________________
हितीयाविशेषार्थः] व्युत्पत्तिवादः।
(३०१) रङ्गेऽभेदेन रजतारोपस्थले ' रङ्गं रजतेन जानाति ' इत्यप्रयोगातू तादात्म्य. भिन्नसंबन्धावच्छिन्नप्रकारतैव तृतीयार्थः । तत्र च 'रङ्गं रजतं जानाति ' इतिप्रयोगात् तादात्म्यसंबन्धावच्छिन्नप्रकारता कर्मत्वानुशिष्टद्वितीयादेरेवार्थः; तस्याश्च तादृशप्रकारवाचिपदसमानविभक्तिकपदोपस्थाप्यविशेष्यताविशिष्टाया. मेव ज्ञानरूपक्रियायामन्वयः तेन भेदारोपस्थले ' रङ्गे रजतत्वं जानाति । इतिवदऽभेदारोपस्थले ' रङ्गे रजतं जानाति' इति न प्रयोगः । उक्तस्थले च रङ्गरजतायोः समानविभक्तिकपदोपस्थाप्ययोरभेदान्वये साकाङ्क्षत्वेपि नायोग्यतया तादृशान्वयः। तादृशानुयोगिताया घटत्वावच्छिन्नप्रतियोगितानिरूपकत्वात् । अनुयोगितायामेव च तृतीयार्थप्र. तियोगिताया अन्वयस्वीकारादतिप्रसङ्गस्य विभक्त्यर्थस्य विभत्त्यर्थेऽन्वयरूपातिप्रसङ्गस्यापत्तिर्नास्ति किं तु वारणमेव जातम्, तथा चानुयोगितायां वर्तमानयोर्वह्निघटत्वावच्छिन्नप्रतियोगित्वयोरेवावच्छेद्यावच्छेदकभाव इत्यर्थः ।। ... रङ्गेऽभेदेनेति-रङ्गरजतयोर्भेदारोपस्थले तादात्म्यसंबन्धभिन्नो यः समवायादिसंबन्धस्तदवि. छिन्नप्रकारता तृतीयार्थो भवतीति — रङ्गं रजतत्वेन जानाति । इति प्रयोगों भवति-अत्र समवायसंबन्धावच्छिन्ना रजतत्वनिष्ठा या प्रकारता तस्यास्तृतीयार्थत्वात्, तादात्म्यसंबन्धावच्छिन्नप्रकारता तु तृतीयार्थो न भवतीत्यऽभेदारोपाऽभिप्रायेण — रङ्गं रजतेन जानाति ' इति प्रयोगो न भवति-अभेदारोपस्थलेप्यभेदान्वयस्थले इव तादात्म्यसंबन्धावच्छिन्न प्रकारताया अपेक्षितत्वात्तस्याश्च तृतीयार्थत्वासंभवादित्यर्थः । तत्र रङ्गेऽभेदेन रजतारोपस्थले ( अभिप्रायेण )
रगं रजतं जानाति' इति प्रयोगस्तु भवतीति तादात्म्यसंबन्धावच्छिन्नप्रकारता " कर्मणि द्वितीया " इत्याद्यनुशासनेन कर्मत्वेऽनुशिष्टाया द्वितीयाया अर्थो भवति अत्र रङ्गे रजतस्य तादात्म्यसंबन्धेन प्रकारत्वात् तथा च तादात्म्यसंबन्धावच्छिन्नरजतनिष्ठप्रकारताकं रगनिष्ठविशेष्यताकं च यज्ञानं तादृशज्ञानाश्रय इतिबोधः । तस्याः तादात्म्यसंबन्धावच्छिन्नप्रकारतायाश्च तादृशप्रकारवाचिपदं यद्रजतपदं तत्समानविभक्तिकं यद् द्वितीयान्तं रङ्गपदं तदुपस्थाप्या रङ्गपदोत्तरद्वितीयोपस्थाप्या या रङ्गनिष्ठा विशेष्यता तादृशविशेष्यताविशिष्टायां ज्ञानक्रियायामन्वयःरणनिष्ठविशेष्यताया रजतनिष्ठप्रकारतायाश्च निरूपकत्वसंबन्धेन ज्ञानेपि सत्त्वादेवेत्यर्थः । अस्थ फलमाह-तेनेति, भेदारोपस्थले यथा ' रङ्गे रजतत्वं जानाति' इति प्रयोगो भवति तथाऽभेदारोपस्थले 'रङ्गे रजतं जानाति । इतिप्रयोगो न भवति-अभेदारोपस्थले प्रकारवाचिरजतादिपदसमानविभक्तिकरङ्गादिपदोपस्थाप्यविशेष्यताविष्टायामेव ज्ञानादिक्रियायाः द्वितीयार्थप्रका• एताया अन्वयस्येष्टत्वात् ' रङ्गे रजतं जानाति ' इत्यत्र च रङ्गपदरजतपदयोः समानविभक्तिकस्वाभावेनोक्तान्चयासंभवादित्यर्थः । ननूक्तस्थलेरखं रेजतं जानाति ' इत्यत्र रणरजतयोरभेदान्वय एव 'नीलो घटः ' इत्यत्रेव कथं न स्वीक्रियते ? इत्याशझ्याह-उक्तस्थले चेति,
"Aho Shrutgyanam"