________________
( ३०० )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे
एवम् 'घटत्वेन वह्निर्नास्ति ' इत्यादौ प्रथमार्थो नानुयोगित्वम्- प्रथमायाः संख्यातिरिक्तार्थाऽबोधकत्वनियमात्, अतो नञर्थाभावे संबन्ध एव तत्, तत्र च न तृतीयार्थान्वयसंभवः ।
मम त्वनुयोगिता संबन्धेन वहयादिविशिष्टाभावे तृतीयान्तार्थघटत्वावच्छिन्नप्रतियोगिताकत्ववैशिष्ट्यभानाद् विशिष्टवैशिष्ट्यबोधमर्यादया वह्नयाद्यनुयोगिकत्वेस्थलीयस्यानुयोगितया संबद्धवन्यादेस्तादृशप्रतियोगिताकत्वेनावच्छेद्यावच्छेदकभावभानोपगमेन सामञ्जस्यात् । अनुयोगिताया नञर्थतावच्छेदकत्वे तत्रैव वहयादेः प्रतियोगिनोऽन्वयः, अतस्तत्र तृतीयान्तार्थघटत्वावच्छिन्नप्रतियोगिताया निरूपकत्वेनान्वयं स्वीकृत्याऽतिप्रसङ्गवारणं सम्यक् प्रतिभाति ।
यथा त्रिभक्त्यर्थस्य विभक्तयन्तरार्थेऽन्वयो न भवति तथा संबन्ध भूतपदार्थेप्यन्वयो न भवतीति' घटत्वेन वह्निर्नास्ति इत्यत्र घटत्वेनेतितृतीयान्तार्थस्य घटत्वावच्छिन्नप्रतियोगिताकत्वस्य न संबन्धभूतेऽनुयोगित्वेन्वयः किं तु नञर्थाभावे एवेत्याह- एवमिति । नन्वऽनुयोगित्वस्य प्रथमार्थत्वसंभवात् संबन्धत्वं कथमित्याशङ्क्याह--प्रथमार्थ इति प्रथमायाः संख्यातिरिक्तार्थबोधकत्वाभावान्नानुयोगित्वस्य प्रथमार्थत्वं संभवतीति तत्-अनुयोगित्वं नञर्थाभावे प्रतियोगिभूलव्यादीनामऽन्वये संबन्ध एव प्रतियोगिभूतवद्वयादीनां स्वाभावेऽनुयोगित्वसंबन्धेनान्त्रयो वतीति यावत् तस्मात् तत्र = अनुयोगित्वे तृतीयार्थस्य घटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्यान्ययो - संभवति - अनुयोगित्वस्य संबन्धरूपत्वादित्यर्थः ।
स्वमतमाह-मम त्विति वह्नयमावे वह्निरपि वर्तते एवेति वह्नयभावे. यानुयोगिता प्राप्ता तादृशानुयोगितासंबन्धेन वह्निविशिष्टाभावे घटत्वेनेति तृतीयान्तार्थो घटत्वावच्छिन्नप्रतियो गितार्कनवमपि वर्तते एवेति " घटत्वेन वह्निर्नास्ति ' इत्यत्र विशिष्टवैशिष्ट्य बोधमर्यांदया=अनुयोगितासंबन्धेन वह्निविशिष्टेऽभावे घटत्वावच्छिन्नप्रतियोगिताकत्वस्यापि वैशिष्ट्यमस्तीति नञर्थाभावेअनुयोगितासंबन्धेन संबद्धो यो वह्निस्तस्यैव तादृशप्रतियोगिताकत्वेन = घटत्वावच्छिन्नप्रतियोगिताश्वेन सहावच्छेद्यावच्छेदकमावो मम मतेस्तीति न कोपि दोषः, वहेरेवावच्छेद्यत्वस्वीकारात् तृतीयान्तार्थस्य घटत्वावच्छिन्नप्रतियोगिताकत्वस्य च नञर्थाभावेन्यस्त्रीकारेण - विभक्त्यर्थेऽन्वयाऽस्वीकारादित्यर्थः । वह्न्यभावे वयनुयोगिकत्वं नान्वीयते किं तु वह्यनुयोगिकृत्वस्य स्थाने वह्निरेवानुयोगिता संबन्धेनान्वीयते इत्यभिप्रायेणोक्तम् - वयाद्यनुयोगिकत्वस्थलीयस्येति इदं च वज्ञयादेरित्यस्य विशेषणम् । यद्यनुयोगिताया उक्तरीत्या संबन्धत्वं न स्वीक्रियते किं तु नञर्थाभावावच्छेदकत्वं स्वीक्रियते तदा तत्रैव=अनुयोगितायामेव प्रतियोगिनो वहेः स्वनिरूपितत्वसंबन्धेनान्वयः स्वीकार्य : ( अनुयोगिताया वह्निनिरूपितत्वात् ) अतः = यतोऽनुयोगितायामेव वह्नेरन्चयोऽतस्तत्र = भनुयोगितायां तृतीयान्तार्थभूताया घटत्वावच्छिन्नप्रतियोगिताया निरूपकत्व संबन्धेनान्वयः स्वीकार्यो न तु घटत्वावच्छिन्नप्रतियोगिताकत्वस्य
" Aho Shrutgyanam"