________________
णिजन्तयगन्तप्रयोगाः] व्युत्पत्तिवादः।
(२६१) ये तु “ गतिबुद्धि " इत्यादिसूत्रस्य संज्ञाविधायकत्वं वर्णयन्ति तेषामयमाशयः-व्यापार एव णिजर्थस्तत्र धात्वर्थक्रियायाः स्वकर्तृत्वनिर्वाहकत्वं संसर्गः, अतो न कर्तुः कर्मत्वं सूत्रान्तरप्राप्तम् ।। ___ याप्यते ग्राममजा ' इत्यादौ च स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धेन व्यापारविशेषितो धात्वर्थः कर्तृत्वेऽन्वेति. तच्चाश्रयत्वसंबन्धेनाऽजादौ विशेषण. तया भासते, तादृशव्यापारे तृतीयान्तार्थस्य चैत्रादिकर्तृत्वस्य धात्वर्थैकदेशे संयोगादिरूपफले च द्वितीयान्तार्थस्य ग्रामवृत्तित्वस्य विशेषणतया भानम् । व्यापारश्च पृथगेव णिजर्थः" इत्युक्तत्वाद् व्यापारस्याऽपरणिजर्थत्वं ज्ञेयं कर्तृत्वस्यापि णिजथत्वादिति । चैत्रनिष्ठप्रापणव्यापारनिर्वाह्या या ग्रामवृत्तिसंयोगानुकूला क्रिया तादशक्रियानुकूलकतस्वाश्रयत्ववती अजेतिशाब्दबोधः ।
"गतिबुद्धि " इतिसूत्रस्य केचिद् द्वितीयाविधायकत्वं वदन्ति, केचिच्च कर्मसंज्ञाविधायकत्वमेव वदन्ति कर्मसंज्ञायां प्राप्तायाम् “ कर्मणि द्वितीया " इत्यनेन द्वितीया स्वयमेव प्रापस्या तीति, तत्र द्वितीयमतं व्याख्यातुमुपक्रमते-ये स्विति । तत्र-णिजर्थव्यापारे । 'यापयति । इत्यादी धात्वर्थक्रियायाः प्राप्त्याद्यनुकूलक्रियायाः, स्वेति-स्वं प्राप्त्याद्यनुकूल क्रिया तादृशक्रिया निरूपितकर्तृत्वनिर्वाहकत्वं णिजर्थव्यापारेऽस्तीति तेन संबन्धेन णिजर्थव्यापारे तादृशक्रियाया 'अन्वय इत्यर्थः । अत इति-यतो व्यापारमात्रं णिजर्थोऽतो धात्वर्थक्रियाकर्तुरजादेः कर्मत्वं न सूत्रान्तरमाप्तमिति “ गतिबुद्धि " इति सूत्रेण विधीयते इत्यर्थः । यदि धात्वर्थक्रियानुकूलन्या, पारो णिजर्थः स्यात्तदा धात्वर्थक्रियाया व्यापारावच्छेदकत्वेन फलत्वं स्यात् तादृशफलीभूतक्रियाश्यत्वेनैवाजादीनां कर्मत्वं प्राप्नुयात् फलाश्रयस्यैव कर्मत्वादिति " गतिबुद्धि." इतिसूत्रेण कर्मसंज्ञाविधान न स्यात्, यदा च व्यापारमानं णिजर्थस्तदा धात्वर्थक्रियाया णिजर्थव्यापारावच्छेदकत्वाभावेन फलत्वाभावात्तादृशक्रियाश्रयत्वेनाऽजादीनां कर्मत्वं न संभवतीति “गतिबुद्धि" इतिसूत्रेण तत् कर्मत्वं विधीयते इतिभावः । ___ उक्तमतेन — अजा ग्रामं याप्यते ' इत्यस्य पदार्थानाह-याप्यत इत्यादिना, स्वं णिजर्थच्यापारस्तादृशव्यापारनिर्वाह्य यदजानिष्ठं कर्तृत्वं तादृशकर्तत्वनिरूपकत्वं संबन्धभूतं धात्वर्थेअजानिष्ठप्राप्त्यनुकूलक्रियायामस्तीति स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धेन णिजर्थव्यापारो धात्वर्थे वर्तते व्यापारविशिष्टतादृशधात्वर्थस्य चाजानिष्ठकर्तृत्वे निरूपितत्वसंबन्धेनान्वयः कर्तृत्वस्यैतादृशधात्वर्थनिरूपितत्वात्, तच्च उक्तविशिष्टकर्तृत्वमाश्रयतासंबन्धेनाऽजायां विशेषणमित्यन्वयः । ताहशेति- तादृशव्यापार-उक्तधात्वर्थविशेषणीभूतणिजर्थव्यापारे तृतीयान्तार्थचैत्रनिष्ठकर्तृत्वं निरूपकत्वसंबन्धेन विशेषणमस्ति, धात्वर्थेकदेशे संयोगरूपफले च द्वितीयान्तार्थप्रामवृत्तित्वमाश्रयतासंबन्धेन विशेषणमस्तीत्यन्वयः, याधारवर्थस्य संयोगानुकूल क्रियारूपत्वासंयोगस्य धात्वर्थंकदेशत्वं विज्ञेयम् । नन्वजादावाश्रयत्वसंबन्धेन यत् कर्तृत्वं भासते तत् कस्यार्थ इत्याशङ्क्याह
"Aho Shrutgyanam