________________
(२५८)
सादर्श:- [द्वितीयाकारकप्रथमखण्डेर्थमैत्रादिवृत्तित्वस्याऽन्वयो वाच्य एवं च ' मैत्रं पाचयति' इत्यादिवाक्यजन्यबोधाऽवैलक्षण्याद् द्वितीयातृतीययोस्तात्पर्यभेदेन व्यवस्थाया न संगतिरिति चेत?, न, अंगत्या तत्र पाकादिविशेषणकृतेः पारतन्त्र्येण व्यापारविशेषणीभूतणिज
र्थकृतावऽभेदान्वयमुपगम्योक्तातिप्रसङ्गस्य वारणीयत्वात् , पदार्थैकदेशे कृती इत्यत्र फरभूतं यत् ण्यर्थकर्तृत्वं तस्य मैत्रवृत्तित्वेन तादृशक्तत्वे मैत्रवृत्तित्वस्यान्वयः प्राप्तस्तथैव तत्रापि= मैनेगानं पाचयति । इत्यत्रापि व्यर्थकृतिः ( ण्यर्थकर्तृत्वम् ) मैत्रे वर्तते एवेति ण्यर्थकृतौ तृतीयान्तपदार्थमैत्रवृत्तित्वस्यान्वयेनोभयोरप्युक्तवाक्ययोः समानबोधजनकत्वात् ' मैत्रमन्नं पाचयति । इतिवाक्यजन्यबोधापेक्षया ' मैत्रेगानं पाचयति । इतिवाक्यजन्यबोधस्य वैलक्षण्याभांबाद् द्वितीयातृतीययोर्या तात्पर्यभेदेन विवक्षाभेदेन व्यवस्थोक्ता तस्याः संगतिर्न संभवतीत्याशनाह तत्रापीति । यर्थकृतावेवेति-अन्यनिष्ठकर्तृत्वनिर्वाहकव्यापारो णिजर्थ इत्युक्तं तत्र यज्ञदत्तादिनिष्ठण्यर्थव्यापारनिर्वाह्यं यदन्य ( मैत्रादि ) निष्ठं कर्तृत्वं तस्यापि ज्यर्थकोटिप्रविष्टत्वाद् व्यर्थत्वमेव कर्तृत्वं च कृतिरेव ण्यर्थभूतमऽन्यनिष्ठकर्तृत्वं चात्र मैत्रनिष्ठमेव मैत्रस्यात्र ज्यर्थव्यापारकर्तयज्ञदत्तापेक्षयाऽन्यत्वादिति ण्यर्थकृतौ तृतीयान्तार्थमैत्रवृत्तित्वस्यान्वयो ज्ञेय इत्यर्थः । परिहरंति- नेति, अगत्येति, पाकविशेषगीभूतकृतेः णिजर्थव्यापारविशेषणीभूतकृतावभेदान्वयस्वीकारण उक्तातिप्रसङ्गस्य-यत्रोभयकर्तृक एक एव पाकस्तत्र चैत्रमानं प्रयोजयति सति यज्ञदत्ते 'मैत्रेणानं पाचयति । इतिप्रयोगापत्तिनिवार्यते तथा हि- यत्रोभयकर्तक एक एवं पाकस्तत्र पाकविशेषणीभूता कृतिः ( कर्तृत्वम् ) तु यद्यप्युभयोरपि चैत्रमत्रयोर्वर्तते तथापि प्रेरकेण यज्ञदतन प्रेरणा तु चैत्रमात्रं प्रत्येव क्रियते न तु मैत्रं प्रत्यपि तथा च णिजों योऽन्यनिष्ठकर्तत्वमिहिकप्रैस्णारूपव्यापारस्ताहशव्यापारविशेषणीभूतों या णिजथैकृतिः सा तु चैत्र एवं वर्तते न मैत्रे तथा च चत्रवृत्तिणिजर्थकृतावेव पाकविशेषणीभूतकृतेरऽभेदान्वयः संभवतीति · चैत्रेणानं पाचयति । इत्येव प्रयोगो भवति, मैत्रे तु तादृशदशायां गिजर्थकृतिरेव नास्ति येन तस्यां पाकविशेषणीभूतकृतेरभेदान्वयः स्यादिति न चैत्रमात्रं प्रयोजयति यज्ञदत्ते 'मैत्रेणान्नं पाचयति । इति प्रयोगापत्तिरित्यर्थः । यनिष्ठणिजर्थव्यापारविशेषणीभूतकृती पाकादिकृतेरभेदान्वयः स्यातद्वैचिकैचैत्रादिपदादेव तृतीया भवस्यऽन्यत्रद्वितीयेति यावत् । अत्र च कृतिः कर्तृत्वमेव पाकविशेषणीभूता कृतिहि पाकप्रयोजिकव कृतिरस्ति तादृशकतेरेव णिजर्थव्यापारो निर्वाहक इति गिजर्थव्यापारविशेषणीभूतकृतेः पाकादिविशेषणीभूतकृतेश्चाभेदो जात इत्यभेदान्वय उक्तः । मनु " पदार्थः पदार्थेनान्चेति न तु पदार्थैकदेशेन " इतिनियमात् णिजर्थव्यापारविशेषणीभूतोक्तणिजयंकृतिः पदार्थैकदेश एवेति तत्र पाकविशेषणीभूतकृतेः कथमन्वयः स्यादित्याश
झ्याह- पदार्थकदेशेति, पारतन्त्र्येण धर्मिभूतपाकद्वारा पाककृतैरपि पदार्थैकदेशभूतणिजर्थव्यापार विशेषणीभूतकृतावन्वये न कोपि दोषः- 'पाचयति ' इत्यत्र पाकानुकूला या कृतिस्ताशतिनिर्वाहकव्यापारवान् इति बोधोदयात् पायानुकूला कृतिः पाके पाको णिजयकृतौ सा
"Aho Shrutgyanam"