________________
रुणद्रयर्थःपृच्छत्यर्थश्च ] व्युत्पत्तिवादः।
'गां व्रज रुणद्धि ' इत्यादौ देशान्तरसंचारविरोधिव्यापारो धात्वर्थः, संचारविरोधित्वं संचारानुत्पादप्रयोजकत्वम्, अनुत्पादे प्रधानकर्मगोवृत्तित्वान्वयः, देशविशेषणे भेद च 'व्रजम् ' इति द्वितीयान्तार्थव्रजप्रतियोगित्वान्वयः। “रुध्यते गां व्रजः' इत्यादावन्वयबोधः स्वयमूहनीयः। __'गुरुं धर्म पृच्छति' इत्यादौ जिज्ञासाबोधकव्यापारी धात्वर्थः, बांधे गुरुवृत्तित्वस्य. जिज्ञासायां धर्मविषयकत्वस्यान्वयः ।' शिष्यं धर्म ब्रूते' इत्यत्र ज्ञानानुकूलशब्दप्रयोगो धात्वर्थः, ज्ञाने धर्मविषयकत्वस्य शिष्यवृत्तित्वस्यदोत्तरद्वितीयार्थभूताया विषयिताया इच्छायामन्धयः, कल्याणजनकव्यापारस्य सुरवृत्तित्वात् सुरपदोत्तरद्वितीयार्थस्य वृत्तित्वस्य ( भाधेयत्वस्य ; व्यापारेन्वय इत्यर्थः । वाक्यार्थबोधस्वरूपमाह-तथा चेति । आश्रयत्वं याचमानपुरुषस्य ज्ञेयम् ।
रुधधात्वर्थमाह-गामित्यादिना, देशान्तरसंचाराऽनुत्पत्तिप्रयोजकत्वमेव देशान्तरसंचारविरो. धित्वम् । देशान्तरसंचारानुत्पादो गव्येवेति गोपदोत्तरद्वितीयार्थस्य गोवृत्तित्वस्यानुत्पादेऽन्वयः, ब्रजादितद्देशभिन्न एव देशो देशान्तरमिति देशान्तरेस्यत्र भेदो देशविशेषणं तादृशभेदे च ब्रजपदोत्तरद्वितीयार्थस्य प्रतियोगित्वस्यान्वय इति व्रजप्रतियोगिकभेदविशिष्टदेशस्य यो गोवृत्तिः संचारानुत्पादस्तदनुकूलव्यापारवान् गोप इतिबोध इत्यर्थः । कर्माख्यातमुदाहरति-रुध्यते इति । स्वयमिति-तथा च गोपवृत्तिव्यापारप्रयोज्यो यो गोवृत्तिदेशान्तरसंचारानुत्पादस्तदेकदेशदेशान्तरनिष्ठो यो भेदस्तत्प्रतियोगित्वाश्रयो व्रज इत्यन्वयबोधः, आश्रयत्वं कर्माख्यातार्थः, कर्माख्यातप्रयोगस्थले प्रथमान्तपदार्थे फलाश्रयत्वं भवति तच्चात्राप्यस्त्येव-ब्रजप्रतियोगिकभेदाश्रयीभूतदेशान्तरसंचारविरोधिव्यापारस्यात्र धात्वर्थत्वेन देशान्तरनिष्ठभेदप्रतियोगित्वस्य धात्वर्थतावच्छेदकत्वेन फलत्वात् तादृशफलीभूतप्रतियोगित्वाश्रयत्वस्य ब्रजे स्वीकारादिति विज्ञेयम् । किं च " अप्रधाने दुहादीनां लादीनाहुर्द्विकर्मणाम् " इतिनियमेन ‘रुध्यते गां व्रजः' इत्यत्र लकारस्याऽप्रधानकर्मबोधकत्वादप्रधानकर्मभूतब जवाचकनजपदादेव प्रधमा जाता न तु प्रधानकर्मवाचकगोपदात् प्रधानकर्मत्वस्यानुक्तत्वादित्यनुसंधेयम् ।
पृच्छत्यर्थमाह-गुरुमिते, येन प्रश्नरूपेण व्यापारेण गुरोः स्वकीयजिज्ञासाया बोधः स्यात्तादृशो जिज्ञासाबोधको व्यापारः पृच्छत्यर्थः । जिज्ञासाविषयकबोधो गुरौ जायते इति गुरुपदोत्तरद्वितीयार्थस्य गुरुवृत्तित्वस्य बोधेऽन्ययः, जिज्ञासा चात्र धर्मविषयास्तीति जिज्ञासायां धर्मविषयकत्वस्यान्वयः, तथा च धर्मविषयकजिज्ञासाविषयकगुरुवृत्तिबोधोत्पत्त्यनुकूलव्यापारवान् शिष्य इति वाक्यार्थः । ब्रूधात्वर्थमाह-शिष्यमिति, येन शब्दप्रयोगेण शिष्यस्य धर्मविषयकज्ञानं जायेत तादृशशब्दप्रयोगो ब्रूधात्वर्थः । शिष्ये एव धर्मविषयकमेव च ज्ञानमुत्पादनीयमिति ज्ञाने धर्मएदोत्तरद्वितीयार्थस्य विषयितायाः=धर्मविषयकत्वस्यान्वयस्तथा शिष्यपदोत्तरद्वितीयार्थस्य शिष्यवृत्तित् वस्यान्वयः, तथा च धर्मविषयकशिष्यवृत्तिज्ञानोत्पत्तिप्रयोजकशब्दप्रयोगरूपव्यापारवान् गुरु
"Aho Shrutgyanam"