________________
दुहधातुस्थलीयद्वितीयार्थ : ]
व्युत्पत्तिवादः ।
( २४३ )
निष्टक्षरणानुकूलव्यापारकर्ता मैत्र इति 'गां पयों दोग्धि मैत्रः ' इति वा क्याधीनो बोधः ।
न च विभागोऽपादानत्वमेवेति तद्विवक्षायां द्वितीयाऽनवकाशेति वाच्यम्, धातुवृत्तिग्रहविशेष्यान्वयिनो विभागस्यैवापादानत्वरूपत्वात्, पतति' इत्यादी स्पन्दरूपविशेष्यांशे एव पञ्चम्यर्थविभागान्वयात् ।
वृक्षात् पर्ण
११
वस्तुतस्तु विभागावच्छिन्नक्षरणानुकूलो व्यापारो दुह्यर्थः, गोपदोत्तरद्वितीयार्थश्च विभागान्वयिनी वृत्तिरेव । न चैवं धात्वर्थतावच्छेदकफलशालित्वरूपं कर्मत्वमेवात्रापि प्रतीयते इति न " अकथितं च इत्यस्य विषय इतिवाच्यम् धात्वर्थतावच्छेदकत्वस्य धातुवृत्तिग्रह विशेष्यांशे साक्षाद्विशेषणत्वएवं हि 'गां पयो दोग्धि मैत्र: ' इत्यस्य संपन्नं वाक्यार्थबोधस्वरूपमाह - गोनिष्ठेति, गोनिष्ठो यो गोक्षीरयोर्विभागस्तादृशविभागजनकं यत् पयोनिटं क्षरणं तादृशक्षरण जनकव्यापारकर्ता मैत्र इति वाक्यार्थबोध: ।
८८
गां पयो दोग्धि ' इत्यत्र विभागाश्रयत्वं गोरुक्तं विभागश्चापादानत्वमेव अपादानत्वाश्रयवाचकपदाच अपादाने पञ्चमी " इतिसूत्रेण पञ्चमी भवति न द्वितीयेति गाम्' इति कथं स्यादित्याशङ्क्याह-न चेति । परिहारमाह- धात्विति, धातुवृत्तिज्ञाने यो विशेष्यतया भासते व्यापारस्तदन्वयी यो विभागः स एव ( व्यापारान्वितविभाग एव ) अपादानरूपो भवति यथा ' वृक्षात्पर्ण पतति ' इत्यत्र विशेष्यभूतो यः पतनरूपो व्यापारस्तत्रैव जनकत्वसंबन्धेन पञ्चम्यर्थभूतविभागस्यान्वयोस्तीति तादृशविभागाश्रयवाचकवृक्षपदात् पञ्चमी जाता । यस्तु विभागो व्यापारान्वयी न भवति किं तु धात्वर्थतावच्छेदकान्वयी भवति सोऽपादानत्वरूपो न भवति ' गां दोग्धि ' इत्यत्र च विभागो धात्वर्थतावच्छेदकक्षरणान्वय्येव न धात्वर्थभूतव्यापारान्वयीति नाऽपादानत्वरूप इति न गोपदाद् द्वितीयानुपपत्तिरित्यर्थः ।
L
"Aho Shrutgyanam"
ू
स्वमतमाह-- वस्तुतस्त्विति, गोक्षीरयोर्विभागजनकं यत् क्षरणं तादृशक्षरणजनकव्यापारो दुधात्वर्थ इति विभागोपि धात्वर्थकोटिप्रविष्ट एव न गोपदोत्तरद्वितीयार्थः, गोपदोत्तरद्वितीयास्तु विभागान्वयि आधेयत्वमेव, विभागस्य गोवृत्तित्वादाधेयत्व संबन्धेन विभागे गोर्वर्तमानस्वात् । वाक्यार्थबोधस्तु पूर्ववदेव । ननु धात्वर्थतावच्छेदकफलशालित्वमेव प्रधानकर्मत्वमस्ति
गां पयो दोग्धि ? इत्यत्र गोरपि धात्वर्थतावच्छेदकीभूतं यद् विभागरूपं फलं तादृशविभागाश्रयत्वात् प्रधानकर्मत्वमेव प्राप्तमिति " अकथित च" इत्यनेनाऽप्रधानकर्मत्वं कथमुच्यते इत्याशङ्क्याह-न चेति । अत्रैवकारो भिन्नक्रमः - " धावर्थतावच्छेदक फलशालित्वरूपमेव कर्मलम् इत्यन्वयः । अत्र=' गां पयो दोग्धि ' इत्यत्र । परिहारमाह - धात्वर्थतेति धात्वर्थतावच्छेदकफलशालित्वं प्रधानकर्मत्वमित्यत्र धातुपदशक्तिज्ञाने विशेष्यतया भासमानव्यापारे यत् साक्षाद्विशेषणं तदेव धात्वर्थतावच्छेदकं ग्राह्यम्, ' गां पयो दोग्धि ' इत्यत्र च गधाश्रितविभागस्य क
55