________________
( २४६ )
सादर्श:
[ द्वितीयाकारकप्रथमखण्डे
वैपरीत्यात्, व्यापारजन्यक्षरणजन्य विभागपर्यन्तस्य धातुत एव लाभ:, आश्रयत्वमेवाख्यातार्थः, एवं च क्षरणविभागयोर्न द्विधा भानम् । गौणकर्माऽसमभिव्याहते 4 दुह्यन्ते क्षीराणि ' इत्यादावात्मनेपदेन केवलेन धातुसहितेन वा विभागावच्छि: -नक्षरणाश्रयत्वरूपप्रधानकर्मत्वस्य बोधनेप्येकदोभयविधकर्मत्वबोधनस्यायु
त्पन्नतया 'दुह्यन्ते क्षीराणि गौः' इत्यादयो न प्रयोगाः ।
' पौरवं गां यावते विप्रः' इत्यादौ स्वोद्देश्यकदानेच्छा याचत्यर्थः, प्रधानकर्मगवान्वितद्वितीयार्थो विषयित्वं धात्वर्थतावच्छेदकदानेऽन्वेति । सविषयकज्ञानादिरूपविषयोपहितेच्छाबोधकधातुस्थले इच्छाविषयविषयत्वमेव प्रधानकर्मत्वम्, अत एव 'घटो जिज्ञास्यते ' इत्यादौ घटादेः सन्नन्तकर्मता ।
-
विशेषणभाव:, कर्माख्यातस्थले ' दुह्यते गौ: क्षीरम् ' इत्यादौ तेषाम् = विभागक्षरणव्यापाराणां विशेष्य विशेषणभाववैपरीत्यं भवति यथा व्यापारजन्यक्षरणजन्यविभागाश्रयो गौरिति विभागस्यैव विशेष्यत्वम्, व्यापारजन्यक्षरणजन्यविभागाश्रयो गौरित्यत्र विभागपर्यन्तस्तु धात्वर्थ एव आख्यातार्थ आश्रयत्वमात्रमेव । विभागक्षरणव्यापारेषु विशकलितशक्तिस्वीकारस्य फलमाह - एवं चेति । यत्र च ' दुह्यन्ते क्षीराणि ' इत्यादौ प्रधानकर्मवाचकक्षीरादिपदमेव भवति अप्रधानकर्मवाचकगवादिपदं च न भवति तत्र केवलेन धातुसहितेन वात्मनेपदेन क्षीरनिष्टं यद् विभागावच्छिन्न ( जनक ) क्षरणाश्रयत्वरूपं प्रधानकर्मत्वं तस्य बोधनेपि ८८ सकृत्प्रयुक्तः शब्दः सकदर्थं गमयति " इतिन्यायात् प्रधानाऽप्रधानोभयविधकर्मत्वस्यैकदा बोधनाऽसंभवात् प्रधानकर्मवाचकपदसमभिव्याहारेऽप्रधान कर्मवाचक्रगवादिपदं न प्रयुज्यत इति ' दुह्यन्ते क्षीराणि गौः ? इतिप्रयोगो न भवतीत्याह- गौणकर्मेति ।
"Aho Shrutgyanam"
""
याचधात्वर्थमाह- गौरवमिति, पौरवो मदुद्देश्यकं दानं करोत्वितीच्छेव याचत्यर्थः, तत्र प्रधानकर्मभूतगोपदार्थस्य दाननिश्रुविषयितानिरूपकत्वात् तादृशविषयित्वस्य द्वितीयार्थस्य निरूपकत्वसंबन्धेन गवान्वितस्याऽऽश्रयत्वसंवन्धेन धात्वर्थतावच्छेदके= याचधात्वर्थी भूतेच्छावच्छेदके दानेऽन्वय:- दानस्य प्रधानकर्मभूतगोपदार्थविषयकत्वात् । नन्विच्छाबोधकधात्वर्थस्थळे साक्षादिच्छाविषयस्यैव प्रधानकर्मत्वं युक्तं नत्वच्छावच्छेदकदानादिविषयस्येत्याशङ्क्याह- सवि षयकेति, सविषयको यो ज्ञानादिरूपो विषयस्तदुपहितेच्छाबोधकधातुस्थले = तद्विषयकेच्छाबोधकधातुस्थले इच्छाविषयविषयत्वमेव प्रधानकर्मत्वं भवति अत एव घटो जिज्ञास्यते ' इत्यत्र समन्तार्थेच्छाया विषयो यज्ज्ञानं तादृशज्ञानविषयत्वाद् वटस्य प्रधानं सन्नन्तकर्मत्वं तथा ' पौरवं गां याचते ' इत्यत्रापि धात्वर्थीभूतेच्छाया विषयो यद् दानं तादृशदानविषयत्वाद् गो प्रधानकर्मव्यमित्यर्थः । अत्र च स्वोद्देश्यक गोविषयकदानेच्छावान् विप्र इतिबोध: ।
ननु दानयोग्य गवादिपदार्थविषयकं दानं संभवतीति तादृशदानविषयेच्छापि याचत्यर्थः
6