________________
नयत्यर्थो वहत्यर्थश्च } व्युत्पत्तिवादः ।
(२५१) धिनी, ज्ञानस्य परम्परथा शब्दरूपधात्वर्थविशेषणत्वात् तदाश्रयीभूतगुरोगाणकर्मता, धर्मस्य च धात्वर्थविषयतया प्रधानकर्मता । बेञश्च ज्ञानोद्देश्यकावृत्त्यधीनशब्दोर्थः, ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः ।
'अजां ग्रामं नयति' इत्यादौ 'ग्राम भार वहति' इत्यादौ चोत्तरदेशसंयो. गावच्छिन्नक्रियानुकूलव्यापाररूपं प्रापणं धातोरर्थः, तत्रोत्तरदेशसंयोगे ग्रामस्य गौणकर्मणः, क्रियारूपे च फलेऽजादिप्रधानकर्मणोऽन्वयः, तथा च ग्रामवृत्तिसंयोगजनकाजादिवृत्तिक्रियानुकूलव्यापारानुकूलकृतिमानित्यन्वयबोधः ।
'अजा ग्राम नीयते ' ' उह्यते भारो ग्रामं चैत्रेण ' इत्यादावुत्तरदेशसंयो. गावच्छिन्नक्रियारूपं फलं कारख्यातार्थः, तत्र च धात्वर्थस्य तादृशव्यापारस्य जिज्ञासाविषयीभूतज्ञानं गुराविष्टमिति गुरुपदोत्तरद्वितीयार्थस्य दृत्तित्वस्य ज्ञानेऽन्वयः । शब्दस्यैव धात्वर्थत्वात् धर्मपदोत्तरद्वितीयार्थस्य विषयितायाः=धर्मविषयकत्वस्य धात्वर्थीभूतशब्देऽन्वयः । ज्ञानादिवच्छब्दस्य सविषयकपदार्थत्वाभावाद् धर्मे या शब्दविषयता सा शब्दानुकूलव्यापारमूलिका ज्ञेया कृतिरूपव्यापारस्य सविषयकपदार्थत्वात् शब्दोच्चारणानुकूलकृतेः शब्दद्वाराधर्मविषयकत्वसंभवादित्याह-शब्दस्येति । अत्र गुरौ जायमानस्य जिज्ञासाज्ञानस्य शब्दरूपधात्वर्थविशेषणीभूतप्रवृत्तिविशेषणीभूतोद्देश्यकत्वे विशेषणत्वमस्ति न तु साक्षाद्धात्वर्थीभूतशब्दे इति तादृशज्ञानाश्रयीभूतगुरोरप्रधानकर्मतेत्याह-ज्ञानस्येति । धात्वर्थीभूतशब्दस्य धर्मविषयकत्वेन धर्मस्य साक्षाच्छब्दविषयत्वाद् द्वितीयार्थद्वारा धर्मस्यःसाक्षाद्धात्वर्थे शब्दे एवान्वयाद्धर्मस्य प्रधानकर्मतेत्याह-धर्मस्येति । ब्रूधात्वर्थमाह-मश्चेति । 'शिष्यं धर्म ब्रूते' इत्यत्रापि ज्ञानोद्देश्यकप्रवृत्तेर्धात्वर्थ प्रवेशाद् यं शिष्यं प्रति गुरुर्वक्ति तस्यैवाप्रधानकर्मत्वं स्यान्न तु तत्रस्थान्यस्यापीति चैत्रं प्रति उपदेशे 'मैत्रं ब्रूते' इति प्रयोगापत्तिास्तीत्यर्थः । अत्र ज्ञानं शिष्ये इष्टमिति शिष्यपदोत्तरद्वितीयार्थवृत्तित्वस्य ज्ञानेऽन्वयः । अस्मिंश्च पक्षे 'पृच्छ्यते गुरुर्धर्मम् । 'शिष्य उच्यते धर्मम् ' इत्यादिकर्माख्यातस्थले गुरुशिष्यादिवृत्तित्वेन विवक्षितोक्तज्ञानस्य साक्षाद्वाधात्वर्थविशेषणत्वाभावात् तादृशज्ञानरूपफला. श्रयस्य गुरुशिष्यादेप्रधानकर्मत्वात् तवृत्त्यऽप्रधानकर्मत्वस्य लादिनाऽभिधानानुपपत्तिः पूर्वत्र प्रदर्शिता नास्तीति न काचिदनुपपत्तिः-साक्षाद् धात्वर्थविशेषणीभूतफलाश्रयस्यैव प्रधानकर्मत्वादिति भावः।
नीवहधास्वोरर्थमाह-अजामित्यादिना । अत्रोत्तरदेशसंयोगानुकूल क्रियायाः साक्षाद् धात्वर्थतावच्छेदकत्वं फलत्वं च व्यापारापेक्षयाऽस्तीति तदाश्रयीभूताऽजादेः प्रधानकर्मत्वम् । प्रामस्य संयोगरूपे अजादेच क्रियारूपे फले आधेयत्वसंबन्धेनान्वयः । वाक्यार्थस्वरूपमाइतथा चेति । अजादिवृत्तिक्रिया ग्रामप्राप्त्यनुकूला क्रिया, व्यापारश्च प्रापणरूपो च्यापारः । स्पष्टमन्यत्सर्वम् ।
कर्माख्यातान्तं नीधातुं वहधातुं चोदाहरति- मजेत्यादिना । अत्र चाजाभारादिवृत्तिः
"Aho Shrutgyanam"