________________
( २५६ )
सादर्श:
[ द्वितीयाकारकप्रथमखण्डे -
द्वि० " इत्यादिसूत्रं च नियमपरतया गत्यर्थधातुयोगे कर्तृप्रत्ययाऽसाधुत्वज्ञापकम्, तेन ' पाचयत्योदनं सदायेन ' इत्यादिवत् 'अजया ग्रामं गमयति' इत्यादयो न प्रयोगा इत्याहुः ।
77
एषामयमाशयः - " हेतुमति च इत्यनुशासनाद् णिजय हेतुकर्तृत्वं त स्वतन्त्रकर्तृप्रेरणा अन्यनिष्ठ कर्तृत्वनिर्वाहकव्यापाररूपा, कर्तृत्वं कचित् प्रयत्नः क्वचिदाश्रयत्वादिकम् । यादृशधातूत्तराख्यातेन यादृशं कर्तृत्वं बोध्यते तदुत्तरणिच्प्रत्ययेन तादृशकर्तृत्वनिर्वाहकव्यापारो बोध्यते, अत एव 'पाचयति' इत्यादौ पाकादिकृतिनिर्वाहकः, ' ज्ञापयति' इत्यादौ ज्ञानाश्रयत्वनिर्वाहकः, ' नाशयति' इत्यादौ नाशप्रतियोगित्वनिर्वाहको व्यापारः प्रतीयते । निर्वाहकत्वं च स्वरूपवस्थायाः कर्तुर्ण्यन्तावस्थायां कर्मत्वमेव भवति तेन च तद्वाचकपदात् तृतीयादिः कर्तृप्रत्ययो न भवति कर्मप्रत्ययो द्वितीयैव भवति ' इति नियमपरमस्ति तस्मात् ' अजया ग्रामं गमयति इति प्रयोगो नैव भवति किं तु ' अजां ग्रामं नयति ' इत्येव प्रयोगो भवति, गत्यर्थादिधातुमिनधातुयोगे त्वऽण्यन्तावस्थायाः कर्तुर्ण्यन्तावस्थायां कर्तृत्वमपि भवति कर्मत्वमपि भवति तेन पाचयत्योदनं सहायम्' इत्यपि प्रयोगो भवति ' पाचयत्योदनं सहायेन प्रयोगो भवतीत्यर्थः ।
3
इत्यपि
८
उक्तमतावलम्बिनामभिप्रायं वर्णयति - एषामित्यादिना, हेतुमति च " इतिसूत्रेण विजर्थो हेतुकतृत्वम् = प्रयोजक कर्तृत्वमिति प्रतिपाद्यते तच हेतुकर्तृत्वमन्यनिष्ठ = प्रयोज्यवृद्धनिष्ठ कर्तृत्वस्य निर्वाहिका व्यापाररूपा स्वतन्त्रकर्तुः = प्रयोजकवृद्धस्य या प्रेरणा तद्रूपमेव कर्तृत्वं च कचित् प्रयत्नः = कृतिरेव यथा ' भोजयति' इत्यादौ भोजनानुकूलकृतिमत्त्वमेव कर्तुत्वम्, कचिद कर्तृत्वं धात्वर्थाश्रयत्वमेव यथा ' ज्ञापयति' इत्यादी ज्ञानाश्रयत्वमेव कर्तृत्वम्, आदिपदात् प्रतियोगित्वमपि कर्तृत्वं यथा नाशयतीत्यत्र, तथा च प्रयोज्यवृद्धनिष्ठकर्तृत्वनिर्वाहको यः प्रयोजकवृद्धनिष्ठव्यापारः स एव हेतुकर्तृत्वं तदेव च णिजर्थ इति यादृशधातूत्तराख्यातेन यादृशं कर्तृत्वं बोध्यते तदुत्तरणिच्प्रत्ययेन तादृशकर्तृत्वनिर्वाहकव्यापारो बोध्यते यथा # भोजयति ' इत्यत्र भुजधातूत्तराख्यातेन भोजनानुकूलकृतिमत्त्वरूपं कर्तृत्वं बोध्यते इतितदुत्तरः- तादृशधातूत्तरणिच्प्रत्ययेनापि भोजनानुकूलकृतिमत्त्वरूप कर्तृत्वस्यैव निर्वाहको व्यापारों बोध्यते 'ज्ञापयति' इत्यत्र च ज्ञाधातूत्तराख्यातेन ज्ञानाश्रयत्वरूपमेव कर्तृत्वं बोध्यते इति तदुत्तरणिच्प्रत्ययेनापि ज्ञानाश्रयत्वरूपकर्तृत्वस्यैव निर्वाहको व्यापारो बोध्यते एवमेव युक्त वादित्याह - यादृशेति । उक्तं स्वयमेवोदाहरति- अत एवेति, अत एव = उक्तयादृशेत्या - दिनियमादेव । व्यापारः - णिजर्थव्यापारः । ' नाशयति' इत्यत्र नाशप्रतियोगित्वमेव नाशक तृत्वमिति पूर्वमेव (२५४५०) उक्तम् । “ तादृश कर्तृत्व निर्वाहकव्यापारः" इत्यनेन यत् प्रयोजकवृद्धव्यापारस्य प्रयोज्यवृद्धनिष्ठ कर्तृत्वनिर्वाहकत्वमुक्तं तत्र निर्वाहकत्वस्वरूपमाह - निर्वाहकत्वं चेति,
" Aho Shrutgyanam"