________________
( २६० )
सादर्श:
[ द्वितीयाकारकप्रथमखण्डे -
अजा ग्रामं याप्यते चैत्रेण ' इत्यादौ चैत्रकर्तृकव्यापारनिर्वाह्य यद् ग्रामवृत्तिसंयोगानुकूलक्रियाकर्तृत्वं तदाश्रयोऽजा इतिबोधः, तत्र संयोगावच्छिन्नक्रिया धातुलभ्या, संयोगे ' ग्रामम् ' इत्यादिद्वितीयान्तार्थयामादिवृत्तित्वान्वयबलाद् ग्रामादिवृत्तिसंयोगावच्छिन्नक्रिया लभ्यते, ताहश्या णिजर्थकर्तृत्वेऽन्वयः । कर्माख्यातादिसमभिव्याहारनियन्त्रितव्युत्पत्तिबलाच्च तादृशक्रियान्वित कर्तृत्वं तृतीयान्तार्थचैत्रादिकर्तृत्वविशेषितव्यापाररूपाऽपरणिजर्थेन निर्वाह्यत्व संबन्धेन विशेषितम् अजादिरूपकर्मी भूतकर्तरि तद् विशेषणीभवदाख्यातार्थाश्रयत्वे विशेपणतया भासते ।
L
LE
रूपितकर्मताविशिष्टवाचक मैत्रादिपदोत्तरं वर्तमानयोस्तयोः द्वितीया तृतीययोस्तुल्यार्थकतया विवक्षाभेदस्यापि नियामकत्वं न संभवति, यदि तुल्यार्थकत्वं न स्यात्तदा विषक्षाभेदस्य नियामकत्वं स्यादपि न चैवमस्तीत्यर्थः । अत्र केचित्तु मते यः खलु अत्र च " इत्यादिना दोषः प्रदर्शितस्तमुद्दिश्याह भट्टाचार्य : - इति तु चिन्तनीयमिति, तथा च यथा समानार्थकयोरपि घटकलशपदयोर्विवक्षाभेदेन प्रयोगव्यवस्था तथात्रापि समानार्थकत्वेपि द्वितीयातृतीययोः प्रयोगव्यवस्था संभवत्येवेत्यर्थः ।
यगन्तप्रयोगमुदाहरति--अजेति, अत्र प्राप्त्यनुकूलगमनकर्तृत्वमजायाः प्रापणकर्तुत्वं च चैत्रस्य तच्चाऽजानिष्ठं प्राप्यनुकूल क्रियाकर्तृत्वं चैत्रनिष्टप्रापणव्यापारनिर्वाह्यमस्ति तदाश्रयः= तादृशकर्तृत्वाश्रयोऽजेतिवाक्यार्थबोध: । नन्वत्र कर्माख्यातस्याश्रयत्वार्थकत्वादजायाः क्रियाकर्तृस्वाश्रयत्वसंभवेपि ग्रामवृत्तिसंयोगानुकूल क्रियाकर्तृत्वाश्रयत्वं कथं प्राप्तमित्याशङ्क्याह-तत्रेति, अत्र संयोगानुकूलक्रिया तु याधात्वर्थ एवेति धातुभ्यैव ' ग्रामम् ' इतिद्वितीयान्तपदसमभिव्याहाराच्च संयोगे ग्रामवृत्तित्वस्यान्वयो जात इत्येवंरीत्या ग्रामवृत्तिसंयोगावच्छिन्नक्रिया लभ्यते ताहश्याः =प्रामवृत्तिसंयोगानुकूलक्रियाया णिजर्थ कर्तृत्वे=चैत्रनिष्ठकर्तृत्वे निर्वाहकत्वसंबन्धेनान्त्रयःकर्तृत्वं कृतिरेव चैत्रनिष्ठकृतेरेवाऽजानिष्ठतादृशक्रिया निर्वाहकत्वात्, अजायां चाश्रयत्वसंबन्धेनान्वयः, अजानिष्ठ कर्तृत्वे ( कृतौ ) च जनकत्व संबन्धेनान्वय इत्यर्थः । उक्तवाक्यार्थघटकपदार्थान् प्रतिपादयति-कर्मेति, कर्माख्यातसमभिव्याहारव्युत्पत्तिबलात्=प्रथमान्तकर्मपदार्थ विशेष्यकबोधबलात्, तादृशक्रियान्वित कर्तृत्वम्= ग्रामवृत्तिसंयोगावच्छिन्न ( जनक ) क्रियया निरूपितत्वसंबन्धेनान्वितं कर्तृत्वं तृतीयान्तार्थो यचैत्रनिष्ठं कर्तृत्वं तादृशकर्तृत्वविशेषित: - निरूपकत्व संबन्धेन चैत्रनिष्टकर्तृत्वविशिष्टो यश्चैत्रनिष्ठोऽपरणिजर्थ : प्रापणरूपव्यापारस्तेन व्यापारेण च निर्वाह्यत्वसंबन्धेन विशेषितम् = विशिष्टम् ( एतद्व्यापारस्यैवोक्तकर्तृत्व निर्वाहकत्वात् ) अजादिरूपकर्मीभूतकर्तरि = कर्माख्यातकर्मीभूते धात्वर्थकर्तरि चाऽजापदार्थे तत् = उक्तविशिष्टकर्तृत्वं विशेषणीभवत् कर्माख्यातार्थभूते आश्रयत्वे विशेषणतया भासते - एतत्कर्तृत्वविशिष्टाश्रयत्वस्याजायां सत्त्वात् आश्रयत्वे कर्तृत्वं निरूपितत्संबन्धेन विशेषणमित्यर्थः । अत्र च पूर्वम् "कर्तृत्वं
"Aho Shrutgyanam"