________________
याचपर्थः व्युत्पत्तिवादः।
(२४७) अथवं यद्वस्तुविषयकं दानमप्रसिद्धं तदस्तुरूपकर्मसमभिव्याहतधातघटि. तवचसः का गतिः ? इति चेत् ?, या गतिः 'गगनं दिक्षते' इत्यादिकस्थ भ्रान्तपुरुषीयगगनादिप्रकारकदर्शनेच्छाबोधकवाक्यस्य गगनविषयकत्वप्रकारक. दर्शनेच्छाबोधस्तत्रोत चेत् ?इहापि गोविषयिताप्रकारतानिरूपितस्वत्वेच्छानिष्ठविषयताशालीच्छाबोधः, तद्वाक्यस्य विशेषादर्शिमात्रविषयता च समा । विवेचनीयं चेदमग्रे । पौरवपदोत्तरद्वितीयायास्तु वृत्तिरेवार्थः, तस्याश्च दानेऽन्वयः, पौरवस्य तादृशदानाश्रयत्वमेवाऽप्रधानकर्मत्वम् ।
समवति परकीयगवादिपदार्थविषयकं तु दानमेव न संभवतीति तद्वस्तुरूपकर्मसमभिव्याहृतधातु घटितवचस:= ' परकीयां गां याचते ' इत्यादिवचनस्य का गतिः कथं वाक्यार्थबोधः स्यात्परकीयवस्तुविषयकदानेन्छाया असंभवादित्याशङ्कते- अथेति । उत्तरमाह- या गतिरिति । गगनादिप्रकारक-गगनादिविषयक । यथा गगनदर्शनासंभवेन तदिच्छाया असंभवात् — गगनं दिदृक्षते' इत्यपार्थक एव प्रयोगस्तथा 'परकीयां गां याचते' इत्यप्यऽपार्थक एव प्रयोग इत्यर्थः । ननु गमनं दिक्षते' इत्यत्र न दर्शनप्रकारत्वं गगनस्य येनासंभवः स्यात् किं तु गगनविषयकत्वस्यैव प्रकारत्वं गगनविषयकत्वं तु गगनविषयकानुमित्यादौ प्रसिद्धमेवेत्याशङ्कते- गगनेति । उत्तरमाह- इहापीति, इह परकीयां गां याचते ' इत्यत्रापि न परकीयगोर्दानेच्छाविषयत्वं येनासंभवः स्यात् किं तु गोविषयताप्रकारतानिरूपितस्वत्वेच्छानिष्ठविषयताशालीच्छाबोधो जायते तत्र स्त्रत्वेच्छानिष्ठविषयताशालीच्छा ह्युक्तरीत्या याचत्यर्थ एव यतः- 'गवि मदीयं स्वत्वमुत्पद्येत । इत्याकारा याचकाभीष्टा या पौरवेच्छा तादृशेच्छानिष्ठविषयताशालिनी तादृशेच्छानिष्पविषयितानिरूपितविषयतांवती ( तादृशेच्छाविषया )या इच्छा सा स्वोद्देश्यकदानेच्छेवेति तस्या धात्वर्थत्वं विज्ञेयम्, गोविषयिताप्रकारतानिरूपितेत्यस्य हि गोविषयकत्वप्रकारकेत्यर्थः उक्तरीत्या गोनिष्ठा या द्वितीयार्थभूता विपयिता तादृशविषयितानिष्ठप्रकारतानिरूपिता या स्वत्वेच्छानिष्ठा विषयिता तनिरूपितविषयतावतीच्छेति लब्धम् ) तथा च परकीयगोविषयकत्वमपि तद्विषयकप्रत्यक्षादौ प्रसिद्धमेवेति तस्य याचत्यर्थभूतेच्छायां प्रकारत्वं संभवतीति न काचिदनुपपत्तिः, गोविषये. कत्वप्रकारकस्वोदेश्यकदानेच्छाश्रयो विप्र इति निर्गलितः शाब्दबोधस्याकारः । अद्धा यथा "गगनं दिदृक्षते ' इतिवाक्यं विशेषदर्शी विद्वान्न प्रयुङ्क्ते तथा 'परकीयां गां याचते ' इत्यादिवाक्यमपि विशेषदर्शी न प्रयुङ्क्ते इति विशेषाऽदर्शिविषयता समा । विवेचनीयमिति- एतस्य प्रथमखण्डस्यावसाने एतद्विवेचनं द्रष्टव्यम् । पौरव गां याचते ' इत्यत्र पौरवपदोत्तरद्वितीयार्थमाह- पौरवेति, वृत्तिः आधेयत्वम् । तस्याः वृत्तः । तथा च गोविषयक पौरववृत्ति यद् दानं तादृशदानविषयकेच्छावान् विप्र इतिबोधः । गोकर्मकौरववृत्तिदानाश्रयत्वादेव पौरवस्याऽप्रधानकर्मत्वमिति ।
"Aho Shrutgyanam"