________________
(२४४)
सादर्श:- द्वितीयाकारकप्रथमखण्डे-- रूपत्वात् । यत्र च क्षरणानुकूलव्यापारमात्रं धात्वर्थतमा विवक्षितं क्षरणान्वयिविभागश्च विभत्तयर्थतया तत्राऽपादानत्वबोधिका पञ्चमी । एतेन कदाचित् — गां दोग्धि पयः' कदाचिच्च 'गोभ्यो दोग्धि पयः' इत्यत्र नाऽनियमः। __ अथ वा 'गोभ्यो दोग्धि पयः' इत्यत्रापि विभागो धात्वर्थतावच्छेदककोटिप्रविष्ट एव' वृक्षादिभजते' इत्यत्रेवाऽवधित्वरूपाऽपादानत्वविवक्षायां पञ्चमी, आश्रयत्वविवक्षायां च द्वितीया । अवधित्वं चाश्रयत्वादन्यदेव स्वरूपसंबन्धविशेषः । अत्र क्षरणान्वयिनः परसमवेतत्वस्य द्वितीयार्थत्वात् पयोनिष्ठक्षरणस्य साक्षात् व्यापारे विशेषणत्वं किं तु व्यापारविशेषणीभूतक्षरणविशेषणत्वमिति न गोः प्रधानकर्मत्वं किं तु पयस एवेत्यर्थः । ननु कदाचित् 'गां दोग्धि पयः' इतिप्रयोगो भवति कदाचित् 'गोभ्यो दोग्धि पयः । इतिप्रयोगो भवति तत्र किं नियामकमित्याशङ्क्याह- यत्र चेति, तथा चोक्तरीत्या यत्र विभागावच्छिन्नक्षरणानुकूलव्यापारो दुर्थो विवक्षितोः गोपदोत्तरद्वितीयार्थश्च विभागान्वयि आधेयत्वं तत्र पञ्चम्या आधेयत्वबोधकत्वासंभवाद् तद्बोधिका गोपदाद् द्वितीया भवति यथा — गां पयो दोन्धि ' इति । यत्र च क्षरणानुकूलव्यापारमात्रं धात्वर्थः क्षरणान्वयिविभागश्च गोपदोत्तरविभक्त्यर्थो विवक्षितस्तत्र द्वितीयाया विभागरूपापादानत्वबोधकत्वासंभवात् तद्बोधिका गोपदात् पञ्चमी भवति यथा 'गोभ्यो दोग्धि पयः' इतीत्यर्थः । उपसंहरन् स्वाभिप्रायं प्रकटयति- एतेनेति, उक्त विवक्षाया एव प्रयोगभेदनियामकत्वादित्यर्थः।। __ पक्षान्तरमाह- अथ वेति, गोभ्यो दोग्धि पयः' इत्यत्रापि न क्षरणानुकूलव्यापारमात्रं धात्वर्थः किं तु विभागावच्छिन्नक्षरणानुकूलव्यापार एव धात्वर्थः, तथा च यथा ' वृक्षाद् विमजते ' इत्यत्र वृक्षस्यावधित्वरूपाऽपादानत्वाद् वृक्षपदात् पञ्चमी भवति तथा गोरवधित्वरूपाउपादानत्वविवक्षायां गोपदात् पञ्चमी भवति 'गोम्यो दोग्धि पयः । इति, गोविभागाश्रयत्वविवक्षायां गोपदाद् द्वितीया भवति- 'गां पयो दोग्धि ' इति विवेक इत्यर्थः । नन्ववधित्वं हि विभागाश्रयत्वमेवेति विभागाश्रयत्वविवक्षायां गोपदाद् द्वितीया अवधित्वरूपाइपादानत्यविवक्षायां पञ्चमीति मेदः कथमुपपद्यतेत्याशझ्याश्रयत्वापेक्षयाऽवधित्वस्य विशेषस्वरूपमाह- अवधित्वं चेति, पञ्चम्या बोध्यमानस्वरूपमेवावधित्वमिति यावत् । यथा 'ग्रामं गच्छति चैत्रः' इत्यत्र क्रियाजन्यसंयोगरूपफलस्य ग्रामे इव चैत्रेपि सत्त्वेन चैत्रस्य क्रियाजन्यफलशालित्वेपि ' चैत्रश्चैत्र गच्छति' इति प्रयोगो न भवति किं तु — ग्राम गच्छति । इत्येव प्रयोगो भवति तत्कस्य हेतोः परसमवेतक्रियाफलशालित्वस्यैव कर्मत्वनियमात् चैत्रस्य च चैत्रापेक्षया परत्वाऽभावात् तथा पयोनिष्ठक्षरणजन्यविभागरूपफलस्य गवीय पयस्यपि सत्त्वेन पयोनिष्ठक्षरणस्य गोनिष्टविभागजनकत्वमिव पयोनिष्ठविभागजनकत्वमपि यद्यप्यस्ति तथापि ' पयः पयोः दोग्धि ' इति प्रयोगो न भवति तत्कस्य हेतोः? परसमवेतक्रियाफलशालिस्वस्यैव कर्मत्वनियमात्-अत्र च पयसः भूयोपेक्षया परत्वाभावात् पयोनिष्टक्षरणक्रियाजन्यविभागाश्रयस्य पयस एवं प्रधानाप्रधानोभयक
"Aho Shrutgyanam"