामेव स्वार्थभूतसंख्या कर्मत्वादीनां बोधनं कर्तव्यं प्रकृतित्वं चाव्यवधानेन पूर्ववर्तित्वं न च पचादिधानां सुब्विभक्तिप्रकृतित्वमस्ति घञादिना व्यवधानात् यस्य च घञः सुब्विभक्तिप्रकृतित्वं तस्यानर्थकत्वाश्रयणादित्यर्थः । ननु प्रत्ययानामनुभवबलात् प्रकृतितदेकदेशार्थान्यतरान्वितस्वार्थबोधकत्वं कल्पयामस्तथा च , पाक: इत्यत्र सुब्विभक्तिप्रकृत्येक देशार्थभूतेपि धात्वर्थे पाके संख्याकर्मत्वादीनामन्वयो भविष्यतीत्याशङ्कयाह- प्रकृत्येकदेशार्थेपीति, एवं हि 6 पचन्तं नश्यति' इत्यत्रापि विवक्षासत्त्वे प्रकृत्येक देशार्थे पाके द्वितीयार्थ कर्मत्वस्यान्वयः स्यान्न तु प्रत्यपार्थे पाककर्तरीति पाककर्मकमेव दर्शनं स्यान्न तु पाककर्तृकर्मकम् न चैतदिष्टमिति न प्रकृत्येकदेशार्थे प्रत्ययार्थान्वयो भवति तथा च पाक इत्यत्रापि धात्वर्थपाके कर्मत्वाद्यन्वयनुपपन्न इति तदन्वयार्थ घञन्तस्य विशिष्टस्य पाके शक्तिः स्वीकार्या तथा च ' पाकः' इत्यत्र घञन्तपासुब्विभक्तिप्रकृतित्वेन तदर्थीभूतपाके सुत्रिभक्त्यर्थ संख्या कर्मत्वादीनामन्वये न
6
कपदस्य
कोपि विरोधः ।
>
ननु 'पचन्तं पश्यति' इत्यादी शतृप्रत्ययार्थे कर्तरि पाकस्य विशेषणत्वेनान्वयो जातोस्ति कत्र विशेष गत्वेनोपस्थितस्य चान्यत्र विशेषणत्वेनान्वयो नैव भवतीति पाकस्य कथं सुब्विभक्त्यकर्मत्वेऽन्वयः स्यादित्याशङ्कते - एकेति । तत्र = ' पचन्तं पश्यति' इत्यादिसार्थप्रत्ययान्तप्र-, योगे । कर्मत्वरूप प्रत्ययार्थत्वेन प्राधान्यात् तत्र प्रकृत्यर्थ पाकादीनामन्वयस्य योग्यत्वात् तत्परहारः कृत इतिभावः । उक्तरीत्या पाकादी कर्मव्यान्वयवारणे कृतेपि संख्याद्यन्त्रयापत्ति प्रतिपादयति- तथापीत, प्रकृत्येकदेशार्थे प्रत्ययार्थान्वयपगमे एकदेशार्थे पाकादौ सुबर्थ संख्याया अन्यो भविष्यत्येव तथा च यत्रक एव पाककर्ता पाकद्वयं करोति तत्र द्विश्वसंख्यायाः प्रकृत्ये •
"Aho Shrutgyanam"