________________
द्विकर्मकधातुस्थलीयद्वितीयार्थः] व्युत्पत्तिवादः ।
(२४१) दनादिपदस्य तनिष्पादकतण्डुलादौ लक्षणा । अवयविनि पाकानभ्युपगमे च 'तण्डुलं पचति' इत्यादौ तण्डुलादिपदस्य तदारम्भकपरमाणुषु लक्षणा । . 'ओदनं भुङ्क्ते ' इत्यादौ गलाधोनयनं धात्वर्थः, तच्च गलाधःसंयोगावच्छि नक्रियानुकूलव्यापारः, तादृशक्रियारूपफले एव ओदनवृत्तित्वान्वयः । उक्तयुक्त्या गलाघोदेशस्य न कर्मत्वम् । एवमन्यसकर्मकधातूनामप्यर्थाः स्वयमूह्याः ।
'गां दोग्धि पयः' इत्यादौ द्विकर्मकधातुसमभिव्याहृतगवादिपदोत्तरद्वितीया क्रियाजन्यफलशालित्वादन्यदेव कर्मत्वं बोधयति । कारकाधिकारीयेण अकथितं पदार्थबोधकमेवेत्यर्थः । तन्निष्पादक=ओदननिष्पादक । ननु वैशेषिकैस्त्ववयवेष्वेव पाक उच्यते इत्यऽवयविनि तण्डुले पाकासंभवात् 'तण्डुलं पचति । इत्यपि प्रयोगः कथं स्यादित्याशङ्कयाहअवयविनीति । तत्र तण्डुलपदं लक्षणावृत्त्या तण्डुलावयवबोधकमेव विज्ञेयमित्यर्थः । तदारम्भकतण्डुलारम्भक । __ भुजधात्वर्थमाह- ओदनमिति, गलाधोनयन ( प्रापण ) मेव भुजधात्वर्थः । ननु गलाधोनयनं हि गलाधःसंयोगावच्छिन्नव्यापार एव तत्र धात्वर्थतावच्छेदकसंयोगस्य गलाधोदेशेनाव. च्छिन्नत्वादाश्रयावच्छिन्नफलावच्छिन्नव्यापारबोधकत्वात् पतधातोरिव भुजधातोरपि सकर्मकत्वं न स्यादित्याशक्य गलाधोनयनपदार्थ परिष्करोति-तचेति, तत्-गलाधोनयनं हि गलाधःसंयोगावच्छिन्ना-गलाधःसंयोगजनिका या प्रासनिष्ठा क्रिया तादृशक्रियानुकूलः ( जनकः ) भोजनकर्तृनिष्ठो व्यापार एव तथा च धात्वर्थतावच्छेदकतावच्छेदकस्य संयोगस्य गलाधोदेशरूपाश्रयेणावच्छिन्नत्वेपि धात्वर्थतावच्छेदिकाया प्रासनिष्ठक्रियायास्त्वाऽऽश्रयावच्छिन्नत्वं नास्त्येवेति न सकर्मकत्वानुपपत्तिः । तादृशक्रियारूपफले एवौदनवृत्तित्वस्य द्वितीयार्थस्यान्वयः । तादृशक्रियारूपफलाश्रयत्वादेवौदनस्य कर्मत्वम् । गलाधोदेशस्य चात्रोक्तयुक्त्या=(२३४पृ.)" आश्रयानवच्छिन्नावच्छेदकताश्रयफलवत्वविरहात्" इत्याधुक्तयुक्त्या न कर्मत्वम्, अर्थात् गलाधोदेशाश्रितसंयोगस्य गलाधोदेशरूपाश्रयेणावच्छिन्नत्वात् तादृशाश्रयावच्छिन्नसंयोगरूपफलाश्रयत्वादेव गलाधोदेशस्य नात्र कर्मत्वम्-आश्रयविशेषानवच्छिन्नफलाश्रयस्यैव कर्मत्वनियमादिति । उपसंहरति-एवमिति ।
द्विकर्मधातूनामर्थ वक्तुमुपक्रमते-गामित्यादिना । अत्र क्षरणानुकूलव्यापारो दुधात्वर्थो विज्ञेयः । एककर्मकधातुसमभिव्याहारस्थले तु क्रियाजन्यफलशालित्वमेव कर्मत्वं द्वितीयया बोच्यते द्विकर्मधातुसमभिव्याहारस्थले — गां पयो दोन्धि ' इत्यादावपि प्रधानकर्मणः - क्षीरादेस्तु क्रियाजन्यफलशालित्वरूपमेव कर्मत्वं यथात्र क्षरणरूपफलाश्रयत्वम्, अप्रधानकर्मणो भगवादेस्तु “अकथितं च" इतिसूत्रप्रतिपाद्यं क्रियाजन्यफलशालिस्वादन्यदेव कर्मत्वं भवतीत्यर्थः । स्वाभिप्रायं प्रकटयति-कारकेति, यथा 'गां दोग्धि पयः । इत्यत्र धातुप्रतिपाद्यं यत् क्षरणं तादृशक्षरणान्वयि (क्षरणजन्य ) धर्मान्तरो विभाग एव तादृशविभागावच्छिन्नस्य ( आश्रयस्य )
"Aho Shrutgyanam"