________________
(२९८)
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डेन्वय इत्यपि केचित्, तन्न-विभक्त्यर्थे विभक्त्यर्थान्वयस्याव्युत्पन्नत्वात् । न च 'रजतत्वेनेदं ज्ञायते' इत्यादावाऽऽख्यातार्थविषयतायां तृतीयान्तार्थप्रकारताया निरूपितत्वसंबन्धेनाऽन्वयानोक्तव्युत्पत्तिकल्पनमिति वाच्यम्, तत्र रजतत्वादि. प्रकारकत्वविशिष्टधात्वर्थज्ञाननिरूपितत्वस्याख्यातार्थे भानस्वीकारेणैवातिप्रस.
न च तस्मात् पचति ' 'तस्मात् चैत्रस्य ' इत्यादी विभक्त्यर्थं कृतिसंब. न्धादौ हेतुविभक्त्यर्थान्वयदर्शानान्नास्त्युक्ताव्युत्पत्तिरिति वाच्यम्, हेतुविभक्त्य: तिरिक्तविभक्त्यर्थस्य विभक्त्यर्थानन्वयनियमात् ।। कमावसंबन्धेनान्वय उभयोरपि ज्ञानस्थत्वेन समानाधिकरणत्वात्तथा च रजतस्वप्रकारकत्वावच्छिन्न मत् अक्तिविशेष्यकत्वं तद्विशिष्टज्ञानाश्रयश्चैत्र इति बोधः । एवम् ' वह्निमत्त्वेन पर्वतमनुमिनोमि । इत्यत्र वह्निविधेयकत्वस्य पर्वतोद्देश्यकत्वेऽन्वय इत्यर्थः । परिहरति- सन्नेति, विभक्त्यर्थस्य विभक्त्यर्थेऽन्वयो न भवतीति तृतीयान्तार्थस्य रजतत्वप्रकारकत्वादेः द्वितीयान्तार्थे शुक्तिविशेष्यकवादावन्धयो न संमवतीत्यर्थः । यथा प्राचीनमते स्वस्वामिभावः संबन्धस्तथात्रावच्छेद्यावन्छेदकभावस्य संबन्धत्वमुक्तम् । ननु ' रजतत्वेनेदं ज्ञायते ' इत्यत्र रजतत्वप्रकारतानिरूपित. ज्ञानीयविशेष्यता ( विषयता ) वदिदमिति बोधोदयादाख्यातार्थभूतायां विषयतायाम् विशेष्यतारूप विषयतायां निरूपितत्वसंबन्धेन तृतीयान्तार्थप्रकारताया: रजतत्वप्रकारताया अन्वयो भवति तत्राख्यातस्यापि विभक्तित्वेन विभक्त्यर्थे एव विभक्त्यर्थस्यान्वयो भवतीति उक्तव्युत्पत्तिकल्पनम् = विभक्त्यर्थस्य विभक्त्यर्थेऽन्वयो न भवतीति नियमकल्पनं न संभक्तीत्याशङ्क्याह- न चेति, परिहारमाह- तत्रेति, तत्र ' रजतत्वेनेदं ज्ञायते । इत्यत्र रंजतत्वप्रकारकत्वस्य तृतीयान्तार्थस्याऽऽख्यातरूपविभक्त्यर्थेऽन्वयो न भवति किं तु धात्वर्थज्ञाने. तादृशविशिष्टज्ञाननिरूपितत्वमेवाख्यातार्थविषयतायां भासते इति विभक्त्यर्थस्य विभक्त्यर्थेऽन्वयरूपातिप्रसङ्गस्यापत्तिर्नास्तीत्यर्थस्तथा च रजतत्वप्रकारकज्ञाननिरूपितविशेष्यतावदिदमित्यत्र शाब्दबोधः । - ननु ' तस्मात् पचति । इत्यस्य यस्मात् क्षुधितस्तस्मात् पचतीत्यर्थस्तथा च क्षुद्धेतुका पाकानुकूला कृतिरिति शाब्दबोधोदयाद् हेत्वर्थकपञ्चमीविभक्त्यर्थस्य हेतुकत्वस्याऽऽख्यातरूपविभक्त्यर्थे कृतावन्वयो दृश्यते ( आश्रयतासंबन्धेन तथा 'तस्माच्चैत्रस्य ' इत्यस्य यस्माच्चैत्रेण क्रीतं गृहीतं वा तस्माच्चैत्रस्येत्यर्थस्तथा चात्र क्रयादिहेतुकं चैत्रस्वत्वमितिबोधोदयात् पञ्चम्यर्थस्य हेतुकत्वस्य षष्ठ्यर्थ स्वत्वेऽन्वयो दृश्यते इति उक्ता व्युत्पत्ति विभक्त्यर्थस्य विभक्त्यर्थेन्वयो न भवतीति नियमो नास्तीत्याशङ्क्याह-न चेति । परिहारमाह-हेतुविभक्तीति, हेत्वर्थकविभक्त्यर्थस्य तूक्तरीत्या विभक्त्यन्तरार्थेऽन्वयो भवत्येवेति हेतुविभक्त्यतिरिक्तविभक्त्यर्थस्य विभक्त्यऽर्थेऽन्वयो न भवतीति नियमोस्तीति तृतीयान्तार्थरजतत्वप्रकारकत्वस्य द्वितीयान्तार्थशुक्तिविशेष्यकत्वे नान्वयः संभवतीत्यर्थः ।
"Aho Shrutgyanam"