________________
(२६२)
सादर्श:- [द्वितीयाकारकप्रथमखण्डेण्यन्तोत्तराख्यातस्यापि कर्तृत्वमेवार्थः, तत्र च तस्य वृत्तिः क्लुप्तेव, तन्चोक्तस्य धात्वर्थस्य विशेष्यतया प्रथमान्तपदार्थस्य च विशेषणतया भासते । "न च यक्समभिव्याहृताख्यातोपस्थाप्यकर्तृत्वस्यान्वयबोधोपगमे 'गम्यते चैत्रः' इत्यतोपि गमनकर्ता चैत्र इत्यन्वयबोधः स्यादिति वाच्यम्, ण्यन्तोत्तस्य. क्समभिव्याहृताख्यातस्यैव कर्तृत्वान्वयबोधनियामकत्वात् ।।
अथैवमपि ' अजा याप्यते' इत्यादौ कर्तृत्वस्याख्यातबोध्यत्वे " करि शप् इत्यपवादविषयतया यकोऽसाधुतापत्तिः । न च यादृशधातूत्तरं यत् सार्वधातुकं विहितं तादृशधात्वर्थनिरूपितकर्तृत्वस्य तेन विवक्षायामेव “ कर्तरि ग्यन्तोत्तरेति, ण्यतोत्तराख्यातस्यापि कर्तृत्वमेवार्थस्तदेवाख्यातार्थभूतं कर्तृत्वमत्राऽजायामाश्रयतासंबन्धेन विशेषणतया भासते, याप्यते इति च णिजन्तयगन्तप्रयोगः । तत्र कर्तृत्वे । तस्य= ग्यन्तोत्तराख्यातस्य । तत् कर्तृत्वं चोक्तस्य-णिजर्थव्यापारविशेषितस्य धात्वर्थस्य विशेष्यतया भासते-णिजर्थव्यापारविशिष्टधात्वर्थस्य कर्तृत्वेन्वयस्थोक्तत्वात्, तदेव कर्तृत्वं प्रथमान्ताऽजादिपदार्थस्य विशेषणतया भासते-आश्रयत्वसंबन्धेन कर्तृत्वस्थाजादावन्वयस्योक्तत्वात्,' चैत्रवृत्तिकर्तृत्वनिरूपको यो णिजर्थव्यापारस्तादृशव्यापारेण स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धेन विशिष्टो मो- प्रामवृत्तिसंयोगानुकूलगमनव्यापारस्तदनुकूलकृतिमती अजा ' इतिशाब्दबोधोदयात्, चैत्रवृत्तिकर्तृत्वनिरूपकप्रापणव्यापारविशिष्टप्रामसंयोगानुकूलगमनानुकूलकृतिमती अजेति यावत् । भपिशब्दाचैत्रादिपदोत्तरतृतीयाया अपि कर्तृत्वमेवार्थस्तस्य च निरूपकत्वसंबन्धेन णिजर्थव्यापारेडक्य उक्त एवेत्यर्थः । । ननु यदि त्वदुक्तरीत्या ' याप्यते ग्राममजा' इत्यत्र यक्समभिव्याहृताख्यातोपस्थाप्यकर्तृत्वस्याजादावाश्रयत्वसंबन्धेनान्वयः स्यात्तदा 'गम्यते चैत्रः । इत्यत्रापि यक्समभिव्याहृताख्यातोपस्थाप्यकर्तृत्वस्याश्रयत्वसंबन्धेन चैत्रेऽन्वयापत्त्या — गम्यते चैत्रः । इत्यनेन ‘गमनकर्ता चैत्रः ' इति शाब्दबोधः स्यात् समत्वादित्याशङ्क्याह-न चेति, परिहारमाह–ण्यन्तो: त्तरेति, ण्यन्तोत्तरयक्समभिव्याहृताख्यातस्थले.... एका जादौ कर्तृत्वस्याश्रयत्वसंबन्धनाऽन्वयो भवतीति नियमाद् न 'गम्यते चैत्रः' इत्यत्र चैत्रे कर्तृत्वान्वयापत्तिः-अत्र णिचोऽभावादित्यर्थः । अत्र तु चैत्रस्य कर्मत्वमेव । . ननु ( २६२ पृ० ) यदुक्तम्- " ण्यन्तोत्तराख्यातस्यापि कर्तृत्वमेवार्थः " इति तत्र : अजा याप्यते ' इत्यत्रापि यगन्तयन्तोत्तराख्यातस्य कर्तत्वमेवार्थः स्यात्तथा चाख्यातस्य कर्तृत्वार्थकत्वे "कतार शा" इत्यनेन शबेव स्याद् न तु यगिति तथा चात्र वर्तमानस्य यकोउसाधुत्वं स्यादित्याशङ्कते--अथेति । ननु यादृशयादिधातूत्तरं यत्-तिङादि सार्वधातुकं ( प्रत्ययः ) विहितं स्यात् तादृशधात्वर्थनिरूपितकर्तृत्वस्य-तिङादिप्रकृतिभूतधात्वर्थनिरूपितकर्तृत्वस्य तेन तिहादिना विवक्षायामेव शबादिर्भवति यथा — भवति ' इत्यत्र
"Aho Shrutgyanam"