________________
विभक्त्यर्थान्वयविचारः
व्युत्पत्तिवादः ।
( २९९
न च ' रजतत्वेनेदं जानाति ' इत्यादौ तृतीयायाः कारकविभक्तित्वाभावान्न तदर्थस्य क्रियायामन्वयसंभव इत्यगत्या द्वितीयार्थे एव तदन्वय उपगन्तव्य इतिवाच्यम्, मणिकारमते ' तस्माज्जानाति ' इत्यादौ ज्ञानादिरूपधात्वर्थे एव हेतुविभक्त्यर्थस्य. ' तस्मात् स्थीयते ' इत्यादौ च सर्वमत एव धात्वर्थस्थित्पादों ब्रस्यान्वयेन षष्ठ्यर्थसंबन्धस्यापि " गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक स्वभेषजैः " इत्यादौ धात्वर्थेऽन्वयेन कर्मासमभिव्याहते ' रजतत्वेन जानाति १ इत्यादौ धात्वर्थे तृतीयार्थान्वयस्यावश्यकत्वेन कारकविभक्तिभिन्नविभक्त्यर्थस्य क्रियायामनन्वय इत्यनियमात्
ननु यदुक्तम् ' रजतत्वेनेदं जानाति ज्ञायते ' इत्यादौ तृतीयान्तार्थरजतत्वप्रकारकत्वस्य धात्वर्थज्ञानेऽन्वयो न त्वाख्यातार्थविषयतायां वा द्वितीयार्थविषयतायां वान्वय इति तन्न युक्त त्रिभक्त्यर्थस्यैव धात्वर्थेऽन्वयनियमात् ' रजतत्वेन इतीत्थंभूतलक्षणतृतीयायाश्च कारकविभक्तित्वाभावान्न तदर्थस्य = रजतत्वप्रकारकत्वस्य धात्वर्थेऽन्वयः संभवतीत्यगत्या द्वितीयार्थे= द्वितीयार्थविषयतायामेव तदन्वयः = तृतीयार्थरजतत्वप्रकारकत्वस्यान्वयः स्वीकार्य इत्याशङ्क्याह-न चेति । परिहारमाह- मणिकारेति, तस्माज्जानाति । इत्यस्य यस्मादधीतं दृष्टं वा तस्म जानातीत्यर्थस्तथा चाऽध्ययनदर्शनादिहेतुकज्ञानवानिति बोधोदयादत्र हेतुविभक्तेः कारकविभक्ति, वाभावेपि तदर्थस्य हेतुकत्वस्य धात्वर्थीभूतज्ञानरूपक्रियायामेव मणिकारमतेऽन्वयो भवतिएवम् ' तस्मात् स्थीयते ( यस्मादाहानं कृतं तस्मात् स्थीयते ) इत्यत्र च सर्वमते एव धात्वर्थस्थितौ तस्य = हेतुविभक्त्यर्थस्य हेतुकत्वस्यान्वयो भवति, एवम् "" गुरुविप्र " इत्यत्र भिषक् गुर्वादिसंबन्धिनीं प्रतिक्रियाम् ( चिकित्साम् ) स्वभेषजैः कुर्यादितिबोधोदयादऽकारकविभक्तिष्टया अर्थस्य गुर्वादिसंबन्धित्वस्य धात्वर्थप्रतिक्रियायामेवान्वयो भवति, कर्मासमभिव्याहृते इदमित्यादिकर्मवाचकपदसमभिव्याहाररहिते ' रजतत्वेन जानाति ' इत्यादौ च तृतीयान्तार्थस्य रजतत्वादिप्रकारकत्वस्य धात्वर्थे एवान्वयोऽवश्यं स्वीकार्य :- अन्यत्रान्वयासंभवाद् न चात्र द्वितीयाविभक्तिरस्ति येन तदुपस्थितार्थे तृतीयार्थस्यान्वयः स्यादिति कारकविभक्तिभिन्नविभक्त्यर्थस्य धात्वर्थक्रियायामन्वयो न भवतीति नियमो न संभवति- उक्तोदाहरणेषु कार - कविभक्तिभिन्नषष्ठीपञ्चम्यादिविभक्त्यर्थस्य धात्वर्थेऽन्वयस्य प्रदर्शितत्वात् किं तु कारकविभक्तेः क्रियायामेवान्ययो भवतीत्ययमेव नियम इति रजतत्वेनेदं जानाति ' इत्यत्रापि तृतीयार्थस्य जतत्वप्रकारकत्वस्य धात्वर्थज्ञाने एवान्वयो न तु द्वितीयार्थशुक्तिविशेष्यकत्वे इति हेतुविभक्त्य - तिरिक्तविभक्त्यर्थस्य विभक्त्यर्थेऽन्वयो न भवतीति नियमः सिद्ध इत्यर्थः । इदमित्यादिकर्मवाचकपदसमभिव्याहारे तु कदाचित् तदर्थविशेष्यतायां तृतीयार्थस्य प्रकारत्वस्यान्वयः स्यादपि कर्मासमभिव्याहारे त्वगत्या धात्वर्थे एव तृतीयार्थान्वयः स्वीकार्य इत्युक्तम् - कर्मासमभिव्याहारे इति
<
८
"Aho Shrutgyanam"