________________
णिजन्तप्रयोगविचारः
घ्युत्पत्तिवादः । पाकादेखि कृतेरप्यन्वयो व्युत्पत्तिवैचित्र्यात् । वस्तुतः कर्तृत्वं व्यापारश्च प्रथगेव णिजर्थः, विशिष्टलाभोऽन्वयबलात् । __केचित्तु-- अनुकूलव्यापार एव णिजर्थः, तदन्वयिनी गमनज्ञानभोजनादिकि
यैव धात्वर्थतावच्छेदकं फलम् , तत्संबन्धिनस्तादृशक्रियाकर्तुयॆन्तकर्मता, तादृशक्रियासंबन्धश्वाऽऽश्रयत्वकृतिमत्त्वाचन्यतमो ग्राह्यः. अतो गमनादिसंबन्धिकालादौ नातिप्रसङ्ग इत्याहुः । अत्र च तादृशकर्मतावाचकपदात् कदाचिद् द्वितीया कदाचिद् तृतीयेत्यत्र नियामकाभावः-तादृशपदोत्तरयोस्तयोस्तुल्यार्थकतया विवक्षाभेदरूपनियामकाभावादिति तु चिन्तनीयम् । च णिजर्थव्यापारे विशेषणमितिपरम्परा । धर्मिपारतन्त्र्येणापि पदार्थ कदेशेऽन्वयानङ्गीकारे पक्षान्तरमाह- वस्तुत इति, विशिष्टस्थाऽन्यनिष्ठकर्तृत्वनिर्वाहकव्यापारस्य णिजर्थत्वं यदुक्तं तनास्ति किं तु कर्तृत्वं ( कृतिः ) व्यापारश्च पृथगेव णिजर्थ इति णिजयंकृतेः पदार्थत्वमेव प्राप्तं न पदाथैकदेशत्वं येन तत्र पाकविशेषणीभूतकृतेरभेदान्वये उक्ते कोपि दोषः स्यादित्यर्थः । शाब्दबोधे ताशकर्तत्वविशिष्टव्यापारस्य प्रतीतिस्त्वन्धयबलात् आकाङ्क्षाबलादपि संभवत्येवेति न कर्तृत्वविशिष्टव्यापारस्य ( विशिष्टस्यान्यनिष्ठकर्तृत्वनिर्वाहकव्यापारस्य ) णिजर्थत्वं वक्तव्यमित्याह-विशिष्टेति । द्वितीयातृतीययोर्नियमस्त्विदानी पूर्वोक्तया "तादृशफलविशेषणतया" इतिरीत्यैव ज्ञेयः ।
णिजथै मतान्तरमाह-केचित्विति, अनुकूलव्यापार:= गमयति ' इत्यादौ गमनाथनुकूलव्यापारो णिजर्थस्तत्र गमनादिव्यापारस्तु धात्वर्थ एव पारिशेष्यादनुकूलव्यापार एव णिजर्थः, तदन्वयिनी-णिजर्थव्यापारान्वयिनी । धात्वर्थतावच्छेदकं च फलं भवति अत्र च णिजन्तधात्वर्थों गमनाद्यनुकूलव्यापार एवेति गमनादिक्रियाया धात्वर्थतावच्छेदकत्वम्-णिजन्तधात्वर्थविशेषणत्वं प्राप्तमिति — गमयति । इत्यादी णिजन्तस्य गमनादिक्रियैव फलं तत्संबन्धिनः तादृशक्रियारूपफलसंबन्धिनः ( समवायिनः) तादृशक्रियाकर्तुः गमनादिक्रियाकर्तुः 'अजां ग्रामं गमयति , इत्यादावऽजादिपदार्थस्य ण्यन्तकर्मत्वं प्राप्तम्, तादृशक्रियासंबन्धः फलीभूतगमनादिक्रियायाः संबन्धश्चाश्रयत्वादिरेव पाह्यः-अर्थात् अजादौकृतिमत्त्वसंबन्धेन फलीभूतगमनादिक्रियाया अन्वयो ज्ञेयः, अजादौ गमनाद्यनुकूलकृतिमत्त्वमस्त्येव, अन्यथा गमनादिरूपं फलं कालिकसंबन्धेन गवादावप्यस्त्येवेति गवादेरपि णिजन्तकर्मत्वं स्यात्, कृतिमत्त्वादिसंबन्धेन तु गमनादिरूपं फलं गवादी कालादौ वा नास्तीति नातिप्रसा: कालादेर्गवादेर्वा कर्मत्वापत्तिर्नास्तीत्यर्थः । 'ज्ञापयति' इत्यादी ज्ञानादेराश्रयत्वं संबन्धः शिष्यादौ ज्ञेयः । अस्मिन् मते दोषमाह-अत्र चेति, 'पाचयति' इतिणिजन्तधात्वर्थनिरूपितकर्मत्वं प्रयोज्यस्य मैत्रस्य प्राप्तं तत्र "मैत्रमन्नं पाचयति । इत्येवं ताहशकर्मतावाचकपदात् ण्यन्तधात्वर्थनिरूपितकर्मताविशिष्टवाचकमैत्रादिपदात् कदाचिद् द्वितीया भवति कदाचिच्च 'मैत्रेणान्नं पाचयति' इत्येवं तृतीया भवतीति तादृशद्वितीयातृतीययोर्नियामक किमपि नास्त्येवेति दोषः, उक्त हेतुमाह-ताशपदोत्तरेति, तादृशपदोत्तरयोः=ण्यन्तधात्वर्थनि
"Aho Shrutgyanam"