________________
(२४८)
सादर्श:- [द्वितीयाकारकप्रथमखण्डे-- नचैवमिच्छाविशेषरूपदानस्याश्रयत्वं कर्तृत्वमेवेति वाच्यम्, धातुजन्यप्रतिपत्तिविशेष्यीभूतदानाश्रयत्वस्यैव तत्कर्तृत्वरूपत्वात् । अत्र च दानस्य तादृशप्रतिपत्ताविच्छारूपधात्वर्थविशेषणत्वात् । 'चैत्रेण पौरवो गां याच्यते । इत्यादावप्युक्तक्रमेण चैत्रवृत्तीच्छाविषयगोकर्मकदानाश्रय इत्यन्वयबोधो बोध्यः ।
यद्यपि निरुक्तयाच्या भिवेति " दुहियाचिरुधिच्छिभिक्षिचिजाम् " इत्य त्रार्थपरभिक्ष्युपादानेनैव चरितार्थतया याचेरुपादानमनर्थकम्, तथापि याचमानः शिवं सुरान् ' इत्यादौ याचतेर्न निरुक्तभिक्षार्थकतेति तदुपादानम् । तत्र हि व्यापारजन्यत्वप्रकारकेच्छा धात्वर्थः, इच्छायां प्रधानकर्मकल्याणान्वितद्वितीयार्थविषयिताया अन्वयः, व्यापारे च सुरान्वितवृत्तित्वस्य द्वितीयार्थस्यान्वयः, तथा च सुरवृत्तिव्यापारजन्यत्वप्रकारककल्याणेच्छाश्रय इत्यन्वयबोधः ।
ननु पौरवस्योकेच्छाविशेषरूपदानाश्रयत्वाद् दानकर्तृत्वमेव स्यान्न तु दानकर्मत्वमित्याशझ्याह- न चेति, पूर्वोक्तरीत्या याचकाभीष्टेच्छाश्रयत्वं पौरवस्यास्त्येव तादृशेच्छैव च दानपदार्थ इच्छाश्रयस्य च ' इच्छति ' इत्यत्र कर्तृत्वं प्रसिद्रमेव । परिहारमाह- धातुजन्येति, धातुजन्यज्ञाने ( शाब्दबोधे : विशेष्यतया भासमानं यद् दानं तादृशदानाश्रयत्वमेव दानकर्तृत्वं भवति यथा : विप्राय गां ददाति ' इत्यत्र दाधातुजन्य ज्ञाने उक्तेच्छारूपं दानं विशेष्यतया भासते इति ताहशदानाश्रयस्यैव दानकर्तृत्वं भवति, अत्र=' पौरवं गां याचते ' इत्यत्र तु तादृशप्रतिपत्तौ-याच. धातुजन्यज्ञाने (शाब्दबोधे) विशेष्यतया भासमानेच्छारूपधात्वर्थे दानं विशेषणमेवेति तादृशविशेषगीभूतेच्छारूपदानाश्रयस्य पौरवस्य न दानकर्तृत्वं संभवतीति दानकर्मस्वमेवेत्यर्थः । कर्माख्यातमुदाहरति- चैत्रेणेति, उक्तक्रमेण= २४५ पृ०, 'दुह्यते गौः क्षीरम् ' इत्यत्रोक्तकर्मविशेध्यकबोध इवात्रापि चैत्रवृत्तीच्छाविषया या गौस्तादृशगोकर्मकदानस्याश्रयः पौरव इत्यन्वयबोधो विज्ञेय इत्यर्थः ।
यद्यपीति-- दुह्यादीनामपादानादिविशेषेर विवक्षितस्य गवादेरकथितकर्मसंज्ञाविधानार्थ यः " दुहियाचि " इत्यादिसंग्रहः कृतस्तत्र दुह्यादीनामर्थपरत्वेनैव तत्पर्यायभूतधात्वन्तरसंग्रहस्योपपनत्वाद् याचधातोमिक्षार्थकत्वेन मिक्षत्रातूपादानेनैव चरितार्थतया याचधातोहणसंभवेन यद्यपि याचेः पृथगुपादानमनर्थकमेव तथापि ' याचमानः शिवं ( कल्याणम् ) सुरान् ' इत्यत्र याचधातोभिक्षार्थकत्वाभावात् पृथगुपादानमस्ति, ' याचमानः शिवं सुरान् ' इत्यत्र याच्यमानकल्याणस्यान्नादिवद्धस्तेन सुरैर्दातुमशक्यत्वान्न याचेमिक्षार्थकत्वमित्यर्थः । अत्र शिवपदं कल्याणपरं तदेव प्रधानं कर्म सुराश्चाऽप्रधानं कर्म । अत्रत्ययाचधात्वर्थमाह- तत्रेति, याचमानपुरुवीयकल्याणविधानानुकूलो यः सुरवृत्तिव्यापारस्तादृशव्यापारजन्यत्वं कल्याणेस्तीति मुरवृत्तिव्यापारजन्यकल्याणविषयकेच्छवात्र धात्वर्थ इति धात्वर्थीभूतेच्छा व्यापारजन्यत्वप्रकारिका ज्ञेया, इच्छा कल्याणविषयास्तीति निरूपितत्वसंबन्धेन कल्याणान्वितायाः कल्याणवाचकशिवए
"Aho Shrutgyanam"