________________
णिजन्तप्रयोगविशेषाः]
व्युत्पत्तिवादः ।
( २५५ )
नव्यमते च यत्राश्रयत्वं कर्तृत्वं तत्राधेयत्वं द्वितीयार्थः, यत्रानुकूलकृतिमत्त्वं तंत्र कृतिजन्यत्वम्, यत्र प्रतियोगित्वम् तत्रानुयोगित्वम्, तेषां चाश्रयतासंबन्धेनैव धात्वर्थेऽन्वयः । गत्यर्थादिभ्योऽन्यत्र णिच्प्रत्ययप्रकृतिधात्वर्थकर्तृवाचकपदान द्वितीया - तादृशकर्तुः कर्मातिदेशाऽविषयत्वात् तेन ' पाचयत्योदनं सहायेन ' इत्यादय एव प्रयोगाः न तु पाचयत्योदनं सहायम् ' इत्यादयः ।
<
केचित्तु - पाकादिकर्तुः पाकादिकर्मत्वविरहेपि ण्यन्तसमुदायस्यापि धातुत्वेन तत्कर्मतया सहायादेः ' पाचयत्योदनं सहायम्' इत्यादयः प्रयोगा अपि साधवः, अत एव अजिग्रहत्तं जनको धनुस्तत् " इत्यादयो भट्टिप्रयोगाः । गतिबु -
SC
<<
,
यति ' इत्यत्रोक्तभोजनानुकूलकृतिमत्त्रमेव ब्राह्मणस्य कर्तृत्वमस्तीति ब्राह्मणपदोत्तरद्वितीयार्थः कृतिजन्यत्वमेव- भोजनव्यापारस्य ब्राह्मणकृतिजन्यत्वात् ' घटं नाशयति ' इत्यत्र नाशप्रतियो गित्वमेव घटस्य नाशकर्तृत्वमस्तीति घटपदोत्तरद्वितीयाया अनुयोगित्वमर्थस्तस्य च स्वरूपसंबन्धरूपाश्रयतासंबन्धेन वात्वर्थे नाशेऽन्वयः - नाशस्यैवात्र घटनिष्ठप्रतियोगित्वनिरूपकत्वादित्यऽनुयोगितासंबन्धेन घटविशिष्टो यो नाशस्तादृशनाशानुकूलव्यापारवानितिशाब्दबोध इत्यन्वयः । तेषाम् = आधेयत्वादिद्वितीयार्थानाम् । उक्तस्थलेषु ज्ञापयतीत्यत्र शिष्य निरूपिता द्वितीयार्थभूताधेयताऽऽश्रयतासंबन्धेन धात्वर्थे ज्ञानेस्ति, भोजयतीत्यत्र द्वितीयार्थभूतं कृतिजन्यत्यमाश्रयता संबन्धेन भोजनव्यापारे धात्वर्थे विज्ञेयम्, नाशयतीत्यत्रानुयोगिता धात्वर्थे नाशे विज्ञेया । गत्यर्थादिधातूनामेव व्यन्तावस्थायां गत्यादिकर्तृवाचकाजादिपदेभ्यो द्वितीया भवति नान्यत्रेत्याह-- गत्यर्थेति । ताशकर्तुः=ण्यन्तगत्यर्थादिधातुभिन्नपचादिधात्वर्थकर्तुः कर्मत्वविधायकानुशासनाभावाद् न ताद शकर्तृवाचकपदाद् द्वितीयापत्तिरिति न 4. पाचयत्यन्नं सहायम् इत्यादयः प्रयोगाःसहायादिपदादत्र द्वितीयाविधायकसूत्राभावात् किं तु ' पाचयत्यन्नं साहायेन ' इत्येवमेव प्रयोग इत्यर्थः ।
मतान्तरमाह--- केचित्विति, ' पाचयत्योदनं सहायम्' इत्यादौ पाककर्तुः सहायस्य पाकादिनिरूपित कर्मत्वाभावेपि ण्यन्तसमुदायस्यापि ' पाचयति । इत्यादेर्धातुत्वेन व्यन्तधात्वर्थनिरूपितं तु सहायादेरपि कर्मत्वमस्त्येवेति तादृशकर्मत्वमाश्रित्य द्वितीयापत्त्या 'पाचयत्योदनं सहायम्' इत्यादयोपि प्रयोगाः साधव एवेत्यर्थः । अत्र प्रमाणमाह-- श्रत एवेति, अत एव = अण्यन्तावास्थायाः सहायादेः कर्तुर्ण्यन्तावस्थायां कर्मत्वस्य सर्वत्र - साधुत्वादेव " अजिग्रहतं जनको धनुस्तत्" इत्यत्र भट्टिकारेणाऽप्यन्तावस्थायाः कर्तुस्तत्पदवाच्यस्य व्यत्तावस्थायां कर्मत्वमाश्रित्य तम् ” इति द्वितीयान्तप्रयोगः कृतः, अन्यथा ' तेन ' इति प्रयुक्तं स्यादित्यर्थः । ननु यदि सर्वत्रैवाऽप्यन्तावस्थायाः कर्तुर्ण्यन्तावस्थायां कर्मत्वं स्यात्तदा गतिबुद्धि " इत्यादिसूत्रस्य किं फलमित्याशङ्क्याह - गतिबुद्धीति, " गतिबुद्धि " इतिसूत्रम् ' गत्यर्थादिधातुयोगेऽप्यन्ता
" Aho Shrutgyanam"
66