________________
निरूपयत्यर्थः व्युत्पत्तिवादः ।
( २५३) क्रियारूपधात्वर्थ एव व्यापाररूपधात्वर्थविशेष्यतया आश्रयत्वविशेषणतया चान्वेति, तदेकदेशे संयोगे एव प्रामादिवृत्तित्वान्वयः, चैत्रीयकृतिजन्यध्यापारजन्यग्रामवृत्तिसंयोगानुकूलक्रियाश्रयोऽजादिरित्याकारको बोधः । ___ ज्ञानानुकूलशब्दश्च द्रव्यं निरूपयति' इत्यादौ धातोरर्थः, तादृशविशिष्टैकार्थस्यैकदेशे ज्ञानांशे आधेयत्वान्वयबोधने न द्वितीयायाः साकाङ्क्षता स्वीक्रियते अपि तु विषयतयाऽन्वयबोधे एवेति 'शिष्यं द्रव्यं निरूपयति' इत्यादिने प्रयोगः। ___ यत्तु धात्वर्थों ज्ञानमेव तदनुकूलव्यापारश्च णिजर्थ इति, तदसत्-धातोश्चुरा.
धन्तर्गततया स्वार्थे एव णिचो विधानात्, अन्यथा — निरूपयति' इत्यस्य संभवादित्यर्थः । अत्र च मते पूर्वोक्तं संयोगावच्छिन्नक्रियारूपं फलमजादिवृत्ति धात्वर्थ एव-- तादृशफलेपि धातोरेव शक्तिस्वीकारात् स च संयोगावच्छिन्नक्रियारूपं फलं धात्वर्थो व्यापाररूपधात्वर्थे विशेष्यतयान्वेति-व्यापाररूपधात्वर्थस्य विशेषणत्वात् तत्रैतादृशफलीभूतक्रियारूपधात्वर्थस्य विशेष्यत्वात्, आख्यातार्थश्चाश्रयत्वं तत्र धात्वर्थीभूतसंयोगावच्छिन्नक्रियारूपफलं विशेषणमस्तीति स फलीभूतः संयोगावच्छिन्नक्रियारूपधात्वर्थ आश्रयत्वे विशेषणतयाऽन्वेतीत्यथः ।, वक्ष्यमाणशाब्दबोधेन पूर्वपूर्वपदार्थस्य व्यापारादेर्विशेषणत्वमवधार्यम् । “व्यापाररूपधात्वर्थवि. शेष्यतया " " आश्रयत्वविशेषणतया " इति सप्तमीसमासौ । तदेकदेशे-संयोगावच्छिन्नक्रियारूपधात्वर्थैकदेशे संयोगे ग्रामपदोत्तरद्वितीयार्थस्य ग्रामवृत्तित्वस्यान्वयः । अत्रत्यवाक्यार्थस्वरूपमाह- चैत्रीयेति । चैत्रीयकृतिजन्यव्यापारः प्रापणरूपव्यापारः, ग्रामवृत्तिसयोगानुकूलक्रिया ह्यजादिवृत्तिः क्रिया ।। ::निपूर्वकरूपधात्वर्थमाह- ज्ञानेति, येन शब्देन शिष्यस्य द्रव्यादिविषयकं ज्ञान स्यात् सादृशशब्दो धात्वर्थः । अत्र तादृशविशिष्टकार्थ: ज्ञामानुकूल (ज्ञानोत्पादक ) शब्दस्तस्यैकदेशो ज्ञानं तत्र द्वितीयाया यः खल्वाधेयस्वमर्थस्तस्यान्वयो न भवति- अर्थादत्राधेयत्वं द्वितीयार्थों नास्ति. अन्यथा ज्ञानं शिष्ये एवोत्पद्यते इति ज्ञानस्य शिष्यवृत्तित्वात् शिष्यपदोत्तरद्वितीयार्थस्य शिष्यवृत्तित्वस्य ( शिष्याधेयत्वस्य ) ज्ञानेऽन्वयसंभवात् शिष्यपदोत्तरमपि द्वितीयापत्त्या ' शिष्यं, द्रव्यं निरूपयति । इत्यपि प्रयोगः स्याद् न चैतदिष्टं तस्मादत्र न द्वितीयाया आधेयत्वान्वये साकाङ्क्षत्वम् (नात्र द्वितीयाया आधेयत्वमर्थः) अपि तु विषयतयान्वयबोधे एवात्र द्वितीयायाः साकाङ्क्षत्वम् ( अत्र विषयत्वमेव द्वितीयार्थः) तथा च ज्ञानविषयत्वं तु द्रव्ये एवास्ति न तु शिष्ये इति द्रव्यपदादेव द्वितीया प्राप्ता न शिष्यपदादपीति न 'शिष्यं द्रव्यं निरूपयति' इति प्रयोगापत्तिरित्यर्थः । द्रव्यविषयकज्ञानजनकवाक्यप्रयोगं करोतीतिशाब्दबोधः ।
ननु 'निरूपयति । इत्यत्र ज्ञानमात्रं धात्वर्थो ज्ञानानुकूलव्यापारस्तु णिजर्थ इति नोक्तविशिष्टं धात्वर्थ इत्याशङ्कते- यत्त्विति । परिहरति- तदसदिति, णिचः स्वार्थे एवात्रजातत्वान्न पृथग व्यापारार्थत्वं संभक्तीत्यर्थः । विपक्षे बाधकमाह- अन्यथेति, यदि निपूर्वकरूपधास्वों
"Aho Shrutgyanam"