________________
( २५० )
सादर्श:- [ द्वितीयाकारकप्रथमखण्डे
चान्वय इति । तन्न चारुतरम्-तथा सति यत्र जिज्ञासाविषयक चैत्रज्ञानेच्छया प्रश्नस्ता शब्दाच सामग्रीबलेन: मैत्रस्यापि पृच्छकजिज्ञासाज्ञानं तत्र 'मैत्र पृच्छति' इतिप्रयोगस्य एवं यत्र चैत्रज्ञानेच्छया ब्रूते दैववशात्र मैत्रस्यापि ज्ञानं तत्र ' मैत्रं ब्रूते ' इतिप्रयोगस्य चापत्तेः । साक्षाद्धात्वर्थविशेषणज्ञानरूपफलाश्रयतया तत्र गुर्वादीनां प्रधानकर्मतया " अप्रधाने दुहादीनाम्" इत्यनुशासनविरोधेन. ' पृच्छयते गुरुर्धर्मम् ' 'शिष्य उच्यते धर्मम्' इत्यादिस्थले च लकारादिना तत्कर्मत्वाभिधानानुपपत्तेश्च ।
परं तु जिज्ञासाज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दः पृच्छतेरर्थः, ज्ञाने गुरुवृत्तित्वस्यान्वयः शब्दे च धर्मविषयकत्वस्यान्वयः, शब्दस्य च विषयता व्यापारानुबरित्यन्वयबोध इत्यर्थः । एतन्मतं दूषयति - तन्नेत्यादिना, तथा सति यदि जिज्ञासाबोधकव्यापार एव पृच्छत्यर्थस्तदा यत्र जिज्ञासाविषयज्ञानं चैत्रनामकगुरोः स्यादितीच्छया प्रश्नः कृतस्तादृशप्रइन शक्तिज्ञानादिसामग्रीबलेन चैत्रसमीपस्थ मैत्रस्यापि धर्मादिविषयक पृच्छकजिज्ञासाज्ञानं जातं तत्र मैत्रसमवेत जिज्ञासाबोध जनकव्यापारस्यापि जातत्वाद् 'चैत्रं धर्म पृच्छति' इतिवत् 'मैत्रं धर्म पृच्छति' इत्यपि प्रयोगः स्यादेचेति न जिज्ञासाबोधकव्यापारो पृच्छत्यर्थो युक्त इत्यर्थः । एवं यदि ज्ञानानु - कूलशब्दप्रयोगो ब्रूधात्वर्थस्तदा यत्र गुरुश्चैत्रस्य ज्ञानं जायेतेतीच्छया ब्रूतेऽय च तत्रस्थमैत्रस्थापि गुरुवाक्येन ज्ञानं जातं तत्र मैत्रसमवेतज्ञानजनकशब्दप्रयोगरूपव्यापारस्यापि जातस्वात् 'चैत्रं ब्रूते' इतिवत् ' मैत्रं ब्रूते' इत्यपि प्रयोगः स्यादेव न चैतदिष्टमिति न ज्ञानानुकूलशब्दप्रयोगो धात्वर्थो युक्त इत्यर्थः । उक्तमतेन कर्माख्यातस्थले दोषमाह - साक्षादिति, तत्र = 'पृच्छयते गुरुर्धर्मम्' इत्यत्र बोधे गुरुवृत्तित्वमस्ति स च बोधः "साक्षाद्धात्वर्थविशेषणं चास्ति साक्षाद्धात्वर्थविशेषणाश्रयस्य च प्रधानकर्मत्वमेव भवतीति साक्षाद्धात्वर्थविशेषणीभूतज्ञान ( बोध ) रूपफलाश्रयतया गुरोः प्रधानकर्मत्वं प्राप्तं तत्र " अप्प्रधाने दुहादीनाम् "= दुहादीनामप्रधानकर्मणि लादयो भवन्तीत्यनुशासनविरोधेनलादिना गुरोः तत्कर्मत्वाभिधानानुपपत्तेः = प्रधानकर्मत्वाभिधानं नोपपद्यते, 'शिष्य' उच्यते धर्मम्' इत्यादौ च शिष्यस्य साक्षाद्धात्वर्थविशेषणीभूतज्ञानरूपफलाश्रयतया प्रधानकर्मत्वमुक्तरीत्या प्राप्तं तत्रापि " अप्रधाने दुहादीनाम्" इत्यनुशासनविरोधेन लादिना प्रधानकर्मत्वाभिधानं नोपपद्यते इति नोक्तपृच्छत्यादिवात्वर्थनिरूपणं युक्तमित्यर्थः ।
स्वमतेन पृच्छत्यर्थमाह-परं त्वित्यादिना, तुपदं पूर्वपक्षव्यावर्तकमिति " परं तु" इत्यस्यो केन " तन्न शोभनम् " इत्यनेनान्वयः । जिज्ञासेति - जिज्ञासाविषयकज्ञानोद्देश्यका या प्रवृत्तिस्तादृशप्रवृत्त्यधीनशब्दः प्रश्नादिरूपः पृच्छत्यर्थः । तथा च यं प्रति प्रवृत्तिर्भविष्यति तस्यैव चैत्रादिनामकगुरोरप्रधानकर्मत्वं भविष्यति न तु तत्रस्थमैत्रादेरपीति मदीयजिज्ञासायाश्चत्रस्य ज्ञानं जायतामितीच्छया प्रश्ने कृते दैववशात् तत्रस्थमैत्रस्य पृच्छकजिज्ञासाज्ञाने जातेपि न 'मैत्रं पृच्छति' इति प्रयोगापत्तिः - मैत्रं प्रति जिज्ञासाज्ञानोदेश्यकप्रवृत्तेरभावात् । ' गुरुं धर्मे पृच्छति' इत्यत्र
" Aho Shrutgyanam"