________________
(२५२)
सादर्श:- [ द्वितीयाकारकप्रथमखण्डेजन्यतासंबन्धेन तस्य चाश्रयतासंबन्धेनाऽजाभारादिरूपप्रधानकर्मण्यऽन्वया, ग्रामादिवृत्तित्वान्वयस्तु संयोगे एव, एवं च चैत्रकृतिजन्यो यः संयोगावच्छिन्नक्रियानुकूलव्यापारस्तजन्यग्रामवृत्तिसंयोगानुकूलकर्मवानजादिरित्यन्वयबोधः। ___ न च कारकविभक्त्यर्थस्य धात्वर्थे एवान्वयनियमात् प्रत्ययोपस्थाप्यसंयोगे कथं प्रामादिवृत्तित्वान्वय इति वाच्यम् , 'भूतले घटः ' इत्यादी घटादिपदार्थेप्यधिकरणसप्तम्यर्थान्वयात् तादृशनियमाऽसिद्धेः । अस्तु वा धात्वर्थतावच्छेदकतावच्छेदकतया भासमाने संयोगे एव तदन्वयः।
फलव्यापारयोः पृथक शक्तिमते चाश्रयत्वमेवात्मनेपदार्थः, संयोगावच्छिन्नप्राप्त्यनुकूला क्रियेब फलम् । तत्र-उक्तक्रियारूपफले धात्वर्थस्य तादृशव्यापारस्य उक्तक्रियारूपफल जनकस्य प्रापणरूपव्यापारस्य जन्यतासंबन्धेनान्वयः-क्रियारूपफलस्य धात्वर्थीभूतव्यापारजन्यत्वात् । तस्य-क्रियारूपफलस्य चाश्रयतासंबन्धेन प्रधानकर्मभूताजादावन्धयः । ग्रामपदोस्तरद्वितीयार्थस्य ग्रामवृत्तित्वस्य संयोगे एवान्वय इति धात्वर्थतावच्छेदकतावच्छेदकी भूतसंयोगरूपफलाश्रयत्वाद् ग्रामस्य गौणकर्मत्वम् , संयोगस्याऽजादावप्यन्वयविवक्षायामऽजादेरपि गौणकमैत्वं स्थान्न तु प्रधानकर्मत्वमित्यर्थः । वाक्यार्थस्वरूपमाह- एवं चेति । संयोगावच्छिन्न क्रियानुकूलच्यापारश्चैत्रवृत्तिप्रापणव्यापारः । कर्म क्रिया । स्पष्टमन्यत्। - ननु मामपदोत्तरद्वितीया कारकविभक्तिरस्ति कारकविभक्त्यर्थस्य च धात्वर्थे एवान्वयो भवतीत्यत्र कथं कर्माख्यातप्रत्ययोपस्थाप्ये संयोगे प्रामपदोत्तरद्वितीयार्थस्य ग्रामवृत्तित्वस्यान्वयः कृत इत्याशङ्कते-न चेति । उत्तरदेशसंयोगावच्छिन्नक्रियारूपं फलं कर्माख्यातार्थ इत्युक्तं तत्रोत्तरदेशसंयोगावच्छिन्नक्रियायाः कर्माख्यातप्रत्ययार्थत्वे तदेकदेशस्य संयोगस्यापि कर्माख्या“तप्रत्ययार्थत्वं ज्ञेयम् । ' बाणेन हतः' इत्यादौ तृतीयार्थकरणत्वादेर्धात्वर्थे 'व्यापारे एवान्वयो मवतीति दृष्टान्तः । परिहारमाह- भूतले इति, 'भूतले घटः' इत्यत्र भूतलपदोत्तराधिकरणसनम्यपि कारकविभक्तिरेव अथापि तादृशसप्तम्या अर्थस्य वृत्तित्वस्य घटे एवान्वयो भवतीति कारकविभक्त्यर्थस्य धात्वर्थे एवान्वयो भवतीति नियमो नास्तीति — अजा ग्रामं नीयते' इत्यत्रापि ग्रामपदोत्तरद्वितीयार्थवृत्तित्वस्य प्रत्ययोपस्थाप्यसंयोगेऽन्वये न काचिदनुपपत्तिरित्यर्थः । कारकविभक्त्यर्थस्य धात्वर्थे एवान्वयनियममभ्युपगम्याह- अस्तु वेति, ' अजा ग्राम नीयते । इत्यत्रो. क्तवाक्यार्थानुसारेण संयोगस्य धात्वर्थतावच्छेदकतावच्छेदकतया धात्वर्थत्वमस्त्येवेति तादृशसयोगे एव ग्रामपदोत्तरद्वितीयार्थस्य ग्रामवृत्तित्वस्यान्त्रयो ज्ञेय इत्यर्थः । कारकत्वं हि क्रियानिलपितमेव भवतीति कारकविभक्त्यर्थस्य कारकस्य धात्वर्थव्यापारे एवान्वयो युक्त इति भावः । एवकारो भिन्नक्रम इति ' धात्वर्थतावच्छेदकतावच्छेदकतयैव । इत्यन्वयः ।
'अजा प्रामं नीयते । इत्यत्र मतान्तरमाह- फलेति, फले व्यापारे चोक्ते यदा धातोः पृथक् पृथगेव खण्डशः शक्तिस्तदाऽऽश्रयत्वमेवाख्यातार्थो न तुलं फलस्य धातुनधोपस्थिति
पता
"Aho Shrutgyanam"