________________
हकमोख्यातयोरर्थः ]
व्युत्पत्तिवादः ।
( २४५ )
¿
पयोनिष्ठविभागजनकत्वेपि न पयः पयो दोग्धि ' इति प्रयोगः । परत्वं च विभागान्वयितावच्छेदकावच्छिन्नापेक्षया बोध्यम् ।
८५
क्षीरम्' इत्यादौ क्षरणजन्यविभागाश्रयत्वरूप गवादिनिष्ठमप्रधानकर्मत्वमाख्यातार्थः- अप्रधाने दुहादीनाम् " इत्यनुशासनात् । क्षीरवृतित्वस्य धात्वर्थक्षरणे एवान्वयः, आख्यातार्थक्षरणे च धात्वर्थव्यापारान्वयः, तथा च- विभागावच्छिन्नक्षीरनिष्ठक्षरणानुकूलव्यापारजन्यक्षरणजन्य विभागाret गौरित्याकारको बोधः ।
अथ वा विभागक्षरणव्यापारेषु विशकलितेषु धातोः शक्तित्रयम्, विशिष्टलाभो - ऽन्वयबलात् । कर्माख्यातस्थले चाकाङ्क्षावैचित्र्येण तेषां विशेष्यविशेषणभाव
6
त्यासंभवात् कर्तृत्वकर्मत्वोभयासंभवाच्चेत्यर्थः । क्षरणान्वयिनः परसमवेतविभागस्य द्वितीयार्थत्वेन तदेकदेशपरसमवेतत्वस्यापि द्वितीयार्थत्वमेवेति ज्ञेयम् । परत्वमाह - परत्वं चेति, विभागस्यान्वयितावच्छेदकं यत् पयस्त्वादिकं तदवच्छिन्नं यत् पयआदि तदपेक्षया परत्वं ग्राह्यमित्यर्थः ।
कर्माख्यातान्तप्रयोगमुदाहरति- दुह्यते इति, अत्रापि विभागावच्छिन्नक्षरणानुकूलो व्यापारी दुर्थ:, क्षरणजन्यो यो विभागस्तादृशविभागाश्रयत्वरूपं गोष्टिं यदप्रधानकर्मत्वं तत् कर्माख्यातस्यार्थः, गोनिष्ठाप्रधानकर्मत्वमेवात्राख्यातार्थो न क्षीरादिनिष्ठप्रधानकर्मत्वमित्यत्र प्रमाणमाहअप्रधानेति, द्विकर्मकधातूंनां मध्ये दुहादिधातूनामप्रधानकर्मण्येव लादयः ( आख्यातप्रत्ययाः ) भवन्तीत्यर्थः, क्षीरपदोत्तरद्वितीयाया अर्थस्य वृत्तित्वस्य ( आधेयत्वस्य ) अन्वयमाह- क्षीरहतित्वस्येति, धात्वर्थ कोटिप्रविष्टं यत् क्षरणं तत् क्षीरे वर्तते इति क्षीरवृत्तित्वं धात्वर्थक्षरणेऽन्वेति उक्ताख्यातार्थ कोटिप्रविष्टं च यत् क्षरणं तादृशक्षरणे एव जन्यत्वसंबन्धेन धात्वर्थव्यापारस्यान्वयः - उक्तक्षरणस्य उक्तव्यापारजन्यत्वात् एवं च ' दुह्यते गौः क्षीरम् ' इत्यस्य परिनिष्पन बाक्यार्थबोधस्वरूपमाह - तथा चेति, विभागावच्छिन्नम् = विभागजनकं यत् क्षीरनिष्ठं क्षरणं तादृशक्षरणानुकूलः = क्षरणजनको यो व्यापारस्तादृशव्यापारजन्यं यत् क्षरणं तादृशक्षरणजन्यो मौ विभागस्तादृशविभागाश्रयो गौरितिबोधः - कर्माख्यातस्य कर्मवाचकत्वेन कर्मविशेष्यकबोधस्यैव कर्माख्यातस्थळे इष्टत्वादित्यर्थः ।
7
उक्तरीत्या-" विभागावच्छिन्नक्षीरनिष्ठक्षरणानुकूलव्यापारजन्यक्षरणजन्य विभागाश्रयो गौः " इत्यत्र क्षरणविभागयोर्द्वधा मानेन गौरवमसहमान: पक्षान्तरमाह - अथ वेति, दुहधातोर्विभागे क्षरणे व्यापारे च पृथक् पृथगेव खण्डशः शक्तित्रयम्, विशिष्टलाभः = विभागावच्छिन्नक्षरणानुकूलव्यापार इत्येवं विशेष्यविशेषणमावेन विशिष्टप्रतीतिस्त्वन्वयबलात्= भाकाङ्क्षाबलाज्जायतेपादृश्याऽऽकाङ्क्षा भवति तादृश एवं विशेष्य विशेषणभावोपि भवतीत्यर्थः । तथा च करुया. तस्थळे व्यापाराश्रयस्य कर्तुरेव प्राधान्याद् विभागावच्छिन्नचरणानुकूलव्यापारवान् इत्येवं विशेष्य
"Aho Shrutgyanam"