________________
( ३४ )
सादर्श:
[ प्रथमाकारके
देश्व तदबाधितं तत्र 'पचन्तौ पश्यति' 'पचमानों पश्याते' इत्यादिप्रयोगप्रसक्रस्य दुर्वारत्वात् । धातूपस्थाप्यार्थे सुबर्थान्वयबोधं प्रति तत्तद्वातूत्तरप्रत्ययधर्मिकfifaeपरत्वज्ञानस्य प्रतिबन्धकतामुपगम्यैतादृशातिप्रसङ्गवारणे च गौरवात् । एवम्- 'शोभनं पचनम्' इत्यादी धातुमात्रेण पाकाद्युपस्थितौ च तत्र शोभनाद्यभेदान्वयबोधानुपपत्तिः- विशेषणविभक्तिसजातीयविभक्तिप्रकृत्यनुपस्थाव्यत्वात् ।
कदेशार्थे पाकेऽन्वयसंभवात् 'पचन्तौ पश्यति' इत्यादिप्रयोगः स्यादेव । न चैव भवति किं तु यत्र द्वौ पाककर्तारौ त्रतस्तत्रैव 'पचन्तौ पश्यति' इति प्रयोगो भवति तस्मात् प्रकृत्येकदेशार्थे प्रत्ययार्थान्वयो न भवतीति घञन्तस्य विशिष्टस्य पाकादी शक्तिरुपेया तथा च घञन्तस्य विभक्तिप्रकृतित्वेन विशिष्टार्थभूते पाके सुव्विभक्त्यर्थ संख्या कर्मत्वादीनामन्वयः संभवत्येव । ननु प्रत्ययार्थ निष्ठप्रकारता निरूपितचात्वर्थनिष्ठविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तत्तद्वातूतरप्रत्ययधर्मिककिंचिदर्थपरत्वज्ञानं प्रतिबन्धकमित्येवं प्रतिबध्यप्रतिबन्धकभावं कल्पयिष्या मस्तथा च 'पचन्तं पश्यति' 'पचन्तौ पश्यति' इत्यादौ पचधातूत्तरवर्तमानस्य शतृप्रत्ययस्य कर्तरि शक्तत्वेन तदर्थतया शतृप्रत्ययस्य कर्तृत्वरूपार्थपरत्वज्ञानमेव प्रत्ययार्थसंख्यादीनां धात्वपाकादौ विशेषणतयान्वयबोधे प्रतिबन्धकं भविष्यतीति नात्र प्रकृत्येकदेशार्थपाकादौ प्रत्ययार्थसंख्यादीनामन्त्रयापत्तिर्दोष: 'पाकः' इत्यादि भावार्थकृत्प्रत्ययस्थले तु भावार्थकृत्प्रत्ययानां साधुत्वमात्रार्थकत्वेन निरर्थकत्वाश्रयणात् किंचिदर्थपरत्यज्ञानमेत्र न जायते इति प्रतिबन्धकाभावात प्रत्ययार्थ संख्या कर्मत्वादीनां धात्वर्थपाकादौ विशेषणतयाऽन्वयबोधे न काचिदनुपपत्तिरिति कृतं वन्तस्य पाकादौ शक्तिस्वीकारेणेत्याशङ्क्याह- धातूपस्थाप्येति, एवं नवीन प्रतिबध्यप्रतिबन्धकभावकल्पनरूपमेव गौरवं भविष्यति तस्माद् घञन्तस्य पाकादौ शक्तिः स्वीकार्या | प्रत्ययार्थानां प्रत्येक देशार्यान्वयश्च न स्वीकार्य इत्यर्थः ।
यथा 'पाकः' इत्यत्र वनन्तस्य पाके शक्तिः स्वीकार्या तथा 'पचनम्' इत्यत्रापि ल्युडऽन्तस्यैव पाके शक्तिः स्वीकार्या न तु धातुमात्रस्येत्याह - एवमिति, यदि ल्युडेन्तस्य पाके शक्तिर्न स्वीक्रियेत किं तु धातुमात्रेण पाकोपस्थितिः स्यात्तदा यथा 'पाकः' इत्यत्र धातुमात्रेणोपस्थि तपाके संख्याकर्मत्वाद्यन्वयस्यानुपपत्तिरस्ति तथात्रापि धातुमात्रोपस्थितपाके अभेदसंबन्धेन शो
नपदार्थान्वयो न स्यादेवेत्यर्थः । उक्ते हेतुमाह - विशेषणेति, विशेष्यविशेषणयोरभेदसंबन्धेन शाब्दबोधं प्रति सजातीयविभक्तिप्रकृत्युपस्थाप्यत्वं हेतुरस्ति तथा च विशेष्यस्य विशेषण विभक्तिसजातीयविभक्तिप्रकृत्युपस्याप्यत्वमपेक्ष्यते अत्र च पाकपदार्थस्य न विभक्तिप्रकृत्युपस्थाप्यत्वम् 'पचनम्' इत्यत्र पचनेतिल्युडन्तस्यैव विभक्तिप्रकृतित्वेन पाकोपस्थापकस्य धातुमात्रस्य विम. क्त्यप्रकृतिस्वात् ल्युटा व्यवधानात्. विभक्त्यप्रकृतिभूतपच्धातुना पाकस्योपस्थापितत्वादित्यर्थः ।
"Aho Shrutgyanam"