________________
(२४२)
सादर्श:- [ द्वितीयाकारकप्रथमखण्डेच" इतिसूत्रेणाऽपादानत्वादिभिन्नधातुप्रतिपाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि कर्मसंज्ञाऽभिधानात् । 'गवां पयो दोग्धि ' इत्यादौ धातुप्रतिपाद्यान्वयिगवादिसंबन्धो न विवक्षितः, अपि तु क्षीराद्यन्वयी स इति कर्मत्वाऽविवक्षया द्वितीयानवकाशः किं तु शैषिकी षष्ठयेवेति ।। ___ अत्र धातुप्रतिपाद्यत्वं तदर्थतावच्छेदककोटिप्रविष्टसाधारणम्-'गां दोग्धि' इत्यादौ धात्वर्थतावच्छेदककोटिप्रविष्टे एव द्वितीयान्वयात्, तथा हि-क्षरणानुकूलव्यापारो दुहेरर्थः, द्वितीयार्थश्च जनकत्वसंबन्धेन क्षरणान्वयी विभागा, विभागे चाधेयतया प्रकृत्यर्थगवादेरन्वयः, एवं च धात्वर्थतावच्छेदकक्षरणरूपफले प्रधानकर्मक्षीराद्यन्वितद्वितीयार्थवृत्त्यऽन्वय इति गोनिष्ठविभागानुकूलपयोगो फर्मत्वं ज्ञेयम्, स च विभागोऽपादानस्वादिभिन्न एवास्ति विभागस्य क्षरणे तु जनकत्वसंबन्धेनान्वयो ज्ञेयः पयोविभागस्य क्षरणजन्यत्वात् क्षरणजन्यपयोविभागश्च गत्रि समवायेन ज्ञेयः दोहनेन गोक्षीरयोविभागस्य जायमानत्वात् । तादृशविभागाश्रयत्वेन गोः कर्मत्वात्तद्वाचकपदादत्र द्वितीया जाता । ' गवां पयो दोग्धि ' इत्यत्र तु धातुप्रतिपाद्यं यत् क्षरण तादृशक्षरणान्वयिना विभागेन सह गोः संबन्धो न विवक्षितो येन तादृशविभागाश्रयत्वेन गोः कर्मत्वं स्थासद्वाचकगोपदाचात्र द्वितीया स्यात, किं तु सः धातुप्रतिपाद्यान्वयिधर्मो विभागः क्षीराबयी एव-क्षरणजन्यविमागस्य क्षीरे एवान्वयो विवक्षित इति क्षीरस्यैव कर्मत्वं क्षीरवाचकपय:पदादेव च द्वितीया जाता, तादृशविभागस्य गव्यन्वयाऽविवक्षणेन गोः कर्मत्वाविवक्षया न गोपदाद् द्वितीयापत्तिः किं तु षष्ठयेव जातेत्याह- गवामिति ।
धातुप्रतिपाद्यान्वयिधर्मान्तरेतिवाक्यार्थ स्पष्टयति-अत्रेति । तदर्थता धात्वर्थता । यद्यपि धातुपतिपाद्यत्वं प्राधान्येन व्यापारस्यैव भवति न धात्वर्थतावच्छेदकस्य क्षरणादेस्तथापि 'गाँ दोग्धि पयः' इत्यादौ धात्वर्थतावच्छेदके क्षरणे द्वितीयार्थविभागस्यान्थयो भवतीत्यत्र धातुप्रतिपाद्यत्वं यथा भात्वर्थस्य व्यापारस्य तथा धात्वर्थतावच्छेदकस्य क्षरणादेरपि धातुप्रतिपाद्यत्वं ज्ञेयम्, अन्यथा क्षरणस्य धातुप्रतिपाद्यत्वामावे क्षरणान्वषी यो विभागस्तदाश्रयस्य गोरुक्तरीत्या कर्मत्वं न स्यात्। धात्वर्थतावच्छेदककोटिप्रविष्टसाधारणधातुप्रतिपाद्यत्वग्रहणस्य फलमाह-गामित्यादिना । धात्वर्थतावच्छेदककोटिप्रविष्टे-क्षरणे एव गोपदोत्तरद्वितीयार्थस्य विभागस्य जनकत्वसंबन्धेनान्वयः उपपादयति-तथा हीति । क्षरणानुकूलव्यापारस-क्षीरनिष्ठं यत् क्षरणं तदनुकूलस्तजनको व्यापारः । क्षरणजन्यो यो गोक्षीरयोविभागः स जनकत्वसंबन्धेन क्षरणे वर्तते स एव विभागो गोपदोत्तरद्वितीयाविभक्त्यर्थः, तादृशविभागे चाधेयतया प्रकृत्यर्थस्य गोपदार्थस्यान्वयः स विभागो गवि वर्तते इति गौराधेयतासंबन्धेन विभागे वर्तते इत्यर्थः । पयःपदोत्तरद्वितीयार्थ तदन्वयं चाह-एवं चेति, प्रधानकर्म यत् क्षीरं तदन्वितद्वितीयार्थवृत्तेः-वृत्तित्वस्य (भाधयत्वस्य ) धात्वर्थतावच्छदकक्षरणरूपकलेऽन्वयो भवति-क्षरणस्य क्षीरवृत्तित्वात्तादृशक्षरणे आधेयतासंबन्धेन क्षीरं वर्तते इत्यर्थः ।
"Aho Shrutgyanam"