________________
प्रसङ्गेनाऽभावविचारः] व्युत्पत्तिवादः।
(२९७) घटत्वाद्यवच्छिन्नवव्याद्यभावनिष्ठेन वयादिनिरूपितानुयोगिताविशेषरूपवयाद्यभावत्वेन तदभावनिष्ठघटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्याऽवच्छेद्यावच्छेदकभावः स्वीक्रियते । 'घटत्वेन वह्निनास्ति' इत्यादौ च तद्बोधस्योक्तरीत्या वश्यकत्वमिति घटत्वावच्छिन्नवहयाद्यभावस्य वद्वित्वावच्छिन्नघटाद्यभावसमनि: यतत्वेन तदभिन्नतया तत्र घटत्वाधवच्छिन्नप्रतियोगिताकत्वघटाद्यभावत्वसत्त्वेपि ताशाभावपरस्य घटत्वेन घटो नास्ति' वह्नित्वेन वह्निनास्ति' इत्यादिवाक्यस्य न प्रामाण्यम् ।
उक्तस्थलेषु तृतीयान्ताद्यर्थस्य द्वितीयान्ताद्यर्थेऽवच्छेद्यावच्छेदकभावसंबन्धेना. ज्यते तदा तस्य प्रामाण्यं न भवतीत्यर्थः । एवमेव ' वह्निमत्त्वेन पर्वतमनुमिनोमि' इत्यत्रामुमितो भासमानयोः पर्वतोद्देश्यकत्ववहिविधेयकत्वयोः परस्परमवच्छेद्यावच्छेदकभावो विज्ञेयः ।
'घटत्वेन वह्निर्नास्ति ' इत्यत्रत्यावच्छेद्यावच्छेदकभावमाह- घटत्वाद्यवच्छिन्नेति, घटत्वाधवच्छिन्नवह्नयाद्यभावः घटत्वावच्छिन्नप्रतियोगिताकवह्नयभावस्तस्मिन् स्वप्रतियोगिकत्वसंबन्धेन वहितते इति वहिनिरूपितानुयोगिता वह्नयभावे प्राप्ता सा चानुयोगिता वह्नयभावत्वस्वरूपैवास्तीति वह्निनिरूपियोगिताविशेषरूपं यद् वयभावत्वं तथा तदभावनिष्ठम् वह्नयभावनिष्ठं यद् बटत्वावच्छिन्नप्रतियोगिताकत्वं च तयोः परस्परमवच्छेद्यावच्छेदकभावः स्वीक्रियते, तथा च 'घटत्वेन वहिर्नास्ति' इत्यत्र तद्बोधस्य-उक्तावच्छेद्यावच्छेदकभावपुरस्सरशान्दबोधस्यावश्यकत्वम् व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकाभावस्य केवलान्वयित्वाद् यत्र घटत्वावच्छिन्नप्रतियोगिताकवह्न - भावो वर्तते तत्र वह्नित्वावच्छिन्नप्रतियोगिताकघटाभावोपि वर्तत एवेति तयोः समनियतत्वेनाऽमिनत्वात् तत्र-तादृशाभावे यद्यपि घटत्वावच्छिन्नप्रतियोगिताकत्वं घटाभावत्वं च वर्तते एव तथा ब्रहित्वावच्छिन्न प्रतियोगिताकत्वं वयभावत्वं च वर्तत एव तथापि तादृशाभावपरस्य उक्तव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावपरत्वेन ' घटत्वेन घटो नास्ति''वहित्वेन वह्निर्नास्ति' इत्यादिवाक्यस्य प्रामाण्यं न भवति विभिन्न विषयत्वात्, यतः- उक्तव्यधिकरणधर्मावच्छिन्नवलपभावस्थले वह्नयभावत्वघटत्वावच्छिन्नप्रतियोगिताकत्वयोरवच्छेद्यावच्छेदकभावः प्रतीयते 'घटत्वेन घटो नास्ति ' इत्यत्र तु घटाभावत्वघटत्वावच्छिन्नप्रतियोगिताकत्वयोः 'वह्नित्वेन वहिर्नास्ति' इत्यत्र च वयभावत्ववह्नित्वावच्छिन्नप्रतियोगिताकत्वयोरवच्छेयावच्छेदकभावः प्रतीयते इत्यर्थः । तथा च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावपरस्य 'घटत्वेन घटो नास्ति । इत्यादिकाक्यस्य प्रामाण्यपरिहाराय ' असल्यमा पहिर्गस्ति इमारतोषपसमा धस्यावश्यकत्वमित्यन्वयः, अन्यथा 'घटत्वेन घटो नास्ति ' इत्यादिवाक्यस्याप्युक्तत्यधिकरगधर्मावच्छिन्नप्रतियोगिताकाभावविषयकशान्दबोधं प्रति प्रामाण्यापत्तिः स्यादेव । __परिहाराय प्राचीनकदेशिमतमनुवदति- उक्तस्थलेष्विति, यथा ' रजतत्वेन शुक्तिं जानाति । इत्यत्र तृतीयान्तार्थस्य-रजतत्वप्रकारकत्वस्य निमियान्तार्थे- शुक्तिविशेयको भलेल्या
"Aho Shrutgyanam"