________________
(२५४)
सादर्श:- [ द्वितीयाकारकप्रथमखण्डे'ज्ञापयति' इत्यादिसमशीलतया 'शिष्यं ज्ञापयति ' इत्यादिवत् ' शिष्यं निरूपयति ' इंतिप्रयोगस्य दुर्वारत्वात् ।
'अजां ग्रामं यापयति ' ' शिष्यं शास्त्रं ज्ञापयति ' ' ब्राह्मणमन्नं भोजयात ' ' यजमान मन्त्रं पाठयाति , 'घटं जनयति नाशयति । इत्यादौ णिच्प्रत्ययप्रकृतिभूतधात्वर्थकर्तृवाचकाजादिपदोत्तरद्वितीयाया मुख्यभाक्तसाधारणं कर्तृत्वमेवार्थ:-" गतिबुद्धि " इत्यादिसूत्रेण कर्तुः कर्मसंज्ञाविधानात् । गति. ज्ञानोत्पत्त्यादिनिरूपितं कर्तृत्वं चाश्रयत्वमेव, गलाधःसंयोगानुकूलक्रियानुकूलव्यापाररूपभोजन-कण्ठताल्वाद्यभिषातरूपपाठ-निरूपितं च तदनुकूलकृतिमत्वम् , नाशनिरूपितंच प्रतियोगित्वम् , तस्य च निरूपकतासंबन्धेन धात्वर्थेऽन्वयः। झाबमान स्यात्तदा 'शिष्यं ज्ञापयति । इतिवत् 'शिष्यं निरूपयति । इत्यपि प्रयोगः स्याद् न चैतदिष्टमिति न ज्ञानमात्रं निपूर्वकरूपधात्वर्थः किं तु ज्ञानानुकूलशब्द एव, ज्ञानानुकूलशब्दविषयत्वं च द्रव्यादावेत्र न शिष्यादाविति न 'शिष्यं निरूपयति । इतिप्रयोगापत्तिरित्यर्थः । समशीलतया-तुल्यतया, अत्र च तुल्यतापत्त्येत्यर्थः। ___ अजामिति-“ गतिबुद्धि " इत्यादिसूत्रेण गमनादिकर्तुरेव प्यन्तावस्थायां कर्मसंज्ञा विधानादन णिच्प्रत्ययस्य प्रकृतिभूतो यो यादिधातुस्तदर्थों यो गमनादिव्यापारस्तत्कर्तवाचकं यदऽजादिपदं तादृशाजादिपदोत्तरद्वितीयाया मुख्यगौणसाधारणं कर्तृत्वमेवार्थः-अजादीनामत्र गमनादिक्रियानिरूपितकर्तृत्वस्यैव सत्त्वात्.! 'अजां ग्रामं नयति , इत्यादौ तु धातोद्धिकर्मकत्वादजादीनां कर्मत्वमेवेति विवेकः । तत्र धात्वर्थानुकूलकृतिमत्वं मुख्यं कर्तृत्वम् , धात्वर्थाश्रयत्वं गौणं कर्तृत्वमिति विवेकः । स्वयमुदाहरति- गतीत्यादिना, “ अजा. ग्रामं यापयति । इत्यत्राजायां गत्यनुकूलकृतिमत्त्वमेव मुख्यं कर्तृत्वम् , “शिष्यं शास्त्रं ज्ञापयति ' इत्यत्र शिष्ये ज्ञानाश्रयत्वमेव ज्ञानकर्तृत्वम्-शिष्यो जानाति तं शिष्यं गुरुः ज्ञापयति इतिबोधात्, ‘ब्राह्मणमन्नं भोजयति ' इत्यत्र गलाधःसंयोगानुकूला या ग्रासनिष्ठा क्रिया तादृशक्रियानुकूलव्यापाररूपं यद् भोजन तहिशभोजनानुकूल कृतिमत्त्वमेव ब्राह्मणे भोजनकर्तृत्वम् , एतदपि कर्तृत्वं मुख्यम् , ' यजमानं मन्त्रं पाठयति ' इत्यत्र कण्ठताल्वाद्यभिघातजन्यो यः पाठस्तादृशपाठानुकूलकृतिमत्त्वमेव यजमानस्य कर्तृत्वम् , ' घटं जनयति ' इत्यत्रोत्पत्त्याश्रयत्वमेव घटस्य कर्तृत्वम् , 'घटं नाशयति । इत्यत्र नाशनिरूपितप्रतियोगित्वमेव घटस्य नाशक्रियाकर्तृत्वम्, घटो नश्यति तं नश्यन्तं नाशयतीति बोधोदयादित्यन्वयः । कर्तृत्वं हि धात्वर्थीभूतव्यापारनिरूपितमेव भवतीति धात्वर्थे यत्कर्तृत्वनिरूपकत्वं तादृशसंबन्धेनोक्तकर्तृत्वानां धात्वर्थेऽन्वय इत्याह-तस्येति । तस्य-उक्तरूरकर्तृवस्य । - नवीनतमाह- नव्येति, 'शिष्यं शास्त्रं ज्ञापयति ' इत्यत्र ज्ञानाश्रयत्वमेव शिष्यस्य कर्तृवमस्तीति शिष्यपदोत्तरद्वितीयार्थ आधेयत्वम् ज्ञानस्य शिष्यवृत्तित्वात् , ' ब्राह्मणमन्नं भोज
"Aho Shrutgyanam"