________________
णिजन्त प्रयोगविचारः 1.
व्युत्पत्तिवादः ।
( २५७ )
संबन्धविशेषो न तु जनकत्वम् अतो न ' नाशयति ' इत्यादावन्वयानुपपत्तिः एवं च ण्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं कर्तृत्वमेव- निर्वाह्यस्यैव फलत्वात् तदाश्रयतया स्वतन्त्रस्य कर्तुः कर्मता. तादृशफल विशेषणतयाऽस्वतन्त्रकर्तृवृत्तित्वविवक्षायाम् ' पाचयत्योदनं सहायम् ' इत्यादयः प्रयोगाः । यदा तु पाकादिविशेपणतया सहायादिकर्तृत्वं विवक्षितं तदा ' पाचयत्योदनं सहायेन ' इत्यादयः । अथ यत्र चैत्रमैत्रोभयकर्तृक एक एव पाकस्तत्र चैत्रमात्रं प्रयोजयति यज्ञदत्ते मैत्रेणानं पाचयति ' इतिप्रयोगापत्तिरिति तत्रापि व्यर्थकृतावेव तृतीयान्तातच निर्वाहकत्वं स्वरूपसंबन्धविशेष एव न तु कर्तृत्वजनकत्वं निर्वाहकत्वमित्यर्थः । अस्य फलमाह - अत इति, यदि जनकत्वमेव निर्वाहकत्वं स्यात्तदा नाशयति इत्यत्र नाशप्रतियोगित्वमेव कर्तृत्वमस्ति न च नाशप्रतियोगित्वं णिजन्तकर्तृव्यापारजन्यमस्ति तस्य घटे स्वतः सिद्धत्वादेवेत्यत्र णिजन्तकर्तृव्यापारस्य नाशप्रतियोगित्वरूपकर्तृत्व निर्वाहकत्वं न स्यादिति निर्वाहकत्वं जनकत्वं किं तु स्वरूपसंबन्धविशेष एव तस्य तु ' नाशयति इत्यादावप्यनुपपत्तिर्नास्त्येवेत्यर्थः । उपसंहरति- एवं चेति, यदेव निर्वाह्यं तदेव फलं भवति निर्वाह्यं चात्र व्यन्तत्रात्वर्थता - बच्छेदकं प्रयोज्यवृद्धनिष्ठं कर्तृत्वमेवेति तदेवात्र फलमस्ति, फलाश्रयस्य च कर्मत्वं भवतीति तदाश्रयतया=फलभूतकर्तृत्वाश्रयतयाऽस्वतन्त्रस्य कर्तुः = प्रयोज्य वृद्धस्य कर्मत्वं प्राप्तं तथा च यदाऽस्वतन्त्र कर्तृवृत्तित्वं तादृश ( कर्तृत्वरूप ) फलविशेषणं भवति अर्थात् यदा सहायवृत्तिपाकानुकूलकृत्यनुकूलव्यापारवानित्येवं कर्तृत्वरूपफलस्य प्रयोज्यवृद्धवृत्तित्वेन विवक्षा भवति तदा कर्तृत्वरूपफलाश्रयत्वेन द्वितीयापत्त्या ' पाचयत्योदनं सहायम् ' इत्येवं प्रयोगो भवति, यद च सहायकर्तृकपाकानुकूल कृत्यनुकूलव्यापारवा नित्येवं सहायादिरूपप्रयोज्यवृद्धनिष्ठ कर्तृत्वं पाकादिविशेषणं भवति तदा पाकादिव्यापारविशेषणीभूतस्य कर्तृत्वस्य फलत्वासंभवात् तदाश्रयीभूतवाचकसहायपदात् तृतीयैव स्यान्न द्वितीयेति ' पाचयत्योदनं सहायेन ' इति प्रयोगो भवतीत्यर्थः । 61 अस्त्रतन्त्र कर्तृवृत्तित्वविवक्षायाम् " इति षष्ठीतत्पुरुषः - अस्वतन्त्र कर्तृवृत्तित्वस्य तादृशफलविशेषणतया विवक्षायामित्यर्थः ।
,
८
ननु यदुक्तम् यदा तु पाकादिविशेषणतया सहायादिकर्तृत्वं विवक्षितं तदा 'पाचयत्योदनं सहायेन ' इत्यादयः " इति तत्र यत्र चैत्रमैत्रोभयकर्तृक एक एव पाकस्तत्रोभयकर्तृकपा के उभयनिष्ठ कर्तृत्वस्य विशेषणत्वं स्यादेव निरूपकतासंबन्धेन (पाकस्य कर्तृल निरूपत्वात् ) तथा च तत्र चैत्रमात्रं प्रयोजयति यज्ञदत्ते ' मैत्रेणानं पाचयति । इत्यपि प्रयोगः स्यादेव- मैत्रनिष्ठकर्तृत्वस्यानि पाके विशेषणत्वाद् यन्निष्ठव र्तृत्वस्य पाके विशेषणत्वं तद्वाचकपदात्तृतीयायास्वया व्यवस्थापित्वाद् न च चैत्रमात्रं प्रयोजयति यज्ञदत्ते 'मैत्रणानं पाचयति ' इति प्रयोग इष्ट इयभिप्रायेणाशङ्कते - अथेति । किं च " तादृशफल विशेषणत्याऽस्वतन्त्र कर्तृवृत्तित्व विवक्षायाम् * पाचयत्योदनं सहायम्' इत्यादयः प्रयोगाः " इत्युक्तदिशा यथा ' मैत्रमन्नं पाचयति '
•
१७
66
#
"Aho Shrutgyanam"